किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६६
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ६६
त्साश्रुनेत्राणां तपोभृतां द्वैतवननिवासिनां तपस्विनां हृदयानि समाविवेश, खेदयामासेत्यर्थः ॥ ५९ ॥
अन्वयः—अलकाऽधिपभृत्यदर्शितं, शिवम्, उर्वीधरवर्त्म, सम्प्रयान् सः, उद्बाष्पदृशां, तपोभृतां, हृदयानि, क्षणं समाविवेश ॥ ५९ ॥
व्याख्या—अलकाऽधिपभृत्यदर्शितं = यक्षोपदिष्टम्, अलका नाम पुरी तस्या अधिपः कुवेरस्तस्य भृत्योऽनुचरो यक्ष इति यावद् । शिवम् = मङ्गलम्, उर्वीधरवर्त्म = पर्वतमार्गं, सम्प्रयान् = सङ्गच्छन्, सः = अर्जुनः, उद्बाष्पदृशाम् = उद्गताश्रुनयनानां, तपोभृतां = तपस्विनां, हृदयानि = मनांसि, क्षणं = मुहूर्तं, समाविवेश = प्रविष्टवान्, योगिनां मनांसि खेदान्वितानि चकारेत्यर्थः ॥ ५९ ॥
समासः—अलकाया अधिपोऽलकाऽधिपस्तस्यालकाऽधिपस्य भृत्य इत्यलकाऽधिपभृत्यस्तेनालकाऽधिपभृत्येन दर्शित इत्यलकाऽधिपभृत्यदर्शितस्तमलकाऽधिपभृत्यदर्शितम् । धरनीति धर उर्व्या धर उर्वीधरस्तस्य वर्त्म उर्वीधरवर्त्म । उद्गतानि बाष्पाणि याभ्यस्ता उद्बाष्पास्ताश्च दृशो येषां त उद्बाष्पदृशस्ताषाम् उद्बाष्पदृशाम् । तपांसि बिभ्रति ये ते तपोभृतः तेषां तपोभृताम् ॥ ५९ ॥
वाच्यान्तरम्—सम्प्रयान् + सम् + प्र + या + लट् + शतृ । समाविवेश = सम् + आ + विश् + लिट् ॥ ५९ ॥
वाच्यान्तरम्—अलकाऽधिपभृत्यदर्शितं शिवम्, उर्वीधरवर्त्म सम्प्रयाता तेन ( अर्जुनेन ) तपोभृतां हृदयानि समाविविशिरे ॥ ५९ ॥
कोषः—'कैलासः स्थानमलका पूः' इत्यमरः। 'भृत्ये दासेर-दासेय-दास-गोप्यक-चेटका' इत्यमरः। 'श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः। 'सर्वसहा वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः। 'महीध्रे 'शिखरि क्ष्माभृद्दहार्य-धरपर्वता' इत्यमरः। अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः। 'लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः। 'बाष्पमुष्णाश्रु कथ्यते' इति कोषः ॥ ५९ ॥
सारांशः—अग्रेऽग्रे यक्षेण प्रदर्शिते पर्वतमार्गे गच्छन्तमर्जुनमवलोक्य तपस्विनः सदयहृदयाः करुणासमाकृष्ट बभूवुः ॥ ५९ ॥
भाषार्थः—यक्ष से दिखाये (बतलाये) मङ्गलप्रद, पर्वत के रास्ते में जाते हुए अर्जुन, कुछ देर तक आंसू भरे आंखवाले मुनियों के दिल में पैठे। अर्थात् अर्जुन को देखकर करुणा से मुनियों की आँखों में आँसू भर आया और अर्जुन की तरफ मन खिंच गया ॥ ५९ ॥
अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः
सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने ।
| ७० | किरातार्जुनीयम् | [ तृतीयः |
|---|
प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं
मुहुरनिभृतवेलावीचिबाहुः पयोधिः॥ ६० ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये तृतीयः सर्गः।
अनुजगुरिति। अथाशा दिशः दिवि भवं दिव्यम्। 'द्युप्रागपागुदक्प्रतीचो यत्'। दुन्दुभिध्वानमनुजगुरनुदध्वनुः। गायतेर्लिट्। व्योम्नि सुरकुसुमनिपातैर्लक्ष्मीर्वितेने। पुष्पवृष्टिश्चाजनिष्टेत्यर्थः। किञ्च। अनिभृताश्चञ्चला वेलायां कूले या वीचयस्ता एव बाहवो यस्य स तथोक्तः। 'वेला कूलविकारयोः' इति शाश्वतः। पयोधिः स्फुरन्तीमुल्लसन्तीं हर्षात्स्पन्दमानां च भुवं प्रियमिष्टं भारावतारणरूपं कथयिष्यन्निव। कथयितुमिवेत्यर्थः। 'लृट् शेषे च' इति चकारात्क्रियाऽर्थायां क्रियायां लृट्। आलिलिङ्ग। सर्वं चेदं शिवं दैवकार्यप्रवृत्तत्वादस्येति भावः। अत्र विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वासमासोक्तिरलङ्कारः। तत्र चाप्रस्तुतयोर्भूमि-समुद्रयोः प्रतिपन्नाभ्यां नायकाभ्यां भेदेऽभेदरूपातिशयोक्तिवशादालिङ्गोक्ति-रिति रहस्यम्। एवमतिशयोक्त्यनुप्राणिता समासोक्तिः। प्रियकथनास्नेहमुज्जी-वयन्ती तदङ्गभावं भजत इत्युभयोरङ्गाङ्गिभावेन सङ्कर इति विवेचनीयम् ॥ ६० ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य-
व्याख्यायां घण्टापथसमाख्यायां तृतीयः सर्गः समाप्तः।
**अन्वयः—**अथ, आशाः, दिव्यं, दुन्दुभिध्वानम्, अनुजगुः, व्योम्नि, सुरकुसुम-निपातैः, लक्ष्मीः वितेने, अनिभृतवेलावीचिबाहुः, पयोधिः, प्रियं, कथयिष्यन्, इव, स्फुरन्तीं, भुवम्, आलिलिङ्ग ॥ ६० ॥
**व्याख्या—**अथ=अर्जुनप्रयाणोत्तरकाले, आशाः=दिशः, दिव्यं = स्वर्ग-सम्बन्धिनं, न तु लौकिकं, दुन्दुभिध्वानम् = भेरीशब्दम्, अनुजगुः = अनुदध्वनुः, दिक्षु भेरीशब्दोऽभूदित्यर्थः। तथा च आशा एव कन्यः, सुरकुसुमनिपातै = देव-पुष्पवर्षणैः, वा, सुरकुसमानि पारिजातपुष्पाणि, तेषां निपातैः, व्योम्नि = गगने, लक्ष्मीः = श्रीः, वितेने = वितस्तरे। अर्थात्तदानीं खात्पुष्पवृष्टिर्जातेति भावः। तथा च, अनिभृतवेलावीचिबाहुः = चञ्चलतटलहरिभुजः, पयोधिः = समुद्रः, प्रियम् = प्रेमपूर्णं वच इति शेषः। कथयिष्यन् = कथयितुमिच्छन्, इव स्फुरन्तीम् = उल्ल-सन्तीम्, भुवम् = महीम, आलिलिङ्ग = परिषस्वजे, आलिङ्गितवानित्यर्थः ॥६०॥
**समासः—**दुन्दुभेर्ध्वानो दुन्दुभिध्वानस्तं दुन्दुभिध्वानम्। कुसुमानां निपाताः कुसुमनिपाताः सुराणां कुसुमनिपाताः सुरकुसुमनिपातास्तैः सुरकुसुमनिपातैः। वेलायां वीचयो वेलावीचयः, अनिभृता या वेलावीचयोऽनिभृतवेलावीचयः, ता एव बाहवो यस्य सोऽनिभृतवेलावीचिबाहुः ॥ ६० ॥