सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ७९

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ७९

वृद्धत्वम्, उद्योगमिति यावत्। लोकः = जनः, नियतिम् = दैवम्, भाग्यमिति, वासवं वा इन्द्रम्, अनुरुध्यते = अनुसरति।

अथ लोकपक्षे व्याख्यायते = कृतपञ्चाङ्गविनिर्णयः = सम्यग्विहितपञ्चाङ्गपत्रविचारः, नयः = न्यायवान्, गणक इति शेषः। कोशदण्डयोः = अर्थशासनयोः। प्रभवः = उत्पादको भवति, नहि पञ्चाङ्गपत्रं विना धनं, तिथ्यादीनां घटीपलं च ज्ञायते। एवम्भूतः सः = विचारवान्, विधेयपदेषु = कर्तव्यलक्षणेषु वा कृत्यवस्तुषु, च कार्यस्थानेषु राज्ञ इति शेषः। दक्षतां = स्फूर्तिम्, लोकः = अवलोककः, जन्मपत्रद्रष्टा गणक इति, नियतिम् = भाग्यम्, इव, अनुरुध्यते = अनुसरति। यथैव भावी, तथैव गणको वदति, नैवंविधस्य गणकस्य कथनं मिथ्या भवतीति भावः ॥ १२ ॥

समासः — कोशश्च कोशदण्डौ तयोः कोशदण्डयोः। पञ्च अङ्गानि पञ्चाङ्गानि, पञ्चाङ्गानां विनिर्णयः पञ्चाङ्गविनिर्णयः, कृतः पञ्चाङ्गविनिर्णयो येन यस्य वा सः कृतपञ्चाङ्गविनिर्णयः। विधेयानां पदानि विधेयपदानि तेषु विधेयपदेषु ॥ १२ ॥

व्याकरणम् — अनुरुध्यते = अनु + रुध + श्यन् + लट् ॥ १२ ॥

वाच्यान्तरम् — कृतपञ्चाङ्गविनिर्णयेन नयेन कोशदण्डयोः प्रभवेन भूयते बभूवे। तेन विधेयपदेषु दक्षता, लोकेन नियतिरिवानुरुध्यते ॥ १२ ॥

कोषः — 'सहायाः साधनोपाया विभागो देशकालयोः। विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते' इति कामन्दकः। 'कोशोऽस्त्री कुड्‌मले खड्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः। 'दण्डोऽस्त्री शासने राज्ञो हिंसायां लगुड़े दमे। यात्रायाञ्च सैन्यभेदे' इति वैजयन्ती। 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः। 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः। 'लोकस्तु भुवने जने' इति ॥ १२ ॥

सारार्थः — यः कश्चित् राजा नीतेः पञ्चाङ्गानां परिपोषकस्तदनुसारं चलति च, तस्य धनराशिः सैन्यसमूहश्च न कदापि अल्पतां याति। परन्तु सो नीतिः सामयिक एव दक्षो जनः पालयति। नहि दीर्घसूत्रेण हतोत्साहेन पाल्यते, इति विवेचक भक्त्या सा नीतिरनुसर्तव्या ॥ १२ ॥

भावार्थः — जिस राजनीति के पाँचों अंगों का निर्णय किया जाता है, वैसी नीति, खजाना और सेनाविभाग की बुनियाद होती है। लेकिन वह नीति उसी बाजी का पीछा करती है, जैसे लोग दैव (भाग्य) ही का भरोसा रखते हैं ॥१२॥

ननु सोत्साहस्यासहायस्य कथमर्थसिद्धिरित्याह—

अभिमानवतो मनस्विनः प्रियसक्त्यैः परमार्ददक्षतः।
विनिपातनिवर्तनक्षमं मतमालम्बतमात्मपौरुषम् ॥ १३ ॥

अभिमानवत इति। अभिमानवतो सोऽवग्रहेन निमग्निसमूर्ध्वस्थानं पदं चतुरं राज्यादिकमारुरुक्षत आरोहुमिच्छतः प्राप्नुकामक मनस्विनो धीरस्य परमार्ददक्षतः

८०किरातार्जुनीयम्[ द्वितीयः

स्वपुरुषकार एव विनिपातनिवर्तनक्षममनर्थप्रतिकारसमर्थमालम्बनं सहकारि ३.तमिष्टम् । यथा कस्यचित्तुङ्गमूारोहतः किञ्चित्पतनप्रतिबन्धकमनुचरहस्तादिक ३.लम्बनं तद्वदिति ध्वनिः । किं पौरुषादन्यैः शूराणामिति भावः ॥ १३ ॥

अन्वयः—अभिमानवतः, प्रियम्, उच्चैः, आरुरुक्षतः, मनस्विनः, विनिपातनिवर्तनक्षमम्, आत्मपौरुषम्, आलम्बनम्, मतम् ॥ १३ ॥

सुधा—अभिमानवतः = मानधनस्य, जातिकुलाभिमानशालिन इत्यर्थः । प्रियम् = अभीष्टम्, उच्चैः = उन्नतम्, योग्यतायोग्यम्, आरुरुक्षतः = आरोढुमिच्छतः, मनस्विनः = गम्भीरस्य, विनिपातनिवर्तनक्षमम् = विपत्तिध्वंसयोग्यम्, वाऽनर्थप्रतीकारसमर्थम्, आत्मपौरुषम् = निजोद्योग एव, आलम्बनम् = अवलम्बनम्, सहायकमित्यर्थः, मतम् = इष्टम्, वा स्वीकृतम् ॥ १३ ॥

समासः—अभिमानोऽस्यास्तीति अभिमानवान् तस्याभिमानवतः । विनिपातस्य निवर्त्तनं विनिपातनिवर्त्तनम्, तस्य क्षमं विनिपातनिवर्त्तनक्षमम् । आत्मनः पौरुषम् आत्मपौरुषम् ॥ १३ ॥

व्याकरणम्—आरुरुक्षतः = आङ् पूर्वात् रुहेः=सन्नन्तात् शतृप्रत्ययः ॥ १३ ॥

वाच्यान्तरम्—अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षता विनिपातनिवर्तनक्षमेण आत्मपौरुषेण आलम्बनेन भूयते ॥ १३ ॥

कोषः—'गर्बोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः' इत्यमरः । 'पदं व्यवस्थितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १३ ॥

सारार्थः—यः स्वजातिकुलाभिमानवान् महीपतिः स्वाभीष्टस्थानलाभाय यतते, तेन अन्यसाहाय्याशा न कर्तव्या केवलं निजभुजविक्रमस्यैव साहाय्याशा विधेया, यत्कृत्यं स्वेन सिद्ध्यति, तद्रम्यं कथयेदिति ॥ १३ ॥

भावार्थः—अपनी जाति और कुल के अभिमान वाला जो राजा अभीष्ट स्थान को चाहे उसको चाहिए कि पराये की आशा छोड़कर केवल आपद् को दूर करने लायक अपने उद्योग का अवलम्बन करे ॥ १३ ॥

पौरुषानङ्गीकारे दोषमाह—

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥ १४ ॥

विपद इति । अविक्रमं पौरुषहीनं विपदोऽभिभवन्त्याक्रामन्ति । आपदुपेतं विपन्नम् आयतिः उत्तरकालः 'उत्तरकाल आपतिः' इत्यमरः । रहयति त्यजति । निरायतेः, आसन्नक्षयस्येत्यर्थः । लघुताऽगौरवं नियताऽवश्यम्भाविनी । न कश्चिदेनमाश्रियत इत्यर्थः । अगरीयाँल्लघीयमान्नृपश्रियी राजलक्ष्म्याः पदमास्पदं न भवति