किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ७१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ७१
व्याकरणम्—अनुजगुः = अनु + गै + लिट् । वितेने = वि + तन् + लिट् कर्मणि । कथयिष्यन् = कथ + णिच् + लृट् + शतृ । आलिङ्ग = आ + लिगि + लिट् ॥
वाच्यान्तरम्—आशाभिर्दिन्यो दुन्दुभिध्वानोऽनुजगे । सुरकुसुमनिपाता व्योम्नि लक्ष्मीं वितेनुः । प्रियं कथयिष्यतेवानिभृतवेलावीचिबाहुना पयोधिना स्फुरन्ती भूरालिळिङ्गे ॥ ६० ॥
कोषः—'स्याद्यशःपटहो ढक्का मेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । 'शब्दे निनाद-निनद-ध्वनि-ध्वान-रव-स्वाना' इत्यमरः । 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ता' इत्यमरः । 'अमरा निर्जरा देवास्त्रिदशा विबुधाः सुरा' इत्यमरः । 'प्रसूनं कुसुमं सुमम्' इत्यमरः । 'द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्कर-मम्बरम्' इत्यमरः । 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि' इत्यमरः । 'भङ्ग-स्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरयोर्मिषु' इत्यमरः । 'भुजबाहु प्रवेष्टो दोः' इत्यमरः । 'पयोधिरुधिः समुद्रः सागरोऽर्णव' ॥ ६० ॥
सारार्थः—अर्जुनस्य तपोधं प्रस्थानसमये देवदुन्दुभयो नेदुः । आकाशाद् पुष्पवृष्टिरभूत् । हर्षेण समुद्रोऽपि चञ्चलो बभूव । इत्थं शुभशकुनान्यभूवन् ॥ ६० ॥
भाषार्थः—दिशाओं में देव-दुन्दुभी बजने लगी, आकाश में देवता लोगों के फूलों की वर्षा से शोभा होने लगी । चञ्चल किनारे की लहर रूप भुजा है, जिसकी ऐसा समुद्र जैसे कुछ मीठी बात या शुभसमाचार कहने की इच्छा करके चमकती हुई पृथिवी का आलिङ्गन करने लगा ॥ ६० ॥
छन्दःपरिचयः—इदं मालिनीनाम् वृत्तम् । तल्लक्षणञ्च—'ननमयययुतेयं मालिनी भोगिलोकैः' । अस्यार्थः—यस्मिञ्श्लोकापादे नगणनगणमगणयगणयगणास्तथा षड्भिः-सप्तभिश्चरैर्विश्रामोऽपि, तन्मालिनीनाम वृत्तम् । यथाऽत्र—
| न | न | म | य | य |
|---|---|---|---|---|
| । । । | । । । | ऽ ऽ ऽ | । ऽ ऽ | । ऽ ऽ |
| “अ नु ज | गु र घ | दि व्यं दु | न्दु भि ध्वा | न मा शाः” |
एवं चतुर्ष्वपि पादेषु सम-वृत्तत्वादूहनीयम् । तत्र समवृत्तलक्षणम् “अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षण-लक्षिताः । तच्छन्दःशास्त्रतत्वज्ञाः समवृत्तं प्रचक्षते ॥” एवमर्धसमवृत्तलक्षणम्— “प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तूर्यवद्वृत्तं तदर्धसममुच्यते॥” अर्थात् पङ्क्तिद्वयेन प्रत्येकपदार्थे-ऊर्ध्वाधक्रमेण लिखिते, प्रथमतृतीययोरेकलक्षण-त्वात् समलक्षणत्वं, द्वितीयचतुर्थयोरेकत्रोर्ध्वाधोवत्तंसमानत्वाद् लक्षणसाम्यं भवतीति युक्तियुक्तमेव । एवं तदुदाहरणीभूतानि पद्यानि द्वितीयसर्गादिगतानि संम्भिवाक्यानि
७२ किरातार्जुनीयम् [ तृतीयः
'विहितां प्रियया मनःप्रियाम्' इत्यादीनिवाक्यानि। अस्मिन्नपि सर्गे 'अविलङ्घ्य-विकर्षणं परैः' इत्यादि त्रीणि पद्यान्यर्थसमान्येव। एवं यस्मिंश्च अपि भिन्नभिन्न-लक्षणास्तद्विषमवृत्तम्। तथा चोक्तं—'यस्य पादे चतुष्केऽपि लक्ष्म भिन्नं परस्परम्। तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः॥' तदुदाहरणमुद्गतादिकमस्यैव काव्यस्य द्वादशे सर्गे—'अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम्। क्लान्तिरहितमभिराद्धयितुं विधिवत्तपांसि विदधे धनञ्जयः॥'
नवजलनिधिकृतितुले ( १८४९ ) शाके तैषीयपूर्णिमामान्दे।
'गङ्गाधरेण' रचिता सार्गत्रयिकी 'सुधा' पूर्णा॥
इति मिथिलादेशान्तर्गत—भागलपुरमण्डलवर्त्ति—'चयनपुर' ग्रामनिवासिना विद्वद्वर'हंसराज'शर्मणस्तनयेन मिश्रोपनामकेन श्रीगङ्गाधरशर्मणा विरचितया सुधाऽभिधया टीकया विभूषितं किरातार्जुनीयकाव्यस्य सर्गत्रयं पूर्णतामगात्।
॥ श्रीः ॥
किरातार्जुनीयम्
'सुधा' संस्कृत-हिन्दीव्याख्योपेतम्
चतुर्थः सर्गः
ततः स कूजत्कलहंसमेखलां, सपाकसस्याहितपाण्डुतागुणम् ।
उपाससादोपजनं जनप्रियः, प्रियामिवासादितयौवनां भुवम् ॥ १ ॥
शरदिन्दुनिभां शुद्धां शुभ्रवस्त्रैरलङ्कृताम् ।
कलहंसकृतावासां, वरदां शारदां भजे ॥
अन्वयः— ततः जनप्रियः सः कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् भुवम् आसादितयौवनां प्रियाम् इव उपजनम् उपाससाद ।
विग्रहः— जनानां प्रियः = जन-प्रियः । कलहंसा मेखला इव, अथवा कलहंसा इव मेखला यस्यास्ताम् = कलहंसमेखलाम्, कूजन्तों कलहंसमेखलामिव = कूजत्कलहंसमेखलाम् । सह पाकेन वर्तन्त इति सपाकानि सस्यानि तैराहितः पाण्डुतागुणो यस्यास्ताम् = सपाकसस्याहितपाण्डुतागुणाम् । आसादितं यौवनं यया ताम् = आसादितयौवनाम् । जनस्य समीपमुपजनम् ।
अर्थः— ततः = प्रस्थानानन्तरम् । जनप्रियः = लोकप्रियः । स = अर्जुनः । कूजत्कलहंसमेखलाम् = कूजद्राजहंसमेखलाम् । सपाकसस्याहितपाण्डुतागुणाम् = पक्वान्नसम्पादितपाण्डुरङ्गयुक्ताम् । भुवम् = भूमिम् । आसादितयौवनाम् = प्राप्तयौवनाम् । प्रियां = प्रेयसीम् । इव । उपजनम् = जनसमीपे, सखीसमक्षं वा । उपाससाद = उपगतवान् । वंशस्थवृत्तम् । अत्रोपमालङ्कारः ।
कोषः— 'कादम्बः कलहंसः स्यात्' इत्यमरः ।
हिन्दी— हिमालय को प्रस्थान के पश्चात् लोकप्रिय अर्जुन कलकूजन करते हुए राजहंस की भाँति ध्वनित मेखलायुक्त, फसलों के परिपाक से गौरवर्ण वाली
२ किरातार्जुनोयम्
भूमि पर पहुँचे, जैसे कि कोई प्रियपुरुष बजती हुई करधनी पहने अपनी प्रेयसी के समक्ष पहुँचा हो ॥ १ ॥
विनम्रशालिप्रसवौघशालिनोरपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ॥ २ ॥
अन्वयः— सः विनम्रशालिप्रसवौघशालिनीः अपेतपङ्काः ससरोरुहाम्भसः उपायनीभूतशरद्गुणश्रियः उपसीम स्थलीः पश्यन् ननन्द ।
विग्रहः— विनम्राणां शालोनां प्रसवः=विनम्रशालिप्रसवस्तेषामोघैस्तैः। शाल्यन्ते ताः=विनम्रशालिप्रसवौघशालिनीः । अपेतानि पङ्कानि याभिस्ताः=अपेतपङ्काः । सरोरुहैः सहितानि ससरोरुहाणि, अम्भांसि यासु ताः=ससरोरुहाम्भसः । शरदं गुणः=शरद् गुणः, तस्य श्रियस्ताः=शरद्गुणश्रियः । सीम्नः समीपम्=उपसीम ।
अर्थः— सः=अर्जुनः । विनम्रशालिप्रसवौघशालिनीः=अवनतशालिफलस्तोमशोभिनीः । अपेतपङ्काः=निष्पङ्काः । ससरोरुहाम्भसः=सकमलजलाः । उपायनीभूतशरद्गुणश्रियः=उपहारीभूतशरद्गुणसम्पत्तोः । उपसीम=सीम्नः समीपे । स्थलीः=भुवः । पश्यन्=अवलोकयन् । ननन्द=जहर्ष । अत्र परिणामारङ्कारः ।
कोषः— 'स्थलं स्थलो' इत्यमरः । 'अम्भोर्णस्तोयपानीयम्' इत्यमरः ।
हिन्दी— अर्जुन झुके हुए धान की बालियों से युक्त, कीचडरहित, कमल तथा जलयुक्त उपहार रूप में प्राप्त, शरत्कालीन शोभावाली, ग्राम-सीमाओं में स्थित भूभागों को देखते हुए बहुत प्रसन्न हुए ॥ २ ॥
निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरोविवृत्तयः ॥ ३ ॥
अन्वयः— विस्मयाकुलैः उन्मीलितपद्मलोचनैः पयोभिः निरीक्ष्यमाणा इव हृतप्रियादृष्टिविलासविभ्रमाः शफरोविवृत्तयः अस्य मनः जह्रुः ।
विग्रहः— विस्मयेनाकुलास्तैः=विस्मयाकुलैः । उन्मीलितानि पद्मानि=उन्मीलितपद्मानि । उन्मीलितपद्मानीव लोचनानि येषां तैः उन्मीलितपद्मलोचनैः । प्रियाणं दृष्टिः=प्रियादृष्टिः । तासां विलासास्तेषां विभ्रमाः, हृताश्चामी प्रियादृष्टिविलासविभ्रमाः=हृतप्रियादृष्टिविलासविभ्रमाः । शफरीणां विवृत्तयः=शफरीविवृत्तयः ।
चतुर्थः सर्गः
३
अर्थः—विस्मयाकुलैः = आश्चर्यचकितैः । उन्मीलितपद्मलोचनैः = उत्फुल्लकमलनयनैः । पयोभिः = जलैः । निरीक्ष्यमाणा इव = अवलोकयन्त्य इव । हृतप्रियादृष्टिविलासविभ्रमाः = अपहृतयुवतीभ्रूविक्षेपादिविभ्रमाः । शफरीविवृत्तयः = मत्स्यीस्फुरितानि । अस्य = अर्जुनस्य । मनः = चित्तम् । जह्रुः = आचकृषुः । अत्रोपमालङ्कारः ।
कोषः—'विभ्रमः संशये भ्रान्तौ शोभायाञ्च' इति वैजयन्ती ।
**हिन्दी—**आश्चर्यचकित तालाब जैसे अर्जुन को विकसित कमलरूपी नेत्रों से देख रहे थे । युवतियों के भ्रूविक्षेपादि विलासों का मानों तालाबों में उछलती हुई छोटी दो मछलियाँ अपहरण कर रही थीं । इस प्रकार इन सब वस्तुओं ने अर्जुन का मन अपनी ओर आकृष्ट कर लिया ॥ ३ ॥
तुतोष पश्यन् कलमस्य सोऽधिकं सवारिजे वारिणि रामणीयकम् ।
सुदुर्लभे नार्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मोमनुरूपसङ्गमे ॥ ४ ॥
अन्वयः— सः सवारिजे वारिणि कलमस्य रामणीयकं पश्यन् अधिकं तुतोष । सुदुर्लभे अनुरूपसङ्गमे प्रकर्षलक्ष्मोम् अभिनन्दितुं कः न अर्हति ।
**विग्रहः—**वारिणि जातम् वारिजं = वारिजेन सह तस्मिन् = सवारिजे । रमणीयस्य भावो रामणीयकम् । अनुरूपः सङ्गमः = अनुरूपसङ्गमस्तस्मिन् = अनुरूपसङ्गमे । प्रकर्षस्य लक्ष्मोः = प्रकर्षलक्ष्मोस्ताम् = प्रकर्षलक्ष्मीम् ।
अर्थः—सः = अर्जुनः । सवारिजे = सकमले । वारिणि = जले । कलमस्य = शालिविशेषस्य । रामणीयकम् = सौन्दर्यम् । पश्यन् = अवलोकयन् । अधिकम् = बहु । तुतोष = प्रीतो जातः । सुदुर्लभे = दुष्प्राप्ये । अनुरूपसङ्गमे = अनुकूलसमागमे । प्रकर्षलक्ष्मीम् = उत्कर्षसम्पदम् । अभिनन्दितुम् = स्तोतुम् । कः = कः पुरुषः । न अर्हति = नैव योग्यो भवति । अत्रार्थान्तरन्यासालंकारः ।
कोषः—'शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी' इत्यमरः ।
**हिन्दी—**अर्जुन कमलयुक्त जल में कलम नामक शालिविशेष के पौधों की सुन्दरता देखते हुए बहुत प्रसन्न हुए । दुष्प्राप्य एवं अनुकूल समागम होने पर कौन पुरुष उत्कृष्ट सम्पत्ति का अभिनन्दन नहीं करता है ? ॥ ४ ॥
नुनोद तस्य स्थलपद्मिनोगतं वितर्कमाविष्कृतफेनसन्तति ।
अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृतपाठोनप राहतं पयः ॥ ५ ॥
| ४ | किरातार्जुनीयम् |
|---|
अन्वयः— आविष्कृतफेनसन्तति अवाप्तकिञ्जल्कविभेदम् उच्चकैः विवृत्तपाठी-
नपराहतम् पयः तस्य स्थलपद्मिनीगतं वितर्कं नुनोद ।
विग्रहः— फेनानां सन्ततिः = फेनसन्ततिः । आविष्कृता फेनसन्ततिर्यस्य
तत् आविष्कृतफेनसन्तति । किञ्जल्कस्य विभेदः किञ्जल्कविभेदः । अवाप्तः किञ्जल्क-
विभेदः येन तत् = अवाप्तकिञ्जल्कविभेदम् । विवृत्तेन पाठीनेन पराहतं तत् =
विवृत्तपाठीनपराहतम् । स्थलस्य पद्मिनी = स्थलपद्मिनी, तस्यां गतं तत् = स्थल-
पद्मिनीगतम् ।
अर्थः— आविष्कृतसन्तति = प्रकटीकृतडिण्डीरसमूहम् । अवाप्तकिञ्जल्क-
विभेदम् = प्राप्तकेसरोपगमम् । उच्चकैः = उच्चैः । विवृत्तपाठीनपराहतम् =
लुण्ठितमत्स्यविशेषताडितम् । पयः = जलम् । तस्य = अर्जुनस्य । स्थलपद्मिनी-
गतम् = गुलाबाख्यपुष्पगतम् । वितर्कम् = संशयम् । नुनोद = विच्छेद । अत्र
सन्देहालङ्कारः ।
कोषः— 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः ।
हिन्दी— सकमल सरोवरों में उठी हुई फेन, कमल-पराग के भेद तथा जोर
से उछलते हुए पाठीन नामक मत्स्य-विशेषों से ताडित जल ने अर्जुन का 'कमलों
में गुलाब' होने का संशय दूर कर दिया ॥ ५ ॥
कृतोमिरेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ॥ ६ ॥
अन्वयः— सः शिथिलत्वम् आयता शनैः शनैः शान्तरयेण वारिणा कृतोमि-
रेखं तरङ्गितक्षौमविपाण्डु समुद्रयोषितां सैकतं निरीक्ष्य रेमे ।
विग्रहः— कृता ऊर्मय एव रेखाः यस्य तस्य तत् = कृतोमिरेखम् । तरङ्गा
अस्य सञ्जातास्तरङ्गितम् । तरङ्गितं तत् क्षौमम्, तद्वद् विपाण्डु = तरङ्गितक्षौम-
विपाण्डु । समुद्राणां योषितस्तासाम् = समुद्रयोषिताम् । सिकता अस्यास्तीति ।
अर्थः— सः = अर्जुनः । शिथिलत्वम् = शैथिल्यम् । आयता = गच्छता ।
शनैः शनैः = मन्दं मन्दम् । शान्तरयेण = शान्तजवेन । वारिणा = जलेन कृतोर्मि-
रेखम् = कृततरङ्गराजि । तरङ्गितक्षौमविपाण्डु = भङ्गितदुकूलवच्छुभ्रम् । समुद्र-
योषिताम् = नदीनाम् । सैकतम् = पुलिनम् । निरीक्ष्य = अवलोक्य । रेमे =
तुतोष ।
चतुर्थः सर्गः
कोषः—'तोयोत्थितं तत्पुलिनं संकतं सिकतामयम्' इत्यमरः।
**हिन्दी—**अर्जुन प्रति-दिन क्षीण होने से धीमे बहाववाली, लहरों से रेखा बनानेवाली, नदियों के भङ्गिमायुक्त क्षौमवस्त्र के समान उज्ज्वल रेतीले तट को देखकर अतीव प्रसन्न हुए ॥ ६ ॥
मनोरमं प्रापितमन्तरं भ्रुवोरलङ्कृतं केसररेणुनाऽणुना।
अलक्तताम्राधरपल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ॥ ७ ॥
**अन्वयः—**अणुना केसररेणुना अलङ्कृतं मनोरमं भ्रुवोः अन्तरं प्रापितं बन्धुजीवकम् अलक्तताम्राधरपल्लवश्रिया समानयन्तीम् इव।
**विग्रहः—**केसरस्य रेणुः केसररेणुस्तेन = केसररेणुना। अलक्तवत् ताम्रस्य अधरपल्लवस्य या श्रीस्तया = अलक्तताम्राधरपल्लवश्रिया।
**अर्थः—**अणुना = सूक्ष्मेण। केसररेणुना = किञ्जल्कपरागेण। अलङ्कृतम् = शोभितम्। मनोरमम् = सुन्दरम्। भ्रुवोः अन्तरम् = भ्रूमध्यम्। प्रापितम् = निवेशितम्। बन्धुजीवकम् = बन्धूकपुष्पम्। अलक्तताम्राधरपल्लवश्रिया = लाक्षारस-रक्ताधरपल्लवकान्त्या समानयन्तीम् = समोकुर्वतीम्। इव = समम्। 'अत्रोत्प्रेक्षा-लंकारः।
कोषः—'किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः।
**हिन्दी—**धान के खेत रखाती हुई स्त्रियों ने सूक्ष्म केसररेणु से अलङ्कृत मनोरम जवाकुसुम को भौहों के मध्य में लगा रखा था। इस प्रकार पुष्पयुक्त भौहें महावर की लालिमा से रञ्जित अधर पल्लवों की मानों बराबरी कर रही थी ॥ ७ ॥
नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ।
चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥ ८ ॥
**अन्वयः—**महानिवेशौ पयोधरौ परितः मुहुः आहितम् नवातपालोहितम् अरविन्दजं रजः सर्पता परिश्रमाम्भःपुलकेन चकासयन्तीम्।
**विग्रहः—**महान् निवेशो ययोस्तौ = महानिवेशौ। पयसां धरौ तौ = पयोधरौ। नवेन आतपेन आलोहितं तत् = नवातपालोहितम्। अरविन्दाज्जातम् सत् = अरविन्दजम्। परिश्रमाज्जातमम्भः = परिश्रमाम्भः, तस्य पुलकस्तेन = परिश्रमाम्भःपुलकेन।
| ६ | किरातार्जुनीयम् |
|---|
अर्थः— महानिवेशो = पीवरौ । पयोधरौ = स्तनौ । परितः = बहिः, मुहुः = वारं वारम् । आहितं = प्राप्तम् । नवातपलोहितम् = बालातपरक्तम्, अरविन्दजं = कमलजम् । रजः = परागम् । सर्पता = प्रसरता । परिश्रमजायमान-पुलकेन = श्रमस्वेदोद्भेदेन । चकासयन्तीम् = शोभयन्तीम् । (निरीक्ष्य कृतार्थतां मेने) ।
कोषः— 'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः ।
हिन्दी— धान के खेतों को रक्षाती हुई स्त्रियों ने अपने उन्नत उरोजों पर प्रातःकालीन धूप के समान रक्ताभ कमल-पराग लगाया था, वे स्त्रियाँ उस पराग रज को परिश्रम के कारण उत्पन्न हुए स्वेद-बिन्दुओं से शोभित कर रही थीं ॥ ८ ॥
कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥ ९ ॥
अन्वयः— कपोलसंश्लेषि अवतंसकोत्पलं विलोचनत्विषा विभूषयन्तीं कलमस्य गोपिकां निरीक्ष्य पाण्डोः सुतेन शरदः कृतार्थता मेने ।
विग्रहः— कपोलं संश्लेषयति तत् = कपोलसंश्लेषि । अवतंसकञ्चोत्पलं तत् = अवतंसकोत्पलम् । विलोचनयोः त्विट् = विलोचनत्विट् तया = विलोचनत्विषा । गाः पातीति गोपः, गोपस्य स्त्री गोपिका तां = गोपिकाम् । कृतार्थस्य भावः = कृतार्थता ।
अर्थः— कपोलसंश्लेषि = कपोलचुम्बि । अवतंसकोत्पलम् = कर्णोत्पलम् । विलोचनत्विषा = नेत्रकान्त्या । विभूषयन्तीम् = अलंकुर्वतीम् । कलमस्य = शालिविशेषस्य । गोपिकां = गोप्त्रीम् । निरीक्ष्य = दृष्ट्वा । पाण्डोः = एतन्नामकस्य राज्ञः । सुतेन = पुत्रेण अर्जुनेनेत्यर्थः । शरदः = शरदृतोः । कृतार्थता = साफल्यम् । मेने = अमानि ।
कोषः— 'गण्डौ कपोलौ' इत्यमरः ।
हिन्दी— शालिगोपित्रियों के कपोलों को छूते हुए कर्णफूल आभूषण लटक रहे थे । नेत्रों की कान्ति से अलंकृत इन धान की रखवाली करनेवाली स्त्रियों को देखकर अर्जुन ने शरद्ऋतु की सफलता को माना ॥ ९ ॥
उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् ।
समुत्सुकाश्चक्रुरवेक्षणोत्सुकं गवां गणाः प्रस्रुतपीवरोधसः ॥ १० ॥