सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३९

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ३९

सारार्थः—उग्रशासनो दुर्योधनो महाराजः राज्यकार्ये स्वकनिष्ठभ्रातरं दुःशासननामानं नियुज्य स्वयं निश्चिन्तो भूत्वा पुरोहितादेशानुसारं यज्ञं च करोति ॥२१॥

भाषार्थः— कठोर शासन करने वाला दुर्योधन अपने छोटे भाई दुःशासन को युवराज बनाकर स्वयं यज्ञ में निश्चित रूप से पुरोहित के आज्ञानुसार हव्य से अग्नि को सन्तुष्ट करता है ॥२२॥

न चैतावता निरुद्योगैर्भाव्यमित्याशङ्कयाशां दर्शयति—

प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः ।
स चिन्तयत्येव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ॥२३॥

प्रलीनेति । स दुर्योधनः। प्रलीनभूपालम् । निःसपत्नमित्यर्थः। स्थिरायति । चिरस्थायीत्यर्थः। भुवो मण्डलमावारिधिभ्य आवारिधि । आङ्‌मर्यादाऽभिविध्योः इत्यव्ययीभावः। प्रशासदाज्ञापयन्नपि । 'जक्षित्यादयः षट्' इत्यभ्यस्तसंज्ञा । 'नाभ्यस्ताच्छतुः' इति नुमागमप्रतिषेधः। त्वत् त्कत एष्यतीरगमिख्यतीः। धातूनामनेकार्थत्वादुक्तार्थसिद्धिः अथवाऽऽङ्‌पूर्वः पाठः। 'एत्येधत्यूठ्सु' इति वृद्धिः। 'लटः सद्वा' इति शतृप्रत्ययः। 'उगितश्च' इति ङीप् । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः। भियो भयहेतून् । विपद इत्यर्थः। चिन्तयत्यालोचयत्येव । स एवाह- अहो बलवद्विरोधिता दुरन्ता दुष्टावसाना । सार्वभौमस्यापि प्रबलैः सह वैरायमाणत्वमनर्थपर्यवसाय्येवेति तात्पर्यम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥२३॥

अन्वयः—सः प्रलीनभूपालं, स्थिरायति, आवारिधि, भुवः, मण्डलम्, प्रशासत् अपि, त्वदेष्यतीः भियः, चिन्तयति, एव । अहो, बलवद्विरोधिता, दुरन्ता (भवति)॥

सुधा—सः=दुर्योधनः, प्रलीनभूपालम् = अप्रतिमभूपम्, अकण्टकम्, स्थिरायति = चिरस्थायि सदावर्त्तमानम्, आवारिधि = आसमुद्रम्, भुवः = पृथिव्याः, मण्डलम् = वलयम, प्रशासत् = आज्ञापयन्, अपि, त्वदेष्यतीः = त्वदागमिष्यतीः, भियः= विपदः, चिन्तयपि = आलोचयति, एव । कुत इत्याह— अहो इति सखेदोच्छ्वासे बलवद्विरोधिता=महाजनवैरिता, दुरन्ता = दुरवसाना, दुःखपरिणामा, भवतीति शेषः॥२३॥

समासः— प्रलीना भूपाला यस्मिन् तत् प्रलीनभूपालम्। स्थिरा आयतिरुत्तरकालो यस्त तत् स्थिरायति । आ वारिधिभ्य इति आवारिधि । बलमस्यास्तीति बलवान्, बलवद्भिः विरोधिता बलवद्विरोधिता ॥२३॥

४० किरातार्जुनीयम् [प्रथमः

व्याकरणम्- प्रशासत् = प्र+शास्+लट्+शतृ । चिन्तयति = चिन्ति + लट् । एष्यतीः = इण्+शतृ+ङीष् ॥२३॥

**वाच्यान्तरम्-**तेन दुर्योधनेन प्रलीनभूपालं स्थिरयति, आवारिति भुवो मण्डलं प्रशासत, त्वदेष्यत्यो भियश्चिन्त्यन्ते एव । अहो बलवद्विरोधितया दुरन्तया भूयते ॥

कोषः-'उत्तरः काल आयतिः' इत्यमरः। 'उदधिर्वारिधिः सिन्धुः सागरश्च सरित्पतिः' इति कोषः। मण्डलं वलयं समम्' इति कोष 'भीतिर्भीः साध्वसं भयम्' इत्यमरः॥२३॥

**सारार्थः-**निष्कण्टकमासमुद्रं भूमण्डलमात्मायत्तं कृत्वाऽपि त्वत्तो विभेत्येव। यतो महद्विर्विरोधो नियतं कदापि समूलनाशायैव भवति । पद्यमिदं विशङ्कमानो भवतः पराभवमि'त्याद्यस्यानुच्छायेवास्ति ॥२३॥

भाषार्थः- दुर्योधन के प्रताप के उदय होने से लुप्त हो गये हैं राजा लोग जहाँ और आगे के भी समय में किसी से टलने की शङ्का नहीं है जिनको, ऐसे समुद्र पर्यन्त भूमण्डल का शासन करता हुआ भी वह आप से आनेवाले डर को सोचता ही है क्योंकि अपने से बलिष्ठ के साथ विरोध करना कभी न कभी दुःख ही के लिये होता है ॥२३॥

ननु गूढाकारेङ्गितस्य तस्य भयं त्वया कथं निर्धारीत्यत्राह-
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः।
तवाभिधानाद्व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ॥२४॥

कथेति । कथाप्रसङ्गेन गोष्ठीवचनेन जनैः, तत्रत्यैरित्यर्थः॥ अन्यत्र कथाप्रसङ्गेन विषवैद्येन 'कथाप्रसङ्गो वार्तायां विषवैद्येऽपि वाच्यवत् इति विश्वः। एकवचनस्य तन्त्रत्वाज्जनविशेषणम् । उदाहृतादुच्चारितात्तवाभिमानान्नामधेयात्स्मारकारद्धेतोः 'हेतौ' इति पञ्चमी ।' आख्याह्व अभिधानं च नामधेयं च नाम च' इत्यमरः। अन्यत्र तवाभिधानात् । 'नामैकदेशग्रहणे नाममात्रग्रहणम्' इति न्यायात् तश्च वश्च तवौ तार्क्ष्यवासुकी तयोरभिधानं यस्मिन्पदे तस्मात् । यद्वा, कथाप्रसङ्ग इनाश्च ते जनाश्चेत्येकं पदम् । अनुस्मृताखण्डलसूनुविक्रमः स्मृतार्जुनपराक्रमः सन् दुःसहादतिदुःसहान्मन्त्रपदान्मन्त्रशब्दात्स्मारकाद्धेतोः आखण्डलसूनुरिन्द्रानुजः। उपेन्द्रो विष्णुरिति यावत् । 'सूनुः' पुत्रेऽनुजे रवौ' इति विश्वः। तस्य विः पक्षी । गरुड इत्यर्थः। तस्य क्रमः पादविक्षेपः। सोऽनुस्मृतो येन स तथोक्तः। स्मृतगरुडमहिमा । उरग इव, नताननः