सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पञ्चदशः सर्गः ३३१

पञ्चदशः सर्गः ३३१

मल्लि०--अयेति । अथाग्रे । बलानामित्यर्थः । हसता तद्भङ्गदर्शनात्समय-
मानेन साचिस्थिततेन तन्निवारणाय तिर्यग्व्यवस्थितेन । 'तिर्यगर्थे साचि तिरः'
इत्यमरः । स्थिरकीर्तिना । स्वयमभङ्ग्त्वादिति भावः । किंचिदीषद् बायस्तं
खिन्नं चेतो यस्य तेन स्वकीयगणभङ्गादीपरिखिन्नचित्तेन सेनान्या स्कन्देन ।
'पार्वतीन्दनः स्कन्दः सेनानीरग्निभूर्गुहः' इत्यमरः । ते गणाः प्रमथादयो जगदिरे
उक्ताः । ओष्ठ्यवर्णाभावान्निरोष्ठ्यमेतत् ॥ ७ ॥

हिन्दी—अनन्तर सेनाओंके सामने हँसते हुए उनको रोकनेके लिए तिरछे
होकर रहे हुए स्थिर कीर्तिवाले और कुछ खिन्न चित्तवाले होकर सेनापति
कार्तिकेय उन सैनिकोंको कहने लगे । यह निरोष्ठ्य नामक चित्रकाव्य है, इसमें
ओष्ठस्थानीय वर्ण नहीं हैं ॥ ७ ॥

अथैकविंशतिभिः श्लोकैः स्कन्दवाक्यमेवाह--

मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणेरिव किं यशः ॥ ८ ॥
( पादान्तादियमकम् )

मल्लि०--मा विहासिष्टेत्यादि । रन्तव्यं रमणं क्रीडा । बहुलग्रहणाद्भावे
तव्यप्रत्ययः । संयद्युद्धम् । 'समुदायः स्त्रियः संयत्समिदाजिरिमियुधः' इत्यमरः ।
समे रन्तव्यसंयती येषां ते समरन्तव्यसंयतः तुल्यक्रीडासंगरा इति तेषां संबोधनम् ।
यूयं समरं संग्राम मा विहासिष्ट न त्यजत । जहातेर्भाङि लुङ् । मध्यमबहुवचनम् ।
क्षुण्णाः पराजिता असुरगणा यैस्तैः । भवद्भिरिति शेषः । अगणैरिव गणेभ्योऽन्यै-
रिव किं किमर्थं यशः क्षतं नाशितम् । नैतद्युक्तं महाशूराणां भवादृशानामित्यर्थः ८।

हिन्दी-रमण और युद्धको समान समझनेवाले हे प्रमथो ! तुमलोग
संग्रामको मत छोड़ो । दैत्यगणोंको जीतनेवाले तुमलोग गणोंसे इतर ( भिन्न )के
समान होकर अपने यशको क्यों नष्ट कर रहे हो ? । यह 'पादान्तादियमक'
नामका चित्रकाव्य है ॥ ८ ॥

विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः ।
अमो वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ ९ ॥

मल्लि०--विवस्वदिति । विवस्वदंशुसंश्लेषणे सूर्यकिरणसंपर्केण द्विगुणी-
कृतानि उत्तेजितानि तेजांसि येषां ते तथोक्ता मोघं व्यर्थम् उद्गूर्णा उद्यताः ।

३३२ किरातार्जुनीयम्

'गुरी उद्यमने' इति धातोः कर्मणि क्तः। वो युष्माकम्। अमो महासयः सङ्गा हसन्तीवेत्युत्प्रेक्षा। किं पलायमानानां खड्गैरिति हासः ॥ ९ ॥

हिन्दी—सूर्यकी किरणोंके सम्पर्कसे द्विगुण तेजवाला व्यर्थ ही उठाया गया तुमलोगोंका यह विशाल खड्ग मानों उपहास कर रहा है ॥ ९ ॥

वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम्।
वाणैर्वाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १० ॥
[ पादादियमकम् ]

मल्लि०—वन इति। वनसदां वनेचराणाम्। अवने रक्षके, वने मार्गं मृगसंबन्धिनं मार्गं पन्थानम्। उपेयुषाम्। पलायमानामित्यर्थः। युष्माकमिति शेषः। बाणो ध्वनिरेषामस्तीति तैर्बाणैर्ध्वनियुक्तैः। 'वण संशब्देने' इति धातोरर्घम्। ततः 'अर्शआदिभ्योऽच्' इत्यच्प्रत्ययः। यमकत्वाद् बवयोरभेदः। उक्तं च—'रलयोर्डलयोस्तद्वज्जशययोर्बवयोरपि। सविन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम्।' इति। वाणैः शरैः समासक्तं समासङ्गितम् अशं दुःखं तत् केन शाम्यतीति शङ्के। केनोपायेन शाम्येदिति विचारयामीत्यर्थः ॥ १० ॥

हिन्दी—वनचरोंके रक्षक वनमें रास्ते रास्तेमें प्राप्त होनेवाले (भागते हुए) तुमलोगोंके ध्वनियुक्त बाणोंसे सम्बद्ध दुःख किस उपायसे शान्त होगा ? मैं ऐसी आशङ्का कर रहा हूँ। यह 'पादादियमक' नामक चित्रकाव्यका उदाहरण है। १०।

पतितोत्तुङ्गमाहात्म्यैः संहतायतकीर्तिभिः।
गुर्वी कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ ११ ॥

मल्लि०—पातितेति। पातितं भ्रंशितम् उत्तुङ्गमहात्म्यमुन्नतभावा यैस्तैः संहता आहृता आयता विस्तुताः कीर्तयो यैस्तैः। युष्माभिरिति शेषः। कां गुर्वीमापदं हन्तुम्। न कांचिदपीत्यर्थः। आवृत्तिर्युद्धाद्विनिवृत्तिः। सैव साहसं कृतम्। अतः पापादन्यत्र किंचित्फलमस्तीति भावः। तदुक्तं मनुना—'यस्तु भीत परावृत्तः संग्रामे हन्यते परैः। भर्तुर्यद्दुष्कृतं किचित्तत्सर्वं प्रतिपद्यते॥ यच्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम्। भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥' इति ॥ ११ ॥

हिन्दी—उन्नत महत्त्वको भ्रष्ट करनेवाले, विस्तृत कीतिका संहार करनेवाले तुमलोगोंने कौन-सी बड़ी आपत्तिको नाश करनेके लिए युद्धसे भागने का साहस कर लिया है ? ॥ ११ ॥

पञ्चदशः सर्गः ३३३

नासुरोऽयं, न वा नागो घरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १२ ॥

( गोमूत्रिक बन्ध )

मल्लि०— नेति । वि.च, अयमसुरो दैत्यो न । नागो नागराजो वा पन्नगश्च न । घर इव संस्था यस्य स घरसंस्थः पर्वताकारः । 'अहार्य्यघरपर्वताः' इत्यमरः । 'संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु' इति वैजयन्ती । राक्षसो न । किंतु अयं सुखयतीति सुखः । सुखसाध्य इत्यर्थः । नवाभोगोऽभिनवप्रयत्नः । महोत्साह इत्यर्थः । 'आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि' इति विश्वः । धरणिस्थो भूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि । कश्चिन्मानुष इत्यर्थः । 'पुरुषाः पूरुषा नरः । मनुष्या मानुषा मर्त्या मनुजा मानवा नरा' इत्यमरः । अतो न पलायनमुचितमिति भावः । गोमूत्रिकाबन्धः—'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ।' इति लक्षणात् । षोडशकोष्ठद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥ १२ ॥

हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) दैत्य नहीं है, न नाग है, न पर्वताकार राक्षस है, किन्तु यह सुखसाध्य और महान् उत्साहसे युक्त भूतलमें रहनेवाला रजोगुणी पुरुष है ॥ १२ ॥

मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ १३ ॥

मल्लि०— मन्दमिति । एष मुनिर्घृणया कृपया । इषुं लतां शाखामिव मन्दमस्यन् क्षिपन् वो युष्मान् पशूनिवागतावज्ञं यथा तथा जघनेषु प्रणुदति चोदयति । किमतः परं कष्टमस्तीति भावः ॥ १३ ॥

हिन्दी— ( हे प्रमथो ! ) यह ( तपस्वी ) कृपासे शाखाकी तरह बाणको छोड़ता हुआ तुमलोगोंको पशुओंकी तरह अनादरपूर्वक जघन स्थानोंमें प्रहार कर रहा है, ( इससे ज्यादा कष्ट क्या है ? ) यह 'गोमूत्रिका बन्ध' नामक चित्रकाव्यका उदाहरण है ॥ १३ ॥

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १४ ॥

( एकाक्षरः । )

३३४ | किरातार्जुनीयम्

मल्लि०—नेति। पदच्छेदस्तावत्—न ना ऊननुन्नः नुन्नोनः ना अना नानानना ननु। नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत्। अथ योजना—हे नानाननाः नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः। ऊनेन = निकृष्टेन नुन्नो विद्ध ऊननुन्नो यः स ना न = पुरुषो न। तथा नुन्न ऊनो येन स नुन्नोनो ना = पुरुषोऽना ननु अपुरुषः खलु। ऊनाद्भीतः पलायमानस्तु किं वक्तव्यमिति भावः। किञ्च, नुन्न इनः स्वामी यस्य स नुन्नेनः। स न भवतीति ननुन्नेनः। नञर्थस्य 'न' शब्दस्य सुप्सुपेति समासः। सनुन्नो विद्धोऽपि अनुन्नोऽविद्ध एव। यूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः। तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्तान् दुदतीति नुन्ननुन्ननुत्। अतिपीडितपीडको ना पुरुषोऽनेना निर्दोषो न भवतीति, किन्तु सदोष एवेति। 'नातं नातिपरिक्षतम्' इति निषेधादित्यर्थः। अयं तु नैतादृश इति। न पलायितव्यमिति भावः। अयमेकव्यञ्जनः। अन्त्यस्तकारस्तु न दोषावहः 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥ १४ ॥

हिन्दी—हे नानाऽऽननाः = हे नाना (अनेक) प्रकारके आननों (मुखों) वाले ! ऊननुन्नः = ऊन (निकृष्ट) से नुन्न (विद्ध) जो पुरुष है, वह ना (पुरुष) न = नहीं है। नुन्नोनः = नुन्न, (विद्ध) है ऊनः (निकृष्ट) पुरुष जिससे, वह ना = पुरुष, अना = पुरुष नहीं है और नुन्नेनः = नुन्नः (विद्ध) है इन (स्वामी) जिसका, वह नुन्नेनः = जो ऐसा नहीं है ननुन्नेनः, वह नुन्नः (विद्ध) होकर भी अनुन्नः (विद्ध) नहीं है, तुम अनुन्न (अविद्ध) स्वामीवाले होनेसे अनुन्न विद्ध नहीं हो। नुन्ननुन्ननुत् = नुन्ननुन्नान् (अत्यन्त विद्ध जनोंको) नुत्, पीड़ित करनेवाला, ना = पुरुष, अनेनाः = निर्दोष, न = नहीं होता है अर्थात् दोषी होता है (यह तपस्वी ऐसा नहीं है, इस कारण तुमलोगोंको भागना उचित नहीं है)। यह पद्य 'एकाक्षर' नामक चित्रकाव्यका उदाहरण है ॥ १४ ॥

वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान्।
प्रकृत्या ह्यमणिः श्रेयानालङ्कारश्च्युतोपलः ॥ १५ ॥

मल्लि०—वरमिति। कृताः पूर्वमुत्पादिताः पश्चाद् ध्वस्ता नष्टास्ते कृतध्वस्ताः 'पूर्वकाले'त्यादिना समासः। कृतध्वस्ता गुणा यस्य तस्मात् पुंसः। अत्यन्तमतिशयेनागुणो निर्गुणः पुमान् वरं = मनाक्प्रियः। किञ्चित्प्रिय इत्यर्थः। 'वरं क्लीबे मनाक्प्रिये' इत्यमरः। तथा हि—प्रकृत्या स्वभावेन। अमणिर्मणिरहितोऽलङ्कारो...

पञ्चदशः सर्गः [३३५]

श्रेयान्। च्युतोपलो मणिरत्नो न श्रेयान्। ‘उपलः प्रस्तरे रत्ने’ इति विश्वः। पलायितुः समरादसमर एव वरमिति भावः। अत्र समानविद्यनारोपयोः प्रतिबिम्ब-करणाद् दृष्टान्तालङ्कारः॥ १५॥

हिन्दी—पहले गुणोंको उत्पन्न करनेवाला पीछे उनको नष्ट करनेवाले पुरुषसे निर्गुण पुरुष कुछ अच्छा है। जैसे कि स्वभावसे मणिरहित अलङ्कार विशेषतः अच्छा होता है परन्तु भ्रष्ट रत्नवाला अलंकार अच्छा नहीं होता है अर्थात् युद्धसे भागनेवालेको युद्धमें न जाना ही अच्छा होता है ॥ १५ ॥


स्यन्दना नो चतुरगाः सुरेभा वाऽविपत्तयः।
स्यन्दना नो च तुरगाः सुरेभा वा विपत्तयः॥ १६॥
(समुद्गकः।)

मल्लि०—स्यन्दना इति स्यन्दन्ते गच्छन्तीति स्यन्दना जवनाः। स्यन्दना रथा नो सन्ति। नन्दगामिनस्त्वल्पम् ... चतुरं गच्छन्तीति चतुरगाः। तुरगाश्च अश्वा नो सन्ति। सुरेभाः शोभनबृंहिताः। सुरेभा वा सुरगजाश्च नो सन्ति। अविपत्तयो विपत्तिरहिताः विपत्तयो वा विगतायः पदातयो नो सन्ति। अतो न भेतव्यमिति भावः। अत्र पूर्वोत्तरार्धगतानां विशेषणानां विशेष्याणां चोद्देश्योद्देश्यीभूतानां यथासंख्यसंबन्धानुक्रमाद्यथासंख्यालंकारो यमकेन संसृष्टः॥ १६॥

हिन्दी—इस पुरुषके, स्यन्दनाः = वेगवाले, स्यन्दनाः = रथ, नो = नहीं हैं। अथवा चतुरगाः = अच्छी तरह चलनेवाले, तुरगा = घोड़े, नहीं = नहीं हैं। वा = अथवा, सुरेभा = सुन्दर आवाजवाले सुरेभाः = सुरों (देवताओं) के इभाः (हाथी) भी, नो = नहीं हैं। वा = अथवा अविपत्तयः = विपत्तिसे रहित, वि-पत्तयः = विशिष्ट, पत्तियां = पैदल सेनाएँ, भी, नो = नहीं है। (इस कारणसे तुमलोगोंको डरना उचित नहीं है)। यह 'समुद्गक' नामक चित्रकाव्यका उदाहरण है। इसमें यमक और यथासंख्य अलंकारकी संसृष्टि है ॥ १६ ॥


भवद्भिरधुनाऽरातिपरिहापितपौरुषैः।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः॥ १७॥

मल्लि०—भवद्भिरिति। अधुनाऽरातिभिः परिहापितानि त्याजितानि पौरुषाणि यैस्तैर्भवद्भिः। अर्कनिष्पीतैरर्केण संशोषितैर्ह्रदैरिव। दुरुत्तरो दुस्तरः पङ्क इव पङ्को दुष्कीर्तिरूपः प्राप्तः ॥ १७ ॥

३३६ | किरातार्जुनीयम्

हिन्दी—इस समय शत्रुसे पुरुषार्थका त्याग कराये गये तुमलोगोंने दुःखसे सुखाये गये तालाब जैसे दुस्तर पङ्क (कीचड़) को प्राप्त करता है वैसे ही दुःखसे हटाये जानेवाला पङ्क (कलङ्क) को प्राप्त कर लिया है ॥ १७ ॥

वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ १८ ॥
(प्रतिलोमानुलोमपादः)

मल्लि०—वेत्रेति । वेत्राणि = वंशाः फलिन्यो वा । शाका बर्बराश्च कुजा वृक्षा यस्मिंस्तस्मिन् वेत्रशाककुजे । शत्रुष्णा दुष्प्रवेश इत्यर्थः । 'वेत्रं वंशफलिनीद्रोः' इति विश्वः । 'शाकः बर्बरवर्धकाः' इत्यमरः । लेशेन स्तोकेनाव्यजते कम्पत इति लेशैजः । स न भवतीति अलेशैजस्तस्मिन् । अत्यन्ताकम्पन इत्यर्थः 'एज् कम्पने' पचाद्यच् । न कोकते नादत्त इत्यकुकः ग्रहणासमर्थः शात्रवो यस्मिंस्तस्मिन् अकुकशात्रवे । 'कुक आदाने' । पचाद्यच् । शैले पर्वते । केषां भावः किता कुत्सितता तयोपलक्षिताः सन्तः । 'कुत्साप्रश्नवितर्केषु क्षेपे किं शब्द इष्यते' । इति शाश्वतः । विदिशो जेतुं यात गच्छत किम् । यातेः संप्रश्ने लोट् । मध्यमपुरुषबहुवचनम् । दिवि स्वर्गेऽपि । तुञ्जेश इति तेषां संबोधनम् । तुञ्जन्ति इति तुञ्जा हिंसका दैत्याः। 'तुजि हिंसायाम्' पचाद्यच् । तेभ्यो दैत्येभ्य ईशते इति तुञ्जेशः । ईशेः क्विप् । तेभ्योऽपि शक्ता इत्यर्थः । स्वर्गेऽप्यसुरविजयिनां युष्माकमत्र क्षुद्रस्थले क्षुद्रशत्रोः पलायनमनुचितमिति भावः ॥ १८ ॥

हिन्दी—तुमलोग बांस, शाक (बर्बर) और वृक्षोंसे युक्त अर्थात् शत्रुसे दुष्प्रवेश्य, कम्पित न होनेवाले, जहाँ ग्रहण करनेमें शत्रु असमर्थ हैं, ऐसे पर्वतमें निन्दितरूपसे उपलक्षित होते हुए अनेक दिशाओंको जीतनेके लिए जाते हो क्या ? तुमलोग स्वर्गमें भी हिंसकों (दैत्यों) से समर्थ हो । स्वर्गमें भी दैत्योंको जीतनेवाले तुमलोगोंको ऐसे क्षुद्र स्थलमें क्षुद्र शत्रुसे डरकर भागना उचित नहीं है यह भाव है । यह 'प्रतिलोमानुलोमपाद' नामक चित्रकाव्यका उदाहरण है ॥ १८ ॥

अयेशे तिष्ठति पलायनमेतद्धो न युक्तमित्याह—

अयं वः क्लैब्यमापन्नान् दृष्टपुष्टानरातिना ।
इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ १९ ॥

मल्लि०—अयमिति । अयमीशः स्वामी शिवः क्लैब्यं निष्पौरुषत्वम् । आप-

पञ्चदशः सर्गः ३३७

म्नान् प्राप्तांस्तथा अरातिना दृष्टपृष्ठान् । पलायमानानित्यर्थः । वो युष्मान् व्युता-
चारान् स्खलितव्रतान् दारान् कलत्राणीव । 'अथ पुंभूम्नि दाराः' इत्यमरः ।
निगोपितुं गोप्तुम् । ऊदित्वानिङ्‌विकल्पः । दारदोषं भर्तेव स्वमहिम्ना युष्मद्दोषं
संवर्तितुम् । इच्छति । अतः कुतो युष्माकमनर्थ इत्यर्थः ॥ १९ ॥

हिन्दी—ये स्वामी शिवजो नपुंसकत्वको प्राप्त ( पुरुषार्थहीन ) और शत्रुने
जिनकी पीठ देख ली है ( भागते हुए ) तुमलोगोंको पत्नीकी तरह रक्षा करना
चाहते हैं ( तुम्हारे दोषोंको छिपाना चाहते हैं ) ॥ १९ ॥

ननु हो मथना राधो घोरा नाथमहो नु न ।
तयदातवदा भीमा माभीदा बत दायत ॥ २० ॥

( प्रतिलोमानुलोमार्धः )

मल्लि०—नन्विति । 'ननु' इत्यामन्त्रणे । 'हो' इत्याह्वाने । 'हे है भोस्तो
समस्तो च हृतसंबोधनार्थयोः । हो हो चैवंविधो ज्ञेयो संबुद्ध्याह्वानयोरपि' । इति
विश्वः । मथन्तीति मथनाः । 'मन्थ विलोडने' कर्तरि ल्युट् । राधन्ति = समर्था
भवन्तीति राधः । 'राधू सामर्थ्ये, क्विप् । घोरा क्रूराः । शत्रूणामिति भावः ।
नाथ महयन्ति पूजयन्तीति नाथमहः । दृशिग्रहणात्कर्मण्यपपदे क्विप् । तयन्ति=रक्ष-
न्तीति तया रक्षकाः । पचाद्यच् । दायन्तीति दाताः = शुद्धाः । 'दैप् शोधने' कर्तरि
क्तः । वदन्तीति वदा वक्तारः । पचाद्यच् । तेषां द्वन्द्वः तयदातवदाः । भीमा
भयंकराः । माभीः । नञर्थ'मा'शब्दस्य सुप्सुपेति समासः । तां ददतीति माभीदा
अभयप्रदाः एवंविधा यूयमिति शेषः । 'बत' इति खेदे । बवयोरभेदः । न दायत नु
न शुद्धाः किम् । 'नु' पृच्छायाम् । किंतु शुद्धा एव । न काकुरत्रानुसंधेया । 'दैप्
शोधने' लोट्मध्यमपुरुषबहुवचनम् ॥ २० ॥

हिन्दी—हे सैनिको ! शत्रुओंको मथन करनेवाले, समर्थ, शत्रुओंके लिए
क्रूर, अपने स्वामीकी पूजा करनेवाले, रक्षा करनेवाले, शुद्ध, वक्ता, भयङ्कर और
अभयदान करनेवाले तुमलोग क्या शुद्ध नहीं हो ? ( शुद्ध ही हो ) । यह 'प्रति-
लोमानुलोमार्ध' नामक चित्रकाव्यका उदाहरण है ॥ २० ॥

किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः ।
ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ २१ ॥

मल्लि०—किमिति । अपास्तोऽवधीरतो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो

१२ कि०

३३८ | किराताजुर्नीयम्

यैस्तैः । अतिदेवमानुषैरित्यर्थः । मनुष्याणां भावो मानुष्यकम् । 'योद्धादुपसंख्यानाद्बुञ्' । ज्वलितान्यदूर्तः ज्वलिता उज्ज्वलिताः । प्रकाशिता इति यावत्। अन्यगुणा अमन्दगुणा यैस्तैः । 'अन्यो विभिन्नासदृशो' इति वैजयन्ती । ईदृशैर्भवद्भिरिति शेषः । तेजसि प्रतापे स्थिता प्रतापैकशरणा धूर्वी मानिता शौर्यादिना विना किमिति त्यक्ता । किमिति निर्लज्जैः पलायन इति भावः ॥ २१ ॥

हिन्दी - देवत्व और मनुष्यत्वका अतिक्रमण करनेवाले, असाधारण गुणोंको प्रकाशित करनेवाले तुमलोगोंने प्रतापमें स्थित शूरत्वके अभिमानको क्यों छोड़ दिया ? अर्थात् क्यों निर्लज्ज होकर पलायन कर रहे हो ? ॥ २१ ॥

निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥ २२ ॥

मल्लि०—निशितेति । हे अमरणा मरणरहिताः ! निशितासिरितोऽन्वितोऽस्य खड्गरतः । अभीको निर्भीकः । रुचा तेजसोपलक्षितः सुष्ठु आभासत इति स्वाभासो रमणीयः पचाद्यच् । उतात्यर्थमतिशयेन भरवान् । रणभरसहिष्णुरित्यर्थः । 'उतात्यर्थविकल्पयोः' इति विश्वः । ईदृशो नोऽस्माकं विरोधी शत्रुः सारतो बलतो न न्येजते न कम्पते । प्रचलतीत्यर्थः । 'एजृ कम्पने' । लट् । अतो भवद्भिरपि स्थातव्यमेव । न चलितव्यमिति भावः ॥ २२ ॥

हिन्दी--हे अमर प्रमथगण ! तीक्ष्ण खड्गको लिया हुआ, निर्भीक, तेजसे उपलक्षित, रमणीय, युद्धभारका सहिष्णु ऐसा हमलोगोंका विरोधी (शत्रु) बलके कारण कम्पित नहीं हो रहा है । (इस कारणसे तुमलोगोंको भी अचल होकर रहना चाहिए) ॥ २२ ॥

नन्वयं न चलतीति कथं ज्ञायते ? तत्राह प्रतिलोमानुलोमेन श्लोकद्वयम्—

तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ २३ ॥

मल्लि०—तन्विति । तनुमावृणोत्याच्छादयतीति तनुवारं=वर्म । कर्मण्यण् । जेतुं रभसो भासन इति तनुवारभसः । 'भस दीप्तौ' । पचाद्यच् । भास्वान्=तेजस्वी, चारुणा भास्वताऽविनतेनोन्नतेन । उरसा वक्षःस्थलेनोपलक्षितः । एवंविधोऽर्जुनोऽधीरो धैर्यसहितो रसितेन शब्दितेनैवाश्नाति ग्रसतीति रसिताशी तस्मिन् । रखेणैव विश्वप्राणहारिणीत्यर्थः । आभीक्ष्ण्ये णिनिः । जन्ये युद्धे । 'युद्धमायोधनं जन्यम्'