सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५७

सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५७

सरूपतां वीतौजस्त्वादिसाम्यं भजन्त इत्युपमा। सा च समानदुःखा इवेत्युत्प्रेक्षा वीतौजस्त्वादिसम्भावितयाऽनुप्राणितेत्यनुसन्धेयम् ॥ ४९ ॥

अन्वयः— हे पार्थ !, वितौजसः, सन्निधिमात्रशेषाः भवत्कृतां, भूतिम् अपेक्षमाणाः त्वदीयाः, गुणाः, नः, समानदुःखाः, इव, सरूपतां, भजन्ते ॥ ४९ ॥

व्याख्या—हे पार्थ ! = हे अर्जुन !, वीतौजसः = गततेजसः, प्रभावहीना इत्यर्थः । सन्निधिमात्रशेषाः = समीपवासमात्रावशेषाः, सत्तामात्रावशिष्टा इत्यर्थः । भवत्कृताम् = पाण्डवविहितां, त्वदाचरितामित्यर्थः । भूतिं = विभूतिम्, अभ्युदयम्, अपेक्षमाणाः = अपेक्षां कुर्वाणाः । त्वदीयाः = भवदीयाः, तावका इत्यर्थः गुणाः= शौर्यादयः, नः = अस्माकं, समानदुःखाः = तुल्यखेदवन्त इव, सरूपताम् = एकरूपतां, सादृश्यमित्यर्थः भजन्ते = आश्रयन्ति ॥ ४९ ॥

समासः—वीतमोजो येषां ते वीतौजसः । सन्निधिरेव सन्निधिमात्रं तद् शेषो येषां ते सन्निधिमात्रशेषाः । भवता कृता भवत्कृता तां भवत्कृताम् । समानं दुःखं येषां ते समानदुःखाः । समानं रूपं इति सरूपं, तस्य भावः सरूपता, तां सरूपताम् ॥४९॥

व्याकरणम्—भजन्ते = भज् + लट् ॥ ४९ ॥

वाच्यान्तरम्—वीतौजोभिः सन्निधिमात्रशेषैर्भवत्कृतां भूतिमपेक्षमाणैस्त्वदीयैर्गुणैर्न समानदुःखैरिव सरूपता भज्यते ॥ ४९ ॥

कोषः—'वर्जितं विगतं वीतम्' इति कोषः । 'ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये' इत्यमरः । 'सन्निधिः सन्निकरणम्' इत्यमरः 'विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा' इत्यमरः ॥ ४९ ॥

तात्पर्यार्थः—यथा वय कान्तिहीनाः समीपमात्रवर्तिनः, भवता करिष्यमाणमभ्युदयं प्रतीक्षन्तः रमः । तथैवास्माकं गुणा अपि विगतप्रभावाः, सत्तामात्रावशेषाः, भवत्कृतां भूतिमपेक्षन्ते । अतो भवताऽतिसत्वरं समभ्युदयार्थं प्रयत्नः कर्त्तव्य इति ॥ ४९ ॥

भाषार्थ—नष्ट तेज वाले और सिर्फ पास में ही रहने वाले आप के सब गुण, आपसे किये अभ्युदय ( तरक्की ) अपेक्षा करते हुए, मेरे समान दुःख वाले की तरह मेरे स्वरूप की बराबरी करते हैं ॥ ४९ ॥

तथाऽपि ममैव कोऽयं भार इत्यत आह—

आक्षिप्यमाणं रिपुभिः प्रमादान्नागैरिवानूनसटं मृगेन्द्रम् ।
त्वां धूर्द्धुरियं योग्यतयाऽधिरूढा दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ॥५०॥

आक्षिप्येति ॥ प्रमादात्=प्रज्ञाहीनत्वात् । न तु दौर्बल्यादिति भावः । रिपुभिराक्षिप्यमाणमधिप्क्षिप्यमाणमत एव प्रमादात् । नागैर्गजैः । 'अहेर्माहिगजा नागाः'

५८ किरातार्जुनीयम् [ तृतीयः

इति वैजयन्ती । आलूनसटमाच्छिन्नकेसरम् । 'सटा जटाकेसरयोः' इत्यमरः । मृगेन्द्रं सिंहमिव स्थितम् । त्वामियं धूः कार्यभारः । तिग्मरश्मिं सूर्यं दीप्त्या दिनश्रीरिव योग्यतया निर्वाहक तयाऽधिरूढाऽऽरुढवती । कर्तरि क्तः । त्वदधीनेत्यर्थः ॥ ५० ॥

अन्वयः—प्रमादाद्, रिपुभिः, आक्षिप्यमाणं, नागैः, आलूनसटं, मृगेन्द्रम्, इव त्वाम्, इयं, धूः, तिग्मरश्मिं, दीप्त्या, दिनश्रीः, इव, योग्यतया, अधिरूढा ॥ ५० ॥

व्याख्या—प्रमादाद् = अनवधानतया, बुद्धिविभ्रमतयेत्यर्थः । न तु अयोग्यतये-
त्यर्थः रिपुभिः = वैरिभिः, आक्षिप्यमाणम् = अधिक्षिष्यमाणम्, अपमानितप्राय-
मिति यावत् । प्रमादाद् = भ्रमाद्, नागैः = हस्तिभिः, आलूनसटम् = परिलुञ्चित-
केसरम्, मृगेन्द्रं = सिंहम्, इव त्वाम् = भवन्तम्, अर्जुनमित्यर्थः । इयम्=एषा ।
धूः = भारः । ईदृशशत्रुकृततापनिवृत्त्ये तपःकरणरूपः कार्यभारः इत्यर्थः । तिग्म-
रश्मिं = सूर्यं, दीप्त्या = कान्त्या, दिनश्रीः = वासरशोभा, इव, अर्थात्, दिनशोभा
यथा दीप्तिमन्तं सूर्यमेवाश्रयति, तथैवायं कार्यभारः, योग्यतमं त्वां प्रत्येति, यथा
ज्योतीषां मध्ये सूर्यस्तथैव भ्रातॄणां मध्ये भवानिति निष्कर्षार्थः । योग्यतया =
अधिकगुणवतया, अधिरूढा = आरूढवती । न खल्वन्योऽस्माकं दुःखोच्छेदकस्तेन
सत्वरं विपदामुन्मूलनायायासः कर्त्तव्यस्त्वयैवेति ॥ ५० ॥

समासः—आ समन्ताद् लूना सटा यस्य स आलूनसटस्तमालूनसटम् । मृगे-
ष्विन्द्रो मृगेन्द्रस्तं मृगेन्द्रम् । दिनस्य श्रीर्दिनश्रीः । तिग्मा रश्मयो यस्य स
तिग्मरश्मिस्तं तिग्मरश्मिम् ॥ ५० ॥

व्याकरणम्—आक्षिप्यमाणम् = आ + क्षिप् + यक् + कर्मणि लट् + शानच् ।
अधिरूढा = अधि + रुह् + क्तः + टाप् ॥ ५० ॥

वाच्यान्तरम्—प्रमादात् रिपुभिराक्षिप्यमाणैः नागैरालूनसटो मृगेन्द्र इव
त्वम्, अनया धुरा, तिग्मरश्मिर्दिनश्रियेवाधिरूढः ॥ ५० ॥

कोषः—'रिपौ वैरि-सपत्नारि-द्विषद्वेषण-दुर्हृदः' इत्यमरः । 'प्रमादोऽनव-
धानता' इत्यमरः । 'मतङ्कजो गजो नागः कुञ्जरो वारणः करी' इत्यमरः । 'छिन्नं छात-
लूनं कृत्तं दातं दितं छितं वृक्णम्' इत्यमरः । सटा जटाकेसरयोः' इति विश्वः ।
'सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः' इत्यमरः । 'स्युः प्रभारुचिस्त्विग्भा-
भाश्छविद्युतिदीप्तयः' इत्यमरः ॥ ५० ॥

सारार्थः—यथाऽसावधानतया सिंहस्य केसराणि नागैश्छिन्नान्याश्चर्यकराणि,
तथैव भवता तेजांसि शत्रुभिः क्षीनानि । अस्यां दशायां यथा तेजोवन्तं सूर्यमेव
दिनशोभाऽश्रयति, तथाऽस्माकं दुःखनाशोपायो भवतां मध्ये भवन्तमेवाश्रयितु-
मिच्छतीति ॥ ५० ॥