किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५१
हृदयम् = मनः, नवीकरिष्यति-पुनर्नवीनीकरिष्यति । यत्पुराऽतीतं क्लेशोष्मशुष्कं मनः, त्वद्विरहवेदनया पुनः, सव्रणमिव भविष्यतीति भावः ॥ ४४ ॥
समासः—त्वां विना, त्वद्विना ॥ ४४ ॥
व्याकरणम्—प्रयुक्त=प्र + युज् + क्त । स्मर्तुम्=स्मृ + तुमुन् । अधिकर्तुम्=अधि + कृ + तुमुन् । नवीकरिष्यति = नवी + कृ + लृट् । उपशुष्यद् = उप + शुष् + षदृ + शतृ ॥ ४४ ॥
वाच्यान्तरम् —अस्मासु परैः प्रसभ प्रयुक्तेन येन तेन निकारेण स्मर्तुं शक्येन न भूयते । अधिकर्तुं शक्येन किमुत । तद्विना, आर्ह्रेण तेन निकारेण मे उपशुष्यद् हृदयं नवीकरिष्यते ॥ ४४ ॥
कोषः—‘प्रसभ तु हठार्थकम्' इत्यमरः । ‘चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । निकारो विप्रकारः स्यादकारः क्षतिः स्त्रियाम्' इति कोषः । पृथग्विनावऽन्तरेणर्ते,—इत्यमरः ॥ ४४ ॥
सारार्थः—शत्रुकृताऽपकारप्रहारघातजनितो व्रणश्चिरजातत्वाच्छुष्क इव जातः, किन्तु त्वां विना पुनः पट्टिकाविच्छेदतया पुनर्लग्नाघातेन यथा स • नवो भूत्वा तंतः पूयं निःसारयति, तथैव निरश्रु मे नयनं त्वद्विरहेण सजलं जायत ॥ ४४ ॥
भाषार्थः—जो कि हम लोगों का जबरदस्ती अपकार किया गया, वह बाद भी करने योग्य नहीं है, अनुभव करने की बात ही क्या ? पर अब वह आप के न रहने पर, फिर नया ( गीला ) होकर, सूखे हुए भी मेरे दिल को दुःख से पिघलावेगा । अर्थात् उस अपमान से जो मेरे दिल में घाव हुआ था, सो धीरे-धीरे संसार को देखते-सुनते सूख गया था, पर अब आपकोविरह-वेदना की चोट से फिर ताजा बन कर आँसू निकालेगा ॥ ४४ ॥
पुनः प्रकारान्तरेण मन्युद्दीपयति ‘प्राप्त’ इत्यादिभिश्चिभिः तत्र वक्ष्यमाणप्रत्यभिज्ञानहेतुभिर्धनञ्जयं विशिनष्टि—
प्राप्तेऽभिमानव्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् ।
द्विषत्प्रतापाऽन्तरितो रुतेजाः शरद्धनाकीर्ण इवादिरहः ॥ ४५ ॥
प्राप्त इति ॥ अभिमानस्य व्यसनाद् भंशाद् । 'व्यसनं विपदि भ्रंशे दोषे कामजकोपजे' इत्यमरः । दन्तव्यसनाद्दन्तभङ्गाद्दन्तीवासह्यं विकारं वैरूप्यं प्राप्तः । अतो न प्रत्यभिज्ञायत इति भावः । एवमुत्तरत्राप्यनुसन्धेयम् । पुनश्च । द्विषत्प्रतापेन शत्रुतेजसाऽन्तरितं तिरस्कृतमुक्तस्तेजः प्रतापो यस्य स यथोक्तः । अत एव शरद्घनाकीर्णः शरन्मेघावृतोऽङ्कः आदिः प्रत्यूप इव स्थितः । तद्वदेवाप्रत्यभिज्ञायमान इत्यर्थः । मध्याह्नस्तु मेघावरणेऽपि कथमिव्यात्वभिज्ञायत पूर्वस्यावस्थेनोक्तमादिरिति ॥
| ५२ | किरातार्जुनीयम् | [ तृतीयः |
|---|
अन्वयः—अभिमानव्यसनात्, दन्तव्यसनाद्, दन्ती, इव, असह्यं, विकारं, प्राप्तः, द्विषत्प्रतापान्तरितोरुतेजाः, ( त्वं ) शरद्घनाकीर्णः, अह्रः, आदिः, इव ( जातः ) ॥ ४५ ॥
व्याख्या—अभिमानव्यसनात् = स्वकुलोचितसम्माननाशाद्, वा, वंशगौरव-भ्रंशाद् ( हेतोः ), ( त्वं ) दन्तव्यसनाद् = दशनोत्पाटनाद्, दन्ती = गजः, इव, असह्यं = सोढुमशक्यं, विकारं = चित्तक्षोभं, दुःखमिति यावत् । प्राप्तः = आप्तः । द्विषत्प्रतापान्तरितोरुतेजाः = अरिविक्रमपिहितमहोँजाः त्वमर्जुनः, शरद्घनाकीर्णः-शरदृतुमेघाच्छादितः, अह्रः = दिनस्य, आदिः = आरम्भः अर्थात् मेघाच्छादितोदय-कालिकसूर्य इव जातः । त्वम् अन्यमाकारमभिपन्न इव जात इत्यग्रिमश्लोका-दानेतव्यम् ॥ ४५ ॥
समासः—अभिमानस्य व्यसनम्, अभिमानव्यसनं, तस्मादभिमानव्यसनात् । दन्तयोर्व्यसनं दन्तव्यसनं, तस्माद् दन्तव्यसनाद्, द्विषतः प्रतापो द्विषत्प्रताप-स्तेनान्तरितम् उरु तेजो यस्यासौ द्विषत्प्रतापान्तरितोरुतेजाः । शरदि घन शरद्धनः, शरद्धनेनाकीर्णः शरद्धनाकीर्णः ॥ ४५ ॥
व्याकरणम्—प्राप्तः = प्र + आप् + क्तः ॥ ४५ ॥
वाच्यान्तरम्—दन्तव्यसनाद् दन्तिनेव, अभिमानव्यसनादसह्यं विकारं प्राप्तेन द्विषत्प्रतापान्तरितोरुतेजसा शरद्धनाकीर्णेनाह्न आदिनेव ‘त्वया भूयते’ ॥ ४५ ॥
कोषः—‘अभिमानं स्वहङ्कारे स्वकुलस्य च गौरवे’-इति कोषः । ‘व्यसनं विपदि भ्रंशे दोषे कामजकोपजे’-इत्यमरः । ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विप, इत्यमरः । ‘प्रकृतेरन्याथत्वे तु विकारः परिणामकः’ इत्यमरः । ‘घनजीमूत-मुदिरजलमुग्धूमयोनय’ इत्यमरः । ‘घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ’ इत्यमरः ॥ ४५ ॥
सारार्थः—यथा हस्तिनो दन्तनाशाद्वैरूप्यं भवति, तथा तवापि कुलोचित-गौरवभ्रंशादनिर्वचनीयं दुःखजालमुपस्थितम् । एवं च मेघाच्छादितः प्रभात-भानुर्यथा तथैवाधुना वैरिपराक्रमाच्छादितभवत्परमप्रतापभानुर्न राजत इत्यर्थः ॥
भाषार्थः—जैसे दाँत के नष्ट हो जाने से हाथी, वैसे अपने सब गौरव के नाश होने से आप भी सहन योग्य नहीं हैं, ऐसे भिन्न रूप में बन गये हैं। और जैसे आश्विन-कार्तिक के बादलों से सुबह के सूर्य ढके रहने पर तेज़हीन जान पड़ते हैं वैसे शत्रु के प्रताप से ढके हुये विशेष तेज वाले आप भी शोभा नहीं पाते ॥ ४५ ॥
सपीडमम्वैरिव निष्पिष्यत्वाद्भात्यर्थमखैरवभासमानः ।
यशःक्षयाद् क्षीणजलार्णवामस्त्यमन्यमाकारमिवाभिपन्नः ॥ ४६ ॥