किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १०३
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १०३
**समासः—**मतेर्भेदो मतिभेदः मतिभेदस्तम इवेति मतिभेदतमः, तेन मतिभेद-
तमसा तिरोहितम्, इति मतिभेदतमस्तिरोहितम्, तस्मिन् मतिभेदतमस्तिरोहिते ।
कृत्यस्य विधिः कृत्यविधिस्तस्मिन् कृत्यविधौ । विवेकोऽस्त्येषामिति विवेकिनस्तेषां
विवेकिनाम् ॥ ३३ ॥
**व्याकरणम्—**कुरुते = कृ + लट् + त ॥ ३३ ॥
**भाषान्तरम्—**मतिभेदतमस्तिरोहिते विवेकिनां कृत्यविधौ सुकृतेन परिशुद्धेन
वाग्मयेन दीपेनेवार्थदर्शनं क्रियते ॥ ३३ ॥
कोषः—'मतिभेदो भ्रमो भ्रान्तिर्निश्चय इतीष्यते' इति कोषान्तरम् । 'ध्वान्तं
तमिस्रं तिमिरं तमः' इत्यमरः । 'कलिलं गहनं समे' इत्यमरः । 'दीपकः प्रदीप्त
आख्यातः' इति कोषः ॥ ३३ ॥
**सारार्थः—**मन्दबुद्धीनां सन्देहरूपान्धकारयुक्ते दुर्ज्ञेये नीतिशास्त्रविषयेऽपि सुप्रसिद्धो-
ऽभियुक्तं नीतिशास्त्रं तदाचरणस्याशयं प्रकटयति । तथैव अन्धकारवति दुर्ज्ञेये
गृहे प्रकाशकरस्य दीपस्य साहाय्येनावलोकनशीलस्यापि पदार्थदर्शनं सञ्जा-
तञ्चैव ॥ ३३ ॥
**भाषार्थः—**जैसे अन्धकारवाले घर में अच्छी तरह से तैल-बत्तीवाला दीप
पदार्थ को दिखाता है, वैसे ही सन्देहरूप अन्धकारयुक्त एवं दुर्ज्ञेय कठिन समझने
के योग्य नीतियों के कार्य-पक्ष में अच्छी तरह से अभ्यास किया हुआ नीतिशास्त्र
दीपक के समान अभिप्राय समझाता है ॥ ३३ ॥
एवं विदुरथ कुर्वतो दैवादयथाप्तिमोऽपि न कश्चिदपराध इत्याह—
स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ ३४ ॥
स्पृहणीयेति । स्पृहणीयगुणैर्निरवद्याभ्युदयैर्महात्मभिः । सभ्यैश्चरितेऽभ्युदितैः
वर्त्मन्याचारे मनो यच्छतां नियमयतां सम्यगेव व्यवहरतामित्यर्थः । विधिहेतु-
र्दैवनििमत्तः । 'विधिर्विधाने दैवे च' इत्यमरः । अत एवागसामपराधानामहेतुरवि-
निपातो दैविकावद्योऽपि । 'विनिपातोऽवपाते स्याद् दैवोत्थितव्यसनेऽपि च' इति
विश्वः । समुन्नतेरतिवृद्धेः समस्तुल्यः । दैविकेषु पुरुषस्यापुंस्त्वादप्रमादादिति भावः ।
तथाह कामन्दकः—'यस्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । पुरुषस्तत्र नाभ्यर्च्यो
दैवान्तरितपौरुषः ॥' इति ॥ ३४ ॥
**अन्वयः—**स्पृहणीयगुणैः, महात्मभिः, चरिते, वर्त्मनि, मनः, यच्छताम्, विधि-
हेतुः, आगसाम् अहेतुः, विनिपातः, समुन्नतेः, समः (भवति) ॥ ३४ ॥
**सुधा—**स्पृहणीयगुणैः = अनुकरणीयगुणैः सर्वैषां प्रशंसनीयकल्याणैरिति यावत् ।
महात्मभिः = महानुभावैः, महद्भिरित्यर्थः । चरिते = अनुष्ठिते, प्रचारिते इति
यावत् । वर्त्मनि = मार्गे, मनः = चेतः, यच्छताम् = नियमयताम्, यथावद्विदधताम् ।
१०४ | किरातार्जुनीयम् । | [ द्वितीयः
विधिहेतुः ॥ दैवनेमित्तको दैविक इत्यर्थः । अत एव, आगसाम् = अपराधानाम्, निजकृतप्रमादानामित्यर्थः । अहेतुः=अनिमित्तकः, आकस्मिक इत्यर्थः । विनिपातः= भ्रंशःस्खलनम्, अर्थाद्विहितकर्मण्यसाफल्यलाभ इत्यर्थः । अपि समुन्नतेः = अभ्युदयस्य, समः = समानः, भवति । 'महाजनो येन गतः स पन्था' इति नीत्या महद्भाचरिताचरणेन प्रचलता । जनानामवनतिरप्युन्नतेः सदृश्येवेति भावः ॥ ३४ ॥
समासः— स्पृहणीया गुणा येषां ते स्पृहणीयगुणास्तैः स्पृहणीयगुणैः । महानात्मा येषां ते महात्मानस्तैर्महात्मभिः । विधिरेव हेतुर्यस्य स विधिहेतुः ॥ ३४ ॥
व्याकरणम्— चरिते=चर + क्तः । यच्छताम् = दाण् (यच्छ) + शतृप्रत्ययः ॥३४॥
वाक्यान्तरम्— स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि मनो यच्छतां जनानाम् विधिहेतुना, आगसामहेतुना, विनिपातेनापि, समुन्नतेः समेन भूयते ॥ ३४ ॥
कोषः— 'अयनं वर्त्म मार्गाऽध्वपन्थानः पदवी सृतिः' इत्यमरः । 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । विधिविधाने दैवे च' इत्यमरः । 'विनिपातोऽवपाते स्याद् दैवादिव्यसनेऽपि च' इति विश्वः ॥ ३४ ॥
भावार्थः— यत्कर्म, प्रशस्त्याचरणैर्महानुभावैरनुष्ठीयते, तथाविधं कर्मकुर्वतां यदि दैवकोपात्सत्कर्मफलं नहि भवति, तथाऽपि मनोहानिर्न विधेया । अतो राजनीतिविहितानुसारं कर्म करिष्यतामस्माकं पराजयोऽपि स्याच्चेत्तदा स चापि विजयलाभेनैव समो ज्ञातव्य इत्यर्थः ॥ ३४ ॥
भाषार्थः— प्रशंसनीय (सराहने लायक) गुणों से युक्त महानुभावों से प्रचार किये हुए रास्ते में मन को लगाये हुए लोगों की दैविक दुर्घटना या बिना अपराध की अवनति भी उन्नति ही के बराबर समझी जाती है ॥ ३४ ॥
सम्प्रति यद्विमृश्यं तदाह—
शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् ।
विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ ३५ ॥
शिवमिति । जिगीषवो विजेतुमिच्छवो नृपा विजितक्रोधरया जितक्रोधवेगाः सन्तो गरीयसीं प्रभूतामदूषितायतिमक्षतोत्तरकालम् । स्वन्तामित्यर्थः । फलनिष्पत्तिं फलसिद्धिं विगणय्य । फलवत्त्वं निश्चित्येत्यर्थः । पौरुषं पुरुषकारं शिवमनुकूलमौपयिकमुपायम् । विनयादित्वात्स्वार्थे ठक् । उपायाद्ध्रस्वत्वाच्च । नयन्ति प्रापयन्ति पौरुषमुपायेन योजयन्तीत्यर्थः । नानिश्चितफलं कर्म कुर्वन्त इति भावः । यथाह कामन्दकः—'निष्फलक्लेशबहुलं सन्दिग्धफलमेव वा । न कर्म कुर्यान्मतिमान् सदा वैरानबन्धि च ॥' इति । नयतिः प्राप्त्यर्थे द्विकर्मः अत्र पौरुषस्य कर्तृस्थकर्मत्वऽस्त्युपायस्यासत्वाच्चाक्रोधं विनयत इत्यादिवत् 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदं न भवति ॥ ३५ ॥