सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सप्तदशः सर्गः ३७९

सप्तदशः सर्गः ३७९

अरिदुर्गे शत्रुसङ्कटे। अस्खलितस्वभावमचलशीलगुरु = महत् धैर्यं भुजालम्बमिव =
हस्तावष्टम्भमिव, आसादयन् = प्राप्नुवन्। ईदृशे संकटेऽपि महावीर्यत्वाद्वैर्य्यमत्यज-
न्नित्यर्थः ॥ ३ ॥

हिन्दी—शत्रुओंसे अहार्थ और मित्रके समान अपने प्रचुर तेजका आश्रय
कर अर्जुन भयानक शत्रुरूप सङ्कटमें अविचलित स्वभाववाले होकर प्रचुर धैर्यको
हाथके अवलम्बनके समान प्राप्त कर रहे थे ॥ ३ ॥

वंशोचितत्वादभिमानवत्या संप्राप्तया संप्रियतामसुभ्यः ।
समक्षमादित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ॥ ४ ॥

**मल्लि०—**वंशेति। पुनश्च, अभिमानो ममतावुद्धिस्तद्वत्या। विषयतया कर्मणि
कर्तृत्वोपचारः। अभिमानास्पदेनेत्यर्थः। अन्यत्र—, कुलशीलाद्यभिमानवत्या।
वंशोचितत्वात् = स्वकुलानुरूपत्वात्। असुभ्यः = प्राणेभ्योपि संप्रियतां = संप्रा-
प्तया परेण शत्रुनाऽक्ष्णोः समीपे समक्षमक्यग्रतः। 'अव्ययीभावे शरत्प्रभृतिभ्यः'
इति समासान्तष्टच्प्रत्ययः। आदातुं = ग्रहीतुमिष्टयाऽऽदित्सितया। आजिहीर्षितये-
त्यर्थः। आङ्पूर्वाद्ददातेः सन्नन्तात्कर्मणि क्तः। वध्वेव कीर्त्या हेतुना परितप्यमानः,
कर्तरि शानच् 'हेतो' इति तृतीया। कन्यया शोक इति वत् ॥ ४ ॥

**हिन्दी—**अर्जुनवंशके उचित होनेसे अभिमानसे युक्त बुद्धिसे प्राणसे भी प्रिय
भावको प्राप्त, पत्नीकी तुल्य कीर्तिके शत्रुसे सामने ही ग्रहण करनेकी इच्छासे
आँखोंके सामने ही सन्तप्त हो रहे थे ॥ ४ ॥

पतिं नगानामिव बद्धमूलमुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ॥ ५ ॥

**मल्लि०—**पतिमिति। पुनश्च, नगानां पतिं हिमवन्तमिव बद्धमूलं = विपक्षं
शत्रुं तरसा = बलेन। उन्मूलयिष्यन् = उत्पाटयिष्यन्। किंच, त्रिभिर्मार्गेर्गच्छतीति
त्रिमार्गगा गङ्गा। उत्तरपदसमासः। तस्या वेग इव। ईश्वरेण लघुप्रयत्नमल्पप्रयासं
यथा तथा, निगृहीतवीर्यः = प्रतिबद्धशक्तिः, हृतास्त्रशक्तिरिति यावत्। पुरा किल
हिमाद्रिविदलनाय गगनात्पतन्तं गङ्गाप्रवाहं गङ्गाधरोनि बजटाजूटेन जग्राहेति
पौराणी कथा तद्वदित्यर्थः ॥ ५ ॥

**हिन्दी—**पर्वतपति हिमालयके समान बहुमूल शत्रुको वेगसे उन्मूलित करनेकी

३८०किरातार्जुनीयम्

इच्छा करते हुए अर्जुन गङ्गाके वेगके समान शिवजीसे थोड़ेसे प्रयाससे नष्ट अस्त्रशक्तिवाले हो गये ॥ ५ ॥

संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
अयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थमिवाशशंसे ॥ ६ ॥

मल्लि०—संस्कारेति । एवंभूतः पार्थः संस्कारवत्त्वात् संस्कारश्चित्तवासना । अन्यत्र, साधुत्वम् । असाधूनां प्रयोगनिषेधादिति भावः । अथवा संस्कारो ऽमृष्ट-तिस्तद्वत्त्वात् चेतो रमयत्सु । प्रयोगः संधानमोक्षादिः, शिक्षाऽभ्यासो गुणस्तदाहितोऽतिशयो मौर्वी वा, अन्यत्र तु—, प्रयोगोऽभियुक्तव्यवहारः शिक्षाऽभ्यासो गुणाः स्वस्वस्थानकरणादयः श्लेषप्रसादादयो वा ते भूषणं येषां तेषु । यथा यथामूर्ता अर्था येषां तेषु यथार्थेषु । अन्यत्र—, नियततार्थेषु । शृणन्ति हिंसन्तीति शरास्तेषु जयम् । तन्निर्वाहकत्वात्तदाधारत्वविवक्षायां सप्तमी । शब्देषु पदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एव अर्थस्तमिव । आशशंसे=आचकाङ्क्षे । शास्तिशंसत्योराङ्पूर्वयोरिच्छायामात्मनेपदमुपसंख्यानात् । यथा शाब्दिकाः शब्दैरर्थं साधयन्ति तद्वदयं शरैर्जयं साधयितुमियेयेत्यर्थः ॥ ६ ॥

हिन्दी—ऐसे अर्जुनने व्युत्पत्ति वा साधुत्व होनेसे चित्तका रमण करनेवाले प्रयोग, अभ्यास गुण अपने-अपने स्थानकरण आदि वा श्लेष प्रसादरूप भूषणवाले यथार्थ वा नियत अर्थवाले बाणोंसे जयकी ओर शब्दोंसे प्रवृत्तिनिमित्त रूप अर्थोंके समान आकाङ्क्षा की ॥ ६ ॥

भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धमिति व्यथावान् ।
स निर्वववामास्रममर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ॥ ७ ॥

मल्लि०—भूय इति भूयः=पुनरपि समाधानेन युद्धाय मनोऽवस्थापनेन विवृद्धतेजाः=प्रवृद्धप्रतापः पुरा पुरातनं युद्धमेवमित्थं शक्तिसादकरं नाभवत्, इति हेतोः व्यथावान् = परितापवान् सोऽर्जुन ईक्षणाभ्यां = दृष्टिभ्यां महानागो = महासर्पो विषमिवामर्षनुन्नं क्रोधोत्थापितम् । अस्रमश्रु निर्ववाम = निर्जगाम । सात्त्विकानां रससाधारण्याद्रौद्रेऽप्युदयोक्तिः । 'स्तंभः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलयं इत्यष्टौ सात्विका मताः' ॥ ७ ॥

हिन्दी—फिर भी युद्धके लिए मनको व्यवस्थित करनेसे बढ़े हुए प्रतापवाले अर्जुनने 'पहले इस प्रकारका युद्ध नहीं हुआ था, ऐसा सोचकर परितप्त होकर