किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
षोडशः सर्गः ३६९
षोडशः सर्गः ३६९
परेषामुपजापं परोपजापं परकृतं स्वमण्डलभेदमिव । 'भेदोपजापावुपधा' इत्यमरः ।
आशु = निवारयामास ॥ ४२ ॥
हिन्दी—शिवजीने उस सर्पसमूहको गरुडोंके प्रादुर्भावके कारण मन्त्रसे जैसे नायक शत्रुके भेदका निवारण करता है उसी तरह शीघ्र निवारण कर दिया ॥ ४२ ॥
प्रतीघ्नतीभिः कृतमीलितानि द्युलोकभाजामपि लोचनानि ।
गरुत्मतां संहतिभिर्विहायः क्षणप्रकाशाभिरिवावततेने ॥ ४३ ॥
मल्लि०—प्रतीति । द्युलोकभाजामपि = अनिमेषाणामपि कृतं मीलनं निमेषो } यैषां तानि लोचनानि=दृष्टीः प्रतीघ्नतीभिः प्रतिबध्नतीभिः । हन्तेः शतरि ङीप् । गरुत्मतां = तार्क्ष्याणां संहतिभिः = समूहैः क्षणप्रकाशाभिर्विद्युद्भिरिव । तासां सौवर्णत्वादिति भावः । विहायोऽन्तरिक्षम् । अवततेने=व्यानशे ॥ ४३ ॥
हिन्दी—देवताओंके भी निमीलित नेत्रोंको प्रतिबद्ध करनेवाले गरुडोंके समूह-ने बिजलियोंकी तरह आकाशको व्याप्त कर डाला ॥ ४३ ॥
ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियन्निनाय वनस्पतीनां गहनानि वायुः ॥ ४४ ॥
मल्लि०—तत इति । ततः सुपर्णव्रजानां = तार्क्ष्यकुलानां पक्षेभ्यो जन्म यस्य स नानागतिर्विचित्रगतिर्वायुः । वनस्पतीनां वृक्षाणां गहनानि जीर्णतृणानीव जवेन मण्डलयन्=भ्रमयन् वियदन्तरिक्षं निनाय ॥ ४४ ॥
हिन्दी—तब गरुडसमूहके पक्षोंसे उत्पन्न विचित्रगतिसे युक्त वायुने वृक्ष-समूहोंको जीर्ण तृणोंके समान वेगसे घुमाकर आकाशमें पहुँचा दिया ॥ ४४ ॥
मनःशिलाभङ्गनिभेन पश्चाद्विरुध्यमानं निकरेण भासाम् ।
व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥ ४५ ॥
मल्लि०—मनःशिलेति । मनःशिला = धातुविशेषस्तस्या भङ्गश्छेदस्तन्निभेन तत्सदृशेन भासां निकरेण = कान्तिपुञ्जेन पश्चाद्भागे निरुध्यमानमाव्रियमाणं व्यूढैर्विशालैः उरोभिर्वक्षोभिश्च । 'उरो वत्सं च वक्षश्च' इत्यमरः । विनुद्यमानं=प्रेर्यमाणं, नभः खगानां = गरुडानां, पुरः ससर्पेव = ससारेव । उत्तरोत्तरदेशतिरो-धानेन गच्छतां खगानामपूर्वोऽपि पुरोभागः सादृश्यात्पूर्ववदुपलभ्यमानतया नभस एव छेदनातुरः ससर्पेवेत्युत्प्रेक्षा ॥ ४५ ॥
२४ कि०
| ३७० | किरातार्जुनीयम् |
|---|
हिन्दी — मैनशिलके टुकड़ेके समान कान्तिसमूहसे पिछले भागमें आच्छादित किए गया विशाल वक्षःस्थलोंसे भी प्रेरणा किया जाता हुआ आकाश पक्षीके आगे मानों चल पड़ा ॥ ४५ ॥
दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा।
जवानिलाघूर्णितसानुजालो हिमाचलः क्षीव इवाचरम्भे ॥ ४६॥
मल्लि० — दरीति। जवानिलेनाघूर्णितानि=भ्रमितानि सानुजालानि यस्य स हिमाचलः। आसवस्य रागो रक्तता तद्वत् ताम्रम्। गुणयोरेवोपमानोपमेयभावः। विकासि विकस्वरं रुक्मच्छदाः सुवर्णपक्षास्तादृशांस्तेषां धाम तेजो दरीभिर्मुखैरिव दरीमुखैः पीत्वा क्षीबो मत्त इवाचरम्भे=आबभाल। उपमाऽलङ्कारोऽयमुत्प्रेक्ष्यतेवा ॥४६॥
हिन्दी — वेगशाली वायुसे जिसके प्रस्थसमूह हिल रहे थे ऐसा हिमालय पर्वत मदिराके रागके समान लाल विकसित गरुड़ोंके तेजको मुखके समान गुफाओंसे पीकर मतवालेके समान कम्पित हुआ ॥ ४६ ॥
प्रवृत्तनक्तंदिवसंधिदीप्तैर्नभस्तलं गां च पिशङ्गयद्भिः।
अन्तर्हितार्कैः परितः पतद्भिश्च्छायाः समाविक्षिपिरे वनानाम् ॥ ४७॥
मल्लि० — प्रवृत्तेति। नक्तं च दिवा च नक्तन्दिवम्। 'अचतुरे-'त्यादिना समस्यर्थयोरप्यव्यययोर्द्वन्द्वैकवद्भावनिपाते समासान्तः। लक्षणया सहोरात्रमात्रवाची। प्रवृत्तः प्रादुर्भूतो यो नक्तंदिवस्य संधिः संध्या तद्वद्दीप्तैः=शोभितैः। नभस्तलं गां=भुवं च पिशङ्गयद्भिः=पिशङ्गीकुर्वद्भिः। अन्तर्हित आच्छादितोऽर्को यैस्तैः पतद्भिः पक्षिभिः परितः=सर्वतो वनानां छायाः समाविक्षिपिरे=समाश्रिताः। अन्तर्बहिंश्च तेजःप्रवेशात्तस्वाप्यन्तर्हिता इत्यर्थः ॥ ४७ ॥
हिन्दी — प्रादुर्भूत रात और दिनकी संध्याके समान शोभित आकाशमण्डल और पृथिवीको पीले वर्णसे युक्त करते हुए तथा सूर्यको आच्छादित किये हुये पक्षियोंने सभी तरफ मेघोंकी छायाओंको अन्तर्हित कर दिया ॥ ४७ ॥
स भोगिसङ्घः क्षतमुग्रधाम्नां सैन्येन निन्ये विनतासुतानाम्।
महाध्वरे विष्णुपचारदोषः कर्मन्तरेणेव महोदयेन ॥ ४८॥
मल्लि० — स इति। स भोगिसङ्घः=सर्पसमूह उग्रधाम्नां=तेजस्विनां विनतासुतानां=गरुडां रक्षिणां सैन्येन महाध्वरे=महाक्रतौ विष्णुपचारदोषः। कर्मान्तरेण
षोडशः सर्गः । ३७१
दोषो महोदयेन = महासामर्थ्येन, अथवा महता फलेन । तन्मूलेन प्रकृतक्रिया-सिद्धेरिति । कर्मान्तरेण = प्रायश्चित्तेनेव शमं = शान्तिं निन्ये = प्रापितः ॥ ४८ ॥
हिन्दी—उस सर्पसमूहको तीव्रतेजवाले गरुड पक्षियोंकी सेनाने जैसे महायज्ञ-में विधानके त्रुटिदोषको महाफलवाला प्रायश्चित्त शमन करता है उसी तरह शान्त कर दिया ॥ ४८ ॥
साफल्यमस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ ४९ ॥
मल्लि०—साफल्यमिति । अस्त्रे=सर्पास्त्रे । भाग्ये प्राग्भवीये शुभे कर्मणीव । रिपुपौरुषस्य रिपुपराक्रमस्य साफल्यं कृत्वा, अपवर्गमवसानं= समाप्तिं गते सति । स्वनिवृत्त्या परसाफल्यात्सफलीकरणोपचारः । समन्युः = सक्रोधो जिष्णुरर्जुनोऽनि-न्धनस्येन्धनं विनैवोत्पादितस्य ज्वलनस्य ज्वलनप्रदीपकम् अस्त्रमाग्नेयास्त्रं प्रसभं= शीघ्रं समाददे = जग्राह ॥ ४९ ॥
हिन्दी—पूर्वजन्मके शुभ कर्मके समान सर्पाऽस्त्रके शत्रु पराक्रमके सफलता कर समाप्त होनेपर क्रुद्ध होकर अर्जुनने काष्ठरहित अग्निके अस्त्र अर्थात् आग्नेय अस्त्रको शीघ्रतापूर्वक ग्रहण किया ॥ ४९ ॥
ऊर्ध्वं तिरश्चीनमधश्च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्त सिंहाकृतिरुल्ललात प्राणान्तमिच्छन्निव जातवेदाः ॥ ५० ॥
मल्लि०—ऊर्ध्वमिति । ऊर्ध्वं तिरश्चीनं = तिर्यक् । 'विभाषाऽवरेदधिरुत्तरस्याम्' इति खप्रत्ययः । अधश्च कीर्णैविस्तृतैर्ज्वाला एव सटाः = केसराः । 'सटा जटा-केसरयोः' इति विश्वः । तैः, लङ्घितमेघपङ्किरतिक्रान्तजलदावलिः । आयस्तस्य लङ्घनोद्यतस्य सिंहस्येवाकृतिर्यस्य स जातवेदाः = अग्निः प्राणान्तं प्राणिनां संहार-मिच्छन्निवोत्पपात ॥ ५० ॥
हिन्दी—ऊपर, तिर्यक् (तिरछा भाग) और नीचे विस्तृत ज्वलारूप केसरोंसे मेघपङ्क्तिको लङ्घित कर लङ्घनके लिए तत्पर सिंहकी समान आकृतिसे युक्त अग्नि मानों प्राणियोंके संहारको इच्छा करता हुआ प्रकट हो गया ॥ ५० ॥
भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः ।
विशीर्यमाणाश्मनिनादघोरं ध्वनिं वितन्वन्क्षणशः कृशानुः ॥ ५१ ॥
३७२ किरातार्जुनीयम्
मल्लि०—भित्त्वेति । भाभिस्तेजोभिः सवितुर्मयूखान् = किरणान् । 'किरणोस्रमयूखांश्व-'त्यमरः । भित्त्वेवाभिहत्येव विष्वक् = समन्ताद्विसृताः स्फुलिङ्गा यस्य सः । स्फुलिङ्गोदयस्य मयूखाभिघातहेतुकत्वमुत्प्रेक्ष्यते । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः । अकृशोऽतनुः, कृशानुर्वह्निः । विशीर्यमाणस्य विघटतोऽश्मनो निनादमिव धीरमुद्धतं ध्वनिं वितन्वन् जज्वाल ॥ ५१ ॥
हिन्दी—तेजों से सूर्यकी किरणोंको मानों भेदन कर चारों ओरसे फैले हुए स्फुलिङ्गोंवाला विशाल अग्नि विदीर्ण होते हुए पत्थरकी ध्वनिकी सदृश गम्भीर ध्वनिको फैलाता हुआ प्रज्वलित हो उठा ॥ ५१ ॥
चयानिवोद्रोनिव तुङ्गशृङ्गान् क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशूकानां ततान वह्निः पवनानुवृत्त्या ॥ ५२ ॥
मल्लि०—चयानिति । वह्निः पवनानुवृत्त्या = वायुवशेन, चयानिव हिरण्मयान्प्राकारानिव । 'चयः समूहे प्राकारे' इति विश्वः । तुङ्गशृङ्गानद्रीनिब क्वचिद्धिरण्मयानीति 'पाण्डिनायने-'त्यादिना निपातनात्साधुः । पूराणि = नगराणीव तथा किंशूकानां = पलाशतरूणाम् । 'पलाशो किंशुकः पर्णः' इत्यमरः । महावनानीव । पुष्पितानीति शेषः। ततान = वितस्तार । तदाकारेण जज्वालेत्यर्थः ॥ ५२ ॥
हिन्दी—अग्नि, वायु के अनुसारसे सुवर्णमय प्राकारोंके समान, सुवर्णमय प्रकाशोंके समान, ऊँची चोटी वाले पर्वतोंके समान, शहरोंकी तथा पलाश वृक्षोंके महावनोंके समान हो कर फैल उठा ॥ ५२ ॥
मुहुश्चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्जनश्यामरुचः पयोदाः ॥ ५३ ॥
मल्लि०—मुहुरिति । सान्द्राञ्जनश्यामरुचो = घनकज्जलश्यामरुचः । पयोदा मुहुश्चलन्त्यश्च ताः पल्लवलोहिन्यो लोहितवर्णाश्च ताभिश्चलत्पल्लवलोहिनीभिः। 'वर्णोऽनुदात्तात्तोपधात्तो नः' इति ङीप् । तकारस्य नकारः । शिखिनोऽग्नेः । उच्चैरुन्नताभिः शिखाभिर्ज्वालाभिः । अवलीढाः । दग्धा इत्यर्थः । अत एव तलेषु = अधोभागेषु मुक्ताविशदा = मौक्तिकधवळा बभूवुः । जलसंशोषणादिति भावः । 'अधः स्वरूपयोरस्त्री तलम्' इत्यमरः ॥ ५३ ॥
हिन्दी—गाढ कज्जलके समान कृष्णवर्ण वाले मेघ वारंबार चलती
षोडशः सर्गः
३७३
पल्लवके समान लाल वर्णवाली अग्निकी उन्नत ज्वालाओंसे जलते हुए वन एवं निम्न भागोंमें मोतीके समान उज्ज्वल हो गये ॥ ५३ ॥
लिलिक्षतीव क्षयकालरौद्रे लोकं विलोलाचिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाहमस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ ५४ ॥
मल्लि०—लिलिक्षतीवेति । क्षयकालरौद्रे = कल्पान्तकालवद्भयावहे विलोलाचिषि = चलज्वाले, रोहिताश्वे = ज्वलने । 'रोहिताश्वो वायुसखः' इत्यमरः । लोकं लिलिक्षति लेढुमिच्छति जिघत्सति सतीव । लिहः सन्नन्ताच्छतृप्रत्ययः । पिनाकिना पुनर्हूता आहूता आकारिता महाम्बुवाहा येन तत् । पाशभृतो=वरुणस्य । अस्त्रं प्रणिन्ये प्रयुक्तम् ॥ ५४ ॥
हिन्दी—प्रलय कालके समान भयङ्कर, चञ्चल ज्वालावाले अग्निके मानों लोकको खानेकी इच्छा करनेपर शिवजीने फिर विशाल मेघोंको बुलानेवाले वारुणास्त्रका प्रयोग किया ॥ ५४ ॥
ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः ।
अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः ॥ ५५ ॥
मल्लि०—तत इति । ततो वरुणास्त्रप्रयोगानन्तरं धरित्रीधरतुल्यरोधसः = पर्वतसमप्रान्ताः । 'रोधः स्यात्प्रान्तकूलयोः' इति विश्वः । तडिल्लताभिरालिङ्गिता नीलमूर्तयो = नीलाङ्गानि येषां ते पयोमुचो मेघा अधोमुखा वाकाशसरिदिव निपतन्तीरिति प्रसक्तमनुबन्धमविच्छिन्नं यथा तथा मुमुचुः । इतः प्रभृति वंशस्थवृत्तम् ॥ ५५ ॥
हिन्दी—तब पर्वतके तुल्य प्रान्त भाग वाले, बिजलियोंसे आलिङ्गित नील अङ्गों वाले मेघ, अधोमुख आकाश गङ्गाके समान गिरने वाले जलको लगातार बरसाने लगे ॥ ५५ ॥
पराहताध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ॥ ५६ ॥
मल्लि०—पराहतेति । पराहता = अभिहता अतो = ध्वस्ता निर्वापिताः शिखा ज्वाला यस्य तस्मिन् पराहतध्वस्तशिखे । अधिक्षिप्तं प्रहारितं नाशितम् । ताडितमिति यावत् । अतः समिद्धं झटिति प्रदीप्तं तेजो यस्य तस्मिन् । शिखावतोऽग्ने-
| १७४ | किरातार्जुनीयम् |
|---|
वपुषि स्वरूपे । तप्तेऽयसि लोह इव कृतास्पदाः कृतस्थितयः । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । प्रथमे पयोनिपाता जलपाता ध्वनि वितेनिरे = विस्तारयामासुः ॥ ५६ ॥
हिन्दी— जलसे ताडित होकर अतः बुझी हुई ज्वालावाले पर्याप्त तेजके नष्ट होनेपर पर्याप्त तेजवाले अग्निके स्वरूपमें मानों सन्तप्त लोहमें स्थिति किये हुए प्रथम जलपात आवाज करने लगे ॥ ५६ ॥
महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः क्वथनेन फेनताम् ।
व्रजद्भिद्रन्धनवत्परिक्षयं जलैर्वितेने दिवि धूमसंततिः ॥ ५७ ॥
मल्लि०— महानल इति । महानलेऽग्नौ भिन्नानि खण्डितानि सिताभ्राणीव पतन्तीति भिन्नसिताभ्रपातिभिः । 'कर्तर्युपमाने' इति णिनिप्रत्ययः । अत एव सद्यः क्वथनेन पाकेन फेनतां समेत्य = प्राप्य, परिक्षयं = नाशं व्रजद्भिर्जलैरार्द्रेन्धनवत् = आर्द्रकाष्ठैरस्तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' इति वतिप्रत्ययः । दिवि = गगने, धूमसंततिर्वितेने विस्तारिता । फेनादिकमार्द्रेन्धनेऽपि तुल्यम् ॥ ५७ ॥
हिन्दी— प्रदीप्त अग्निमें खण्डित सफेद बादलोंके समान पड़ने वाले अतएव उसी क्षण पाकसे फेनके रूपमें परिणत होकर नष्ट होने वाले जलोंने गीले काष्ठोंके समान आकाशमें धूमसमूहको फैला दिया ॥ ५७ ॥
स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितामादधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ॥ ५८ ॥
मल्लि०— स्वकेतुभिरिति । पाण्डुरैर्नीलैः पाटलैश्च पाण्डुरनीलपाटलैर्विविधैः स्वकेतुभिर्धूमैः समागताः = संगताः । अत एव शक्रधनुषः प्रभाभिद इन्द्रधनुर्द्युतिभाजो विभावसोरग्नेस्त्विषोऽसंस्थितामस्थिरां विचित्रस्य चीनांशुकस्य = पट्टवस्त्रविशेषस्य चारुतामादधिरे = दधुः ॥ ५८ ॥
हिन्दी— श्वेत, कृष्ण वर्ण और लाल विभिन्न धूओं से मिले हुए अत एव इन्द्रधनुषी कान्तिवाले अग्निकी कान्तिने अस्थिर विचित्र रेशमी वस्त्रकी सुन्दरता का धारण कर लिया ॥ ५८ ॥
जलोषसंमूर्च्छनमूर्च्छितस्वनः प्रसक्तविद्युल्लसितेधितद्युतिः ।
प्रशान्तिमेध्यन्धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ॥ ५९ ॥
षोडशः सर्गः ३७१
**मल्लि०—**जलोघेति । जलोघानामुदकप्रवाहाणां संमूर्च्छनेन = मेलनेन मूर्च्छितस्वनः = प्रवृद्धघोषः । 'मूर्च्छनं मेलने प्रोक्तं वृद्धौ मूर्च्छितमेव वा' । इति सज्जनः । प्रसक्तैः = संगतैर्विद्युतां = तडिल्लतानां लसितैः स्फुरणैरेधिता = वर्धिता द्युतिर्यस्य स धृतधूममण्डलो = जलाघातसंभृतधूमपटलः पावकः प्रशान्तिमेष्यन्, तत्र देशे भूयानिव बभूव । भूयस्तया स्थापित इवेत्युत्प्रेक्षा ॥ ५९ ॥
**हिन्दी—**जलप्रवाहके मिलनेसे बढ़े हुए शब्द वाला, मिली हुई बिजलीके स्फुरणोंसे बढ़ी हुई कान्तिसे युक्त, धूममण्डलका धारण किया हुआ अग्नि बुझनेके समयमें युद्धस्थलमें अधिकके समान प्रतीत होने लगा ॥ ५९ ॥
प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसंध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ॥ ६० ॥
**मल्लि०—**प्रवृद्धेति । प्रवृद्धानां सिन्धोः = समुद्रस्य ऊर्मीणां चया राशय इव स्थवीयसां स्थूलतराणां पयसां चयैः पूरैर्विभिन्ना विश्लेषिताः कृशानवोऽग्नय उपात्तसंध्यारुचिभिः प्राप्तसंध्यारागैः पयोदानां विच्छिद्यन्त इति विच्छेदा विच्छिन्ना विक्षिप्ता ये लवाः शकलास्तैः सरूपतां = समानरूपतां प्रपेदिर इत्युपमा ॥ ६० ॥
**हिन्दी—**समुद्रकी बढ़ी हुई तरङ्गोंके समूहके समान बड़े बड़े जलसमूहके प्रवाहोसे विश्लेषित अग्निसमूहने सन्ध्याकी लालीको प्राप्त मेघोंके विच्छिन्न खण्डोंके समान रूपको प्राप्त किया ॥ ६० ॥
उपेत्यनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ॥६१॥
**मल्लि०—**उपेतीति । अनन्तद्युतिर्महातेजा अपि विभिन्नमूलो = नष्टमूलोऽसंशयं यथा तथाऽनुदयाय = पुनरनुत्थानाय संक्षयं = नाशम् । उपैति । तथा हि—तोयौघैर्विभिन्ना संहतिः संघातो यस्य स तथोक्तः हव्यवाहोऽग्निः पराभवं = नाशं प्रययौ । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६१ ॥
**हिन्दी—**जैसे तेजस्वी पुरुष भी मूलके नष्ट होनेपर निश्चय ही फिर उत्थान न होनेके लिए नाशको प्राप्त होता है वैसे ही जलसमूहसे विश्लिष्ट समूहवाला अग्नि नष्ट हो गया ( अर्थात् बुझ गया ) ॥ ६१ ॥
अथ विहितविधेयेराशु मुक्ता विताने-
रसितनगनितम्बश्यामभासां घनानाम् ।
३७६ | किरातार्जुनीयम्
विकसदमलधाम्नां प्राप नीलोत्पलानां
श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥ ६२ ॥
मल्लि०—अथेति। अथ अग्निनिवारणानन्तरम्। विहितविषयैः = कृतकृत्यैः। अञ्जनगस्याञ्जनाद्रेर्नितम्बः। कटकस्तद्वत् श्यामभासा = वितानैः = पटलैर्मुक्ता द्यौराकाशो वह्निदाहादिवेत्युत्प्रेक्षा। विकसन्ति च तानि अमलधामानि स्वच्छ-कान्तीनि च तथा नीलोत्पलानाधिकविशुद्धामत्युज्ज्वलां श्रियं प्राप। निदर्शनाल-ङ्कारः ॥ ६२ ॥
हिन्दी— आग्नेय अस्त्रके निवारणके बाद कार्यको किये हुए अञ्जन पर्वत-के मध्यभागके समान श्याम कान्तिवाले मेघोंके समूहसे उन्मुक्त आकाशने मानों अग्निदाहसे विकसित निर्मल कान्ति वाले नीलकमलोंके अतिशय उज्ज्वल कान्ति-को प्राप्त कर लिया ॥ ६२ ॥
इति विविधमुदासे सव्यसाची यदस्त्रं
बहुसमरनयज्ञः सादयिष्यन्नरातिम् ।
विधिरिव विपरीतं पौरुषं न्यायवृत्तेः
सपदि तदुप निन्ये