सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

षोडशः सर्गः ३५५

षोडशः सर्गः ३५५

हिन्दी—इस युद्धमें बड़ी तरङ्गोंके समान चमकती हुई मालोंकी पङ्क्तिवाले फेनोंके समान चामरोंकी पङ्क्तिवाले, घोड़ोंके समूह जलके समान मर्यादाका उल्लङ्घन नहीं करते हैं ॥ ४ ॥

हताहतेत्युद्भटभीष्मघोषैः ममुज्झिता योद्धृभिरभ्यमित्रम् ।
न हेतयः प्राप्ततडित्विषः खे विवस्वदंशुज्वलिताः पतन्ति ॥ ५ ॥

मल्लि०—हतेति । हत = प्रहर । आहत = विध्यत । हन्तेर्लोट् । मध्यमपुरुषबहुवचनम् । 'अनुदात्तोपदेशे-'त्यादिनाऽनुनासिकलोपः । आह्तेत्यत्र कर्मणः प्रयोगासंभवेऽपि हन्तेः स्वाभाविकमकर्मकत्वस्यानपायात् । अकर्मकत्वस्य चात्राविवक्षितत्वेन कर्मनिवृत्त्यैव तन्निवृत्तेः 'आङो यमहन्ः' इति नात्मनेपदम् । इत्येवमुद्धताः = प्रगल्भा भीष्माश्च घोषा येषां तैः । योद्धृभिर्योधैः । अभ्यमित्रम् = मित्रानभि ममुज्झिता मुक्ता विवस्वतोऽंशुभिः । प्रतिफलितैरिति भावः । ज्वलिता = दीपिताः अत एव प्राप्तस्तडितां त्विष इव त्विषो याभिस्ता हेतयः शस्त्राणि । खे न पतन्ति । समुल्लसन्तो न दृश्यन्त इत्यर्थः । 'हेतिः स्यादायुधे' इति विश्वः ॥ ५ ॥

हिन्दी—इस युद्धमें 'मारो, बेध करो', इस प्रकार उद्धत और भयङ्कर शब्द करनेवाले योद्धाओंसे शत्रुओं पर छोड़े गये प्रतिबिम्बित सूर्यकिरणोंसे प्रदीपित, बिजलीकी समान कान्तिको प्राप्त करने वाले शस्त्र भी आकाशमें नहीं गिर रहे हैं ॥ ५ ॥

अभ्यायतं संततधूमधूम्रं व्यापि प्रभाजालमिवान्तकस्य ।
रजः प्रतूर्णैरवशाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ॥ ६ ॥

मल्लि०—अमीति । अभ्यायतो वीरान्हन्तुमभ्यागच्छतः । इणः शतृप्रत्ययः । अन्तकस्य ० कालस्य संबन्धि संततं = सततं धूमवद्धूम्रं व्यापि व्यापकं प्रभाजाल मिव स्थितं प्रतूर्णैः = वेगवद्भिरश्वै रथाङ्गैः = रथचक्रैश्च नुन्नं = प्रेरितं रजो मात- रिखा मरुत् । व्योमन्यन्तरिक्षे न तनोति = न विस्तारयति ॥ ६ ॥

हिन्दी—इस युद्धमें वीरोंको मारनेके लिए सम्मुख आते हुए यमराजके निरन्तर धूमके समान धूम्रवर्णवाली व्यापक, कान्तिसमूहके समान स्थित, वेगवाले घोड़ों और रथोंके पहियोंसे प्रेरित धूलको हवा भी आकाशमें नहीं फैला रही है ॥ ६ ॥

३५६किरातार्जुनीयम्

भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम्।
नास्त्यत्र तेजस्विभिरुत्सुकानामह्नि प्रदोषः सुरसुन्दरीणाम् ॥ ७ ॥

मल्लि०— भूरेणुनेति । अत्राऽऽहवे रासभो गर्दभस्तद्वद्धूसरेणेषद्वपाण्डुना। 'रासभो गर्दभः खरः' इत्यमरः । 'ईषत्पाण्डुस्तु धूसरः' इति च । भूरेणुना = रजसा लोचनानां वर्त्मनि = चक्षुर्मार्गे तिरोहिते सति तेजस्विभिस्तेजस्विषु वीरेषु । उत्सुकानाम् । वीरवरणाद्यमागतानामित्यर्थः । 'प्रसितोत्सुकाभ्यां तृतीया च' इति विकल्पात्तृतीया । सुरसुन्दरीणामह्नि दिवस एव प्रदोषो रात्रिमुखं नास्ति । अन्धकारवत्त्वात् दृष्टेस्तिरोधानाद्रात्रिभ्रमः स्यादिति भावः ॥ ७ ॥

हिन्दी— इस युद्धमें गधेके समान धूसर जमीनकी धूलसे नेत्रमार्गके तिरोहित होनेपर तेजस्वियोंसे वीरोंके वरणमे उत्सुक देवसुन्दरियोंका दिनमें भी रात्रिका भ्रम भी नहीं देखा जा रहा है ॥ ७ ॥

रथाङ्गसंक्रोडितमश्वहेषा बृहन्ति मत्तद्विपवृंहितानि।
संघर्षयोगादिव मूर्च्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ ८ ॥

मल्लि०— रथाङ्गेति । रथाङ्गसंक्रोडितं = रथचक्रकूजितम् । अश्वानां हेषातानि = शब्दितानि । 'अश्वानां हेषा हेषा च निःस्वनः' इत्यमरः । बृहन्ति = महान्ति । मत्तद्विपानां वृंहितानि । 'वृंहितं करिगर्जितम्' इत्यमरः । संघर्षयोगादिव=परस्परस्पर्द्धारावन्त्वादिव मूर्च्छितानि वृद्धिं गतानि सन्ति । 'नपुंसकमनपुंसके'-त्यादिना नपुंसकैकशेषः । दुन्दुभीनां = भेरीणां, ह्रादं = निर्घोषम् । 'स्वाननिर्घोषनिर्ह्रादे-'त्यमरः । न निगृह्णन्ति = न तिरस्कुर्वन्ति ॥ ८ ॥

हिन्दी— इस युद्धमें रथोंकी पहियोंकी आवाज, घोड़ोंकी हिनहिनाहट और मत्तहाथियोंकी भारी चिघाड़ भी संघर्षके सम्बन्धसे वृद्धिको प्राप्त करती हुई भेरीकी आवाजोंका भी तिरस्कार नहीं कर रही है ॥ ८ ॥

अस्मिन् यशःपीयूषलोलुपानामरातिभिः प्रत्युरसं क्षतानाम्।
मूर्च्छान्तरायं मुहुराच्छिनत्ति नासारशीतं करिशीकराम्भः ॥ ९ ॥

मल्लि०— अस्मिन्निति । अस्मिन् रणे यशपीयूषयोर्लोलुपानां गृध्नुनामत एव अरातिभिः प्रत्युरसमुरसि । 'प्रत्युरसः सप्तमीस्थात्' इति समासान्तः । क्षतानां = विद्धानां सम्बन्धिनां मूर्च्छवान्तरायो रणविघ्नस्तम् । असारशीतं = वर्षधाराशीत-