सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

षोडशः सर्गः

षोडशः सर्गः
३१७

लम् । 'धारासम्पात आसार' इत्यमरः । करिणां शीकर एव अम्भः कर्तृ मुहुर्नो-
च्छिनत्ति = न नाशयति ॥ ९ ॥

हिन्दी — इस युद्धमें कीर्त्ति और युद्धार्थमें लोलुप अत एव शत्रुओंसे छातीमें विद्ध सैनिकोंके मूर्च्छास्वरूप युद्धके विघ्नको वर्षाऋतुके मूसलधार जलके समान शीतल हाथियोंके जलकण भी बारंबार नष्ट नहीं कर रहे हैं ॥ ९ ॥

असृङ्नदीनामुपचीयमानेविदारयद्भिः पदवीं ध्वजिन्याः ।
उच्छ्रायमायान्ति न शोणितौधैः पङ्कैरिवाश्यानघनैस्तटानि ॥ १० ॥

मल्लि० — असृगिति । असृङ्नदीनां तटान्युपचीयमानेरुपचयं नेयमानेरुदयो ध्वजिन्याः पदवीं विदारयद्भिर्दुःसंचारां कुर्वद्भिः । 'विदूरयद्भिः' इति पाठे विदूरां दूरसंचारां कुर्वद्भिः । आश्याना = ईषच्छुष्काः । 'संयोगादेरातो धातोर्यण्वतः' इति श्यायतेर्निष्ठानत्वम् । घनाः = सान्द्रास्तैः । आश्यानघनैः = शोणितौघैः पङ्कैरिवोच्छ्रायं वृद्धिं नायान्ति = न प्राप्नुवन्ति ॥ १० ॥

हिन्दी — इस युद्धमें रुधिरोंकी नदियोंके तट भी वृद्धिको प्राप्त किये जाते हुए तथा सेना (फौज) के मार्गको दुर्गम करते हुए कुछ सूखे हुए घने कीचड़ोंके समान रुधिर समूहसे नहीं बढ़ रहे हैं ॥ १० ॥

परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशोता नभसः पतन्ती ।
नेह प्रमोहं प्रियसहसानां मन्दारमाला विरलीकरोति ॥ ११ ॥

मल्लि० — परोति । इह = रणे, दन्तिदन्तैर्गजदन्तैः, परिक्षते = ताडिते, वक्षसि नभसः पतन्ती प्रियाया अङ्क इव शीता = शीतला सुखकरी मन्दारमाला । सुरैर्मुक्तेति शेषः । प्रियं साहसं येषां तेषां प्रियसहसानाम् । यतो गजाभियायिनामिति भावः । प्रमोहं = प्रहारमूर्च्छा न विरलीकरोति = न मन्दीकरोति । नापनयतीति यावत् ॥ ११ ॥

हिन्दी — इस युद्धमें हाथियोंके दांतोंसे ताड़ित छातोपर आकाशसे गिरती हुई प्रियाकी गोदके समान शीतल मन्दार पुष्पोंकी माला साहसको प्रिय माननेवाले वीरोंको प्रहारसे हुई मूर्च्छाको मन्द भी नहीं करती हैं ॥ ११ ॥

निषादिसंनाहमणिप्रभोधे परीयमाणे करिशीकरेण ।
अर्कत्विषोन्मीलितमभ्युदेति न खण्डनाखण्डलकार्मुकम् ॥ १२ ॥

३५८किरातार्जुनीयम्

मल्लि० — निषादीति। करिणां शीकरेण = पुष्करतुषारेण परीयमाणे व्याप्यमाने निषादिनो हस्त्यारोहाः। ‘हस्त्यारोहा निषादिनः’ इत्यमरः। तेषां संनाहाः = कवचानि, तेषा मणिप्रभोधे = रत्नांशुजाले। अर्कस्य त्विषा तेजसा। उन्मीलितमुत्पादितम्। आखण्डलकार्मुकस्य = इन्द्रधनुषः। ‘आखण्डलः सहस्राक्षः’ इत्यमरः। खण्डं नाभ्युदेति ॥ १२ ॥

हिन्दी — हाथियोंके जल कणसे व्याप्त किये जाते हुए महावतोंके कवचोंमें स्थित रत्नोंके किरणसमूहमें उत्पादित इन्द्रधनुके खण्डका प्रकाश भी नहीं चमक रहा है ॥ १२ ॥

महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
नावर्तमाना निनदन्ति भीममपां निधेराप इव ध्वजिन्यः ॥ १३ ॥

मल्लि० — महीति। पक्षवता = सपक्षेण महीभृता = मैनाकेनेव परवारणेन = शत्रुगजेन मध्यं विगाह्य=प्रविश्य भिन्नाः = क्षोभिता ध्वजिन्यः = सेनाः। ‘ध्वजिनी वाहिनी सेना’ इत्यमरः। अपां निधेः = सागरस्य। आप इव। आवर्तमाना भ्रमन्त्यः सत्यः। ‘स्यादावर्तोऽम्भसां भ्रमः’ इत्यमरः। भीमं न निनदन्ति ॥ १३ ॥

हिन्दी — पङ्खवाला पर्वत (मैनाक) के समान शत्रुके हाथीसे मध्यभागमें प्रवेश कर क्षुब्धकी गई सेनाएँ भी समुद्रके जलके समान घूमती हुई भयङ्कर आवाज भी नहीं कर रही हैं ॥ १३ ॥

महारथानां प्रतिदन्त्यनीकमधिष्यदस्यन्दनमुत्थितानाम् ।
मामूललूनैरतिमन्युनेव मातङ्ग्रहस्तैर्न्रियते न पन्थाः ॥ १४ ॥

मल्लि० — महारथानामिति। प्रतिदन्त्यनीकं = दन्तिसैन्यं प्रति। ‘अनीकं तु रणे सैन्ये’ इति विश्वः। अधिष्यदा महारयाः स्यन्दना रथा यत्र तत्तथा। ‘रंहस्तरसी तु रयः स्यदः’ इत्यमरः। उत्थितानां = प्रस्थितानां महारथानां = रथिकविशेषाणाम्। ‘आत्मानं सारथिं चाश्वान् रक्षन्युध्येत यो नरः। स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ॥’ इति लक्षणात्। पन्था = मार्ग आमूलात् = लूनैःश्छिन्न्नैः । मातङ्गहस्तैर्नागकरैः। अतिमन्युनाऽतिक्रोधेनेव न म्रियते = न निरुध्यते ॥ १३ ॥

हिन्दी — हाथियोंकी सेनाके प्रति बड़े वेगवाले रथोंसे युक्त प्रस्थान किये हुए,

षोडशः सर्गः
३१९

महारथियोंका मार्ग भी मूलसे काटे गये हाथियोंके सूँड़से मानों अत्यन्त क्रोधसे नहीं रोका जा रहा है ॥ १४ ॥

धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः ।
न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलमातनोति ॥ १५ ॥

मल्लि०— धृतेति । पतितस्य = वक्षसि भग्नस्य शङ्कोस्तोमरस्य संबन्धी । 'वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्' इत्यमरः । बर्हभारस्तन्मूलबद्धो लाञ्छनपिच्छकलापो धृत उत्पलापीडः कुवलयशेखरो यस्मिन् स प्रियायाः संबन्धी शिथिलः = स्रस्तः शिरोरुहाणां कलापः = केशपाश इव निषादिनो = हस्त्यारोहस्य वक्षःस्थलं नातनोति = न व्याप्नोति ॥ १५ ॥

हिन्दी— इस युद्धमें वक्षःस्थलपर पड़े हुए तोमर आयुधके मूलमें बाँधा गया चिह्नस्वरूप मयूरका पंख, कमलका फूल लगाये हुए प्रियाके शिथिल केशकलापके समान महावतके वक्षःस्थलपर आच्छादन भी नहीं कर रहा है ॥ १५ ॥

उज्झत्सु संहार इवास्तसंख्यमह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वां न व्याददात्याननमत्र मृत्युः ॥ १६ ॥

मल्लि०— उज्झत्स्विति । अत्र = आहवे । संहारे = कल्पान्त इव, तेजस्विषु = वीरेषु । अस्तसंख्यमसंख्यं यथा तथा, अह्नाय = झटिति । 'द्राक्झटित्यञ्जसाह्नाय' इत्यमरः । जीवितान्युज्झत्सु = त्यजत्सु सत्सु मृत्युर्लोकत्रयस्यास्वादने = भक्षणे, लोला गृध्नुर्जिह्वा यस्मिंस्तत् । आननं न व्याददाति = न विवृणोति । 'व्याङो दोऽनास्यविहरणे' इत्यत्रानास्यविहरण इति निषेधात् परस्मैपदम् ॥ १६ ॥

हिन्दी— इस युद्धमें प्रलयसमयके समान वीरोंके असंख्यरूपमें झटपट जीवन छोड़नेपर मृत्यु भी तीनों लोकके भक्षणमें चञ्चल जिह्वावाला मुख नहीं खोल रहा है ॥ १६ ॥

सत्यमेवं, तथापि किमेतत्कुत्सितम, तत्राह—

इयञ्च दुर्वारमहारथानामाक्षिप्य वीर्यं महतां बलानाम् ।
शक्तिर्ममावस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ॥ १७ ॥

मल्लि०— इयमिति । इयं मम शक्तिश्च दुर्वाराः पराक्रमिणो महारथा येषु तेषां महतां बलानां वीर्यमाक्षिप्य = निरस्य ताराधिपधाम्नि=चन्द्रतेजसि । सूर्यस्येयं

२६० | किरातार्जुनीयम्

तार्शं । 'सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः' इति स्त्रियां ङीप्। यकारस्य लोपः। दीप्तिरिव हीनदृष्टे किरातरणे। अवस्यत्वमीदति । एतच्च विरुद्धमप्युपपन्नं चेति भावः। 'षोऽन्तकर्मणि' इति धातोर्लट् ॥ १७ ॥

**हिन्दी—**इस युद्धमें वह मेरी शक्ति दुःखसे निवारण किये जानेवाले महारथियों के पराक्रमको दूर कर चन्द्रमाकी कान्तिमें सूर्यकी दीप्ति (तेज)के समान किरातके साथ युद्धमें शिथिल हो रही है ॥ १७ ॥

माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः ।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ॥ १८ ॥

**मल्लि०—**मायेति । एषा शक्तिह्रासरूपा, माया स्वित् देवताक्षोभणं नाम । मतिविभ्रमो=बुद्धिविपर्ययो वा । अथवा मे वीर्यं ध्वस्तं= नष्टं नु । उताहमन्योऽर्जुनो न वा। कुतः । हि यस्मात्, गाण्डीवमुक्ता मे शराः यथा पुरा = यथापूर्वं परिपन्थिष्विवेत्यर्थः । किराते न पराक्रमन्तेऽप्रतिबन्धेन प्रवर्त्तन्ते । 'उपपराभ्याम्' इति वृत्तावात्मनेपदम् । वृत्तिरप्रतिबन्धः ॥ १८ ॥

**हिन्दी—**यह (मेरी शक्तिकी अवनति) माया है वा मेरी बुद्धिका वैपरीत्य है, अथवा मेरा पराक्रम नष्ट हो गया है, यद्वा मैं अर्जुन ही नहीं हूँ, क्योंकि मेरे गाण्डीव धनुसे छोड़े गये बाण किरातमें, शत्रुमें पहलेकी तरह रुकावटके बिना प्रवृत्त नहीं हो रहे हैं ॥ १८ ॥

पुंसः पदं मध्यममुत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैष यथाऽस्य वेषः प्रच्छन्नमप्यूहयते हि चेष्टा ॥ १९ ॥

**मल्लि०—**पुंस इति। किंच, उत्तमस्य पुंसः = पुरुषोत्तमस्य मध्यमं पदमाकाशं धनुषः प्रणादैः । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति षत्वम् । द्विधा कुर्वन्निव= विदारयन्निव स्थितः स एष=किरातो नूनं तथा तथा भूतो न । कीदृशस्तत्राह-अस्य पुरुषस्य यथा यथामूतो वेषः । वर्तत इति शेषः । वेषत एवायं किरातो न स्वरूपत इत्यर्थः । कुतः । हि यस्मात्, चेष्टा = व्यापारः प्रच्छन्नमपि = निगूढमपि स्वरूपम् । ऊहयते = तर्कयते । तस्याः स्वभावादव्यभिचारादिति भावः ॥ १९ ॥

**हिन्दी—**एवम् भगवान् विष्णुके मध्यम पद विष्णुपद अर्थात् आकाश) को मानों विदारण कर स्थित यह किरात वैसा नहीं हैं अर्थात् साधारण किरात नहीं है, क्योंकि इसकी चेष्टा गूढस्वरूपकी भी तर्कना कर देती है ॥ १९ ॥