सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

नवमः सर्गः १७७

नवमः सर्गः १७७

वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् ।
जज्ञिरे बहुमता प्रमदानामोष्ठयावकनुदो मधुवाराः ॥ ५९ ॥

मल्लि० -- वीक्ष्येति ॥ रत्नचषकेषु स्फटिकादिमणिपात्रेषु । अतिरिक्तां याव-
कापगमात्पूर्वाम्यधिकां कान्तस्य यत् दन्तपदमण्डनं तस्य लक्ष्मी शोभां । प्रति-
बिम्बतामिति शेषः । वीक्ष्य । ओष्ठयावकनुदोऽधरलाक्षारागहारिणो मधुवारा
मधुपानाभ्यासाः प्रमदानां बहुमता अभिमताः । वर्तमाने क्तः । तद्योगत्षष्ठी ।
जज्ञिरे जाताः । तेषां प्रियानुरागचिह्नप्रकाशकत्वादिति भावः ॥ ५९ ॥

हिन्दी—स्फटिक आदि रत्नोंके पात्रों (प्यालों) में लालीके छूटनेसे
पहलेसे भी अधिक, प्रियके दन्तक्षतरूप अलंकारकी शोभाको देखकर ओष्ठकी
लालीको मिटानेवाला मदिरापानका अभ्यास सुन्दरियोंको अभीष्ट हुआ ।

लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ॥ ६० ॥

मल्लि० -- लोचनेति ॥ लोचने चाधरञ्च लोचनाधरम् । 'समुद्राभ्राद्वः—'
इति व्यभिचारज्ञापकान्नात्राधरशब्दस्य पूर्वनिपातः । कृतश्चासावाहृतश्चेति विशेषण-
समासः । लोचनाधरस्य कृताहृतो रागो यया सा तथोक्तां । लोचनयोः कृतरागाऽ-
धरादासम्मन्तादहृतरागा चेत्यर्थः । षष्ठ्याश्चार्थसंबन्धात्सामान्यस्य योगविशेषे
पर्यवसाननियमेनाधिकरणोपादानार्थयोराक्षेपात् । तथा चाधरालोचनगुणयो रागत-
द्विरहयोः स्थानपरिवृत्तिं कृतवतीत्यर्थः । तथा वासितेन स्वगन्धसंक्रान्तिसुरभितेन
आननेन विशेषितोऽतिशयितो गन्धो यस्याः सा । यद्वा—वासितानना चासवार्या-
दानेनैव विशेषितगन्धा चेति कृतबहुव्रीहिविशेषणसमासः । उभयथाप्याननसंक्रान्ता-
स्वगन्धा स्वसंक्रान्ताननगन्धा चेत्यर्थः । एवंभूता वारुणी मदिरा परगुणात्मगुणानां
परयोर्लोचनाधरयोर्गुणौ च परस्याननस्य गुण आत्मनो वारुण्या गुणश्च परगुणात्म-
गुणानां व्यत्ययं विनिमयं नु वितेने विस्तारयामास । चित्तेन प्रामादिकी वस्तुपरि-
वृत्तिर्व्यत्ययः । बुद्धिपूर्वा तु विनिमयः । अत्र तन्त्रोच्चरितस्य 'परगुण' शब्दस्या-
वृत्त्या परगुणौ च परगुणात्मगुणौ चेति विग्रहः कथंचिद्गत्या सोढव्यः । उपमान-
पूर्वपदबहुव्रीहिवत् । तथा चायमर्थः---परगुणयोरधरलोचनगुणयो रागतद्विरहयो-
र्व्यत्ययं नु विनिमयं नु वितेने, तथा परगुणात्मगुणयोराननगन्धारमगन्धयोश्च
व्यत्ययं नु वितेने । अन्यथा कथमन्यस्मिन्नन्यधर्मोपलम्भः संभवतीति भावः । अत्र

१७८ | किरातार्जुनीयम्

लोचनाधरराजयोस्तदभावयोर्वा भेदेऽप्यभेदाध्यवसायादेकत्ववाचोयुक्तिः । तस्मान्मूलातिशयोक्त्यनुप्राणिता चेयं व्यत्ययविनिमययोरन्यतरकरणादुत्प्रेक्षेति संक्षेपः। सा च प्रतीयमाना व्यञ्जकाप्रयोगात् । 'नु' शब्दस्तु संशये ॥ ६० ॥

हिन्दी—नेत्रोंमें राग (लोहित्य) करनेवाली और अधरकी लालिमाको मिटानेवाली, अपने गन्धको संक्रान्तिसे सुरभित मुखसे विशेष गन्धवाली मदिराने दूसरे (नेत्रों और अधरों) के और अपने गुणोंका व्यत्यय (उलटफेर) वा विनिमय (अदल बदल) कर डाला अर्थात् नेत्रों और अधरोंका राग (लालिमा) मिटा दिया वा मुखकी सुगन्धिसे स्वयम् सुगन्धित हो गई ।


तुल्यरूपमसितोत्पलमकष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ॥ ६१ ॥

मल्लि०—तुल्येति । अक्षणोस्तुल्यरूपमक्षितुल्याकृति योषितः कर्णगं कर्णावतंसीकृतम् । असितोत्पलं निरुपकारि अनुपकारकं विदित्वा ज्ञात्वा । तत्कार्यशोभायाः कर्णान्तविश्रान्तेनाक्षणैव कृतत्वादिति भावः । मदरागः सुहृदिव उत्पलस्य बन्धुरिव । अनिष्टवारकत्वादिति भावः । लम्भितेक्षणरुचिराहितनयनकान्तिः सन् । प्रविभेजे वर्णान्तरापादनेन प्रविभक्तवान् । अवैलक्ष्ण्यकरादक्ष्णो व्यावर्तयामास । ततो विच्छित्तिकरत्वादिति भावः ॥ ६१ ॥

हिन्दी—अप्सराओंकी आँखोंके समान रूपवाले कानका भूषण बनाये गये नीलकमलको उपकार न करनेवाला समझकर मदरागने कमलके मित्रके समान होकर नेत्रोंमें कान्ति प्राप्त कराकर (दूसरा ही वर्ण बनानेसे) दोनोंका विभाग कर डाला ।


क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसंभृतशोभः ।
आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥ ६२ ॥

मल्लि०—क्षीणेति ॥ अतिपानैः क्षीणयावकरसः क्षीणलाक्षारागोऽपि कान्तस्य दयितस्य दन्तपदेन दन्तक्षतेन संभृता शोभा यस्य सः । वध्वा अधरपल्लवरागोऽतितरामतिमात्रम् । 'अति' शब्दात्तरप्प्रत्यये 'किमेत्तिङव्यये-'त्यादिनान्तप्रत्ययः । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययसंज्ञा । सान्द्रतां घनत्वम् । आययाविव । प्रियोपभोगचिह्नमण्डितानां कामिन्यवयवानां किमन्यैर्मण्डनैरिति भावः । तत्र क्षीणस्यापि

नवमः सर्गः १७९

सान्द्रतेति विरोधात् कान्तदन्तच्छेद्यादिविशेषणगत्या सान्द्रत्वे हेतूक्त्या काव्यलिङ्गं तत्सङ्कीर्णा चोत्प्रेक्षा ॥ ६२ ॥

हिन्दी—मदिराका अधिक पान करनेसे लाक्षारागसे रहित होकर भी प्रियके दन्तक्षतके चिह्नकी शोभासे सम्पन्न, अप्सराके अधरपल्लवकी लाली अत्यन्त गाढ़ी हो गई ।

रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ॥ ६३ ॥

मल्लि०—रागेति ॥ वनितानां सर्वगाऽपि सर्वाङ्गगताऽपि । 'अन्तात्यन्त-' इत्यादिना डः । मदश्री रागेण कान्तानि नयनानि येषु तेषु । विद्रुमवदरुणानि कपोलतलानि येषु तेषु । मुखेषु दर्पणेष्विव नितान्तं ददृशे । तेषां नयनादिनैर्मल्येन रागाभिव्यक्तिसंभवादिति भावः ! अत्र मदश्रीः सर्वगतापि मुखेष्वेव ददृश इति विरोधः । तस्य मुखविशेषणैः समाधानात् काव्यलिङ्गानुप्रणितो विरोधावदाभासो-ऽलङ्कारः । स चोपमया संसृज्यते ॥ ६३ ॥

हिन्दी - सुन्दरियोंके समस्त अङ्गोंमें प्राप्त मदकी शोभा रागसे सुन्दर नेत्रों-वाले, प्रवालके समान अरुण (लाल) कपोलोंसे युक्त मुखोंमें दर्पणोंके समान अधिक दिखाई पड़ी ।

बद्धकोपविकृतोरपि रामाश्चारुताभिमततामुपनिन्ये ।
वश्यतां मधुमदो दयितानामात्मवर्गहितमिच्छति सर्वः ॥ ६४ ॥

मल्लि०—बद्धेति ॥ बद्धा कोपेन विकृतिर्याभिस्तास्तथाभूता अपि रामाः कर्म चारुता तासां सौन्दर्यं कर्त्री अभिमततां प्रियवाल्लभ्यम् उपनिन्ये । सौन्दर्यं हि विकृतिमपि रोचयत इति भावः । मधुमदो दयितानां वश्यतां विधेयत्वमुपनिन्ये । तथाहि सर्व आत्मवर्गहितमिच्छति । ततश्चारुता स्त्रीत्वात् स्त्रीणामुपचकार । मधु-मदस्तु पुंस्त्वात् पुंसामिति युक्तमित्यर्थः । अत्र विकृता अप्यभिमताः कुपिता अपि वश्या इति विरोधस्य चारुतामदाभ्यां समाधानादुभयत्रापि विरोधाभासो भवन्नर्था-न्तरन्यासेन संसृज्यते ॥ ६४ ॥

हिन्दी—क्रोधसे कुछ विकार होनेपर भी सुन्दरियोंको सुन्दरताने नायकके प्रियभावको प्राप्त करा दिया । सभी अपने वर्गका हित चाहते हैं, अतः मदिराके मदने भी (पुरुष होनेसे) उन सुन्दरियोंको अपने पतिके वशमें कर दिया ।

१८० | किरातार्जुनीयम्

वाससां शिथिलतामुपनाभि ह्रीनिराममपदे कुपितानि ।
योषितां विदधतो गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ॥ ६५ ॥

मल्लि०—वाससामिति ॥ उपनाभि नाभिसमीपे वाससां शिथिलतां ह्रीनिरासं लज्जात्यागम् । अपदे कुपितानि अस्थानकोपांश्च गुणकोटौ विदधती निवेशयन्ती । दोषानप्येतान्गुणान्कुर्वतीत्यर्थः । मदिराऽपि योषितां वचनीयम् 'न नाभिं दर्शयेत्' इति शास्त्रनिषिद्धाचरणनिन्दां निर्ममार्ज । तया दोषाणामपि वस्त्रशैथिल्यादीनां तदानीं गुणत्वान्न कश्चिद्वचनीयावकाश इत्यर्थः ॥ ६५ ॥

हिन्दी—नाभिके समीपमें वस्त्रोंकी शिथिलता, लज्जाका त्याग अस्थानमें क्रोध दोषस्वरूप होनेपर भी गुणकी कोटिमें रखती हुई मदिराने सुन्दरियोंके शास्त्रनिषिद्ध आचरणकी निन्दाका परिमार्जन कर दिया ॥ ६५ ॥

भर्तृषूपसखि निक्षिपतीनामात्मनो मधुमदोद्यमितानाम् ।
व्रीडया विफल्या वनितानां न स्थितं न विगतं हृदयेषु ॥ ६६ ॥

मल्लि०—भर्तृष्विति ॥ उपसखि सखीसमीपे । समीपार्थेऽव्ययीभावः । आत्मनः स्वदेहान् । 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' । इति वैजयन्ती । भर्तृषु निक्षिपतीनां निपातयन्तीनाम् । भर्तॄणामुपरि पतन्तीनामित्यर्थः । 'आम्नद्योर्नुम्' इति विकल्पात्रुम्भावः । कुतः । मधुमदेनोद्यमितानां प्रेरितानाम् । न तु स्वच्छन्द्येनेति भावः । वनितानामनुरक्तस्त्रीणाम् । 'वनिता जनितात्यर्थानुरागायां च योषित्ति' । इति विश्वः । हृदयेषु विफल्या । अनुचिताचरणादिति भावः । व्रीडया न स्थितं न विगतम् । वैकल्यात्तस्या मदोपाधिकत्वाच्चेति भावः । अत एव नोभयनिषेधविरोधः ॥ ६६ ॥

हिन्दी—सखियोंके समीपमें अपने शरीरको पतिके ऊपर डालती हुई, मदिरा के मदसे प्रेरित स्त्रियोंके हृदयोंमें निष्फल व्रीडाने न तो स्थान पा लिया न गमन ही किया ॥ ६६ ॥

रुन्धती नयनवाक्यविकासं सादितोभयकरा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैरनुजह्रे ॥ ६७ ॥

मल्लि०—रुन्धतीति ॥ नयनानां वाक्यानां च विकासं प्रागल्भ्यं रुन्धती प्रतिबध्नन्ती । तथा परिरम्भे आलिङ्गने सादितौ स्तम्भितौ उभौ करौ यया सा युवतीनां संबन्धिनां क्षीबता मत्तता । कर्तरि क्तः । 'अनुपसर्गात्फुल्लक्षीबकृशो-