किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः २९७
त्रयोदशः सर्गः २९७
मल्लि०—यष्टुमिति । सांप्रतं संप्रति । 'संप्रतोदानीमधुना सांप्रतं तथा' । इत्यमरः । पितॄन् कव्यवाडादीन् यष्टुमर्चयितुं नेच्छसि । यतः, संवृत एकान्ते 'स्थितः । तथा, दिवौकसो देवान् । अचिचयिषुरप्यर्चयितुमिच्छुरपि नासि । अतो न पित्र्यर्थं हिंसा, नापि देवतार्था । तदाराधने तद्विहितत्वादिति भावः । अथ 'सर्वत आत्मानं गोपायेत' इति श्रुतेरात्मरक्षार्थमिति चेन्नेत्याह--दातुमिति । हे अङ्ग ! पदवीं मार्गं दातुमेव । न तु हन्तुम्, मुनित्वादिति भावः । क्षमोऽपि योग्यः सन्नपि । किं किमर्थं मृगे विशिखं न्यवीविशो निवेशितवान् । विशतेर्ण्यन्ताल्लुङ् । अभिधावतो मृगादपसरणेनैवात्मरक्षणे कर्तव्ये यदवधीस्तच्चापलमेव । 'न हिंस्यात्सर्वा भूतानि' इति श्रुतिनिषेधादिति भावः ॥ ६५ ॥
हिन्दी—इस समय आप कव्यवाट् आदि पितरोंका श्राद्ध करना नहीं चाहते हैं, एकान्तमें रहकर आप देवताओंकी पूजा करना भी नहीं चाहते हैं, हे महोदय ! मार्ग देनेके लिए ही योग्य होते हुए भी किस कारणसे आपने वराहपर बाण छोड़ दिया ? ॥ ६५ ॥
किं बहुना, परमार्थः श्रूयतामित्याह--
सज्जनोऽसि विजहीहि चापलं, सर्वदा क इव वा सहिष्यते ।
वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरून्नपि ॥ ६६ ॥
मल्लि०—सज्जन इति । सज्जनोऽसि । अत एव चापलं चपलस्य कर्म विजहीहि त्यज । जहातेर्लोट् । 'आ च हौ' इतीकारः । सर्वदा क इव वा को वा सहिष्यते । 'इव' शब्दो वाक्यालंकारे । 'वा' शब्दोऽवधारणे । असहने कारणमाह—वारिधीनिति । अनिभृताश्चपलाः पुनःपुनरकार्यकारिणो गुरून् धर्मयुक्तानपि । अन्यत्र,-विशालानपि । युगान्तवायवः प्रलयपवना वारिधीनिव समुद्रानिव क्षोभयन्ति । उपमानुप्राणितोऽयमर्थान्तरन्यासः ॥ ६६ ॥
हिन्दी--(हे महोदय !) आप सज्जन हैं इस कारणसे चञ्चलकर्म छोड़ दीजिए, सर्वदा कौन-सा पुरुष सहन करेगा ? क्योंकि जैसे प्रलय समयके वायुगण समुद्रोंको क्षुब्ध करते हैं वैसे ही चञ्चलपुरुष धर्मयुक्तोंको भी क्षुब्ध कर देते हैं ॥ ६६ ॥
नन्वयं किरातः क्षुभितः किं करिष्यति, तत्राह--
अस्त्रवेदविदयं महीपतिः, पर्वतीय इति माऽवजोगणः ।
गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भितः ॥ ६७ ॥
२१८ किरातार्जुनीयम्
मल्लि०—अस्येति । अयं महीपतिः । अस्त्रवेदवित् । निग्रहानुग्रहसमर्थ इति भावः । अतः पर्वते भवः पर्वतीयः । 'पर्वताच्च' इति छप्रत्ययः । इति हेतोः माऽवजीगणः । वनेचरबुद्ध्या माऽवज्ञासीरित्यर्थः । गणयतेर्माङि लुङ् । 'ईं च गणः' इतोकारः । नन्वीदृशश्चेत्किमर्थमिह वने वसति, तत्राह—गोपितुमिति । मघवता इन्द्रेण । इमां भुवं गोपितुं रक्षितुम् । 'आयादय आर्धधातुके वा' इति विकल्पात् 'गुपूपे-'त्यादिना न आयप्रत्ययः । अनुनीय प्रार्थ्य, शैलवासं लम्भितः प्रापितः 'ण्यन्ते कर्तुश्च कर्मणः' इति वचनादणि कर्तुः कर्मणि क्तः । 'गतिबुद्धी-'त्या- दिनाऽपि कर्तुः कर्मत्वम् ।। ६७ ।।
हिन्दी—(हे महोदय !) ये किरातराज अस्त्रविद्या जाननेवाले हैं। पर्वतमें रहनेवाला समझकर इनकी आप अवज्ञा मत करें। क्योंकि इन्द्रने इस पर्वतभूमिकी रक्षा करनेके लिए प्रार्थना करके इनका पर्वतवास कराया है ॥ ६७ ॥
उपसंहरति—
तत्तितिक्षितमिदं मया मुनेरित्यवोचत वचश्चमूपतिः ।
बाणमत्रभवते निजं दिशन्नाप्नुहि त्वमपि सर्वसंपदः ॥ ६८ ॥
मल्लि०—तदिति । तत् तस्मान्मुनिचापलात् । मुनेः सम्बन्धि इदं मृगवध- रूपमागो मया तितिक्षितं सोढम्, इति वचश्चमूपतिरवोचत् । शरद्रोहस्य प्रत्यर्पणमेव प्रतीकार इत्याह-अत्रभवते पूज्याय स्वामिने । अत्रभवान् व्याख्यातः । निजं बाणं तदीयमेव शरं दिशन् प्रत्यर्पयन्, त्वमपि सर्वसंपद आप्नुहि । सत्वेनेति भावः ।६८।
हिन्दी—'मुनिकी चञ्चलतासे किये गये वराहका हत्यारूप अपराध मैंने सह लिया है' ऐसा वचन किरातसेनापतिने कहा है। हमारे स्वामीको उनका बाण लौटाते हुए आप समस्त सम्पत्तियोंको प्राप्त कर लीजिए ॥ ६८ ॥
ननु महामेतत्सख्यमेव न रोचते, किं पुनस्तन्मूलाः संपदस्तत्राह—
आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विरमन्ति चापदः ।
इत्यनेकफलमाजि मा स्म भूर्दापिता कथमिवार्यसंगमे ॥ ६९ ॥
मल्लि०—आत्मनीनमिति । आत्मने हितं आत्मनीनम् । 'आत्मन्विश्वजनभोगो- त्तरपदात्खः' । उपतिष्ठते संगच्छते । 'उपाद् देवपूजासंगतिकरणमित्रकरणपथिषु' इति वक्तव्यादात्मनेपदम् । गुणा विनयादयः संभवन्ति, आपदश्च विरमन्ति ।