किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः। २९३
त्रयोदशः सर्गः। २९३
नोत्सहते । जीवितमप्यात्मनो नेच्छति । किंत्वर्थितः प्रयच्छतीत्यर्थः । तर्हि धनं
किम् । धनमात्मन एषितुं धनायितुमिति विग्रहः । अत्र इच्छामात्रमर्थः, अन्यथा
धनमित्यनेन पौनरुक्त्यं स्यात् । 'सुप आत्मनः क्यच्' । 'अशनायोदन्याधनाया-
बुभुक्षापिपासागर्धेषु' इति निपातनादाकारः ॥ ५६ ॥
हिन्दी—महापुरुष हमारे स्वामी अन्य पुरुषोंके घमण्डके साथ धूल भी लेना
चाहनेपर विकारको प्राप्त होते हैं (क्रुद्ध हो जाते हैं)। दूसरेसे प्रार्थना करनेपर
वे अपने जीवनकी भी इच्छा नहीं करते हैं धनकी तो क्या बात है ? ॥ ५६ ॥
उक्तमर्थं निगमयति—
तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतम् ।
राघवप्लवगराजयोरिव प्रेम युक्तमितरेतराश्रयम् ॥ ५७ ॥
मल्लि०—तदिति । तत् तस्मात् तदीयविशिखस्यातिसर्जनात् वां युवयोः ।
'षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ' इति वामादेशः । राघवप्लवगराजयोः रामसुग्रीव-
योरिव यदृच्छया दैवादागतं गुरु महत् युक्तमनुरूपम् । इतरेतराश्रयमन्योन्यविषयं
प्रेम सख्यम् । अस्तु ॥ ५७ ॥
हिन्दी—अतः हमारे स्वामीके बाणको लौटा देनेसे आप दोनोंका रामचन्द्र
और सुग्रीवके समान दैवगतिसे आया हुआ योग्य परस्परका प्रेम हो
जायगा ॥ ५७ ॥
ननु शरलोभान्मिथ्याभियुज्यस इत्याह—
नाभियोक्तुमनृतं त्वमिष्यसे, कस्तपस्विविशिखेषु चादरः ? ।
सन्ति भूभृति शरा हि नः पदे ये पराक्रमवसूनि वज्रिणः ॥ ५८ ॥
मल्लि०—नेति । त्वमनृतं मिथ्याऽभियोक्तुमभ्याख्यातुम् । ब्रूवोऽर्थग्रहणाद्
द्विकर्मकता । 'मिथ्याभियोगोऽभ्याख्यानम्' इत्यमरः । अस्माभिरिति शेषः ।
नेष्यसे नेष्टोऽसि । कुतः । तपस्वी मुनिः शोच्यश्च 'मुनिशोच्यौ तपस्विनौ' इति
शाश्वतः । तस्य, विशिखेषु क आदरः कास्था । न काचिदित्यर्थः । हि यस्मात्,
नोऽस्माकं भूभृति शैले परेऽन्येऽपि शराः सन्ति, ये शरा वज्रिणः शक्रस्य पराक्रम-
वसूनि पराक्रमधनानि । शौर्यसर्वस्वभूता इत्यर्थः । 'वज्रि' ग्रहणाद्वज्रादप्यतिरिक्ता
इति सूच्यते । अत्र शरेषु पराक्रमसाधनेषु पराक्रमरूपेण वस्तु व्यज्यते ॥ ५८ ॥
हिन्दी—आप हमलोगोंसे मिथ्या अभियोग लगानेके लिए नहीं चाहे गये हैं,
| २९४ | किरातार्जुनीयम् |
|---|
तपस्वी ( मुनि और शोचनीय ) पुरुषके बाणोंमें क्या आदर है ? क्योंकि हमलोगोंके पर्वतमें और भी बाण हैं, जो कि इन्द्रके पराक्रमके धनस्वरूप हैं ॥ ५८ ॥
अथ ते शरापेक्षा चेत्तर्हि तथोच्यतामित्याह—
मार्गणेरथ तव प्रयोजनं, नाथसे किमु पतिं न भूभृतः ? ।
त्वद्विधं सुहृदमेत्य सोऽर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥ ५९ ॥
मल्लि०—मार्गणेरिति । अथ उत तव मार्गणैः शरैः प्रयोजनं कृत्यं यदि भूभृतो गिरेः पतिं प्रभुं किमु न नाथसे किमिति न याचसे । 'नाथृ नाथू याच्ञोपतापैश्वर्याशीःषु' इति धातोर्लट् । न च याच्ञाभङ्गशङ्का कार्येत्याह—त्वदिति । सोऽस्मत्स्वामी तवेव विधा प्रकारो यस्य तं त्वद्विधं त्वादृशम् । महानुभावमित्यर्थः । तथापि सुहृदं मित्रभूतम्, अर्थिनमेत्य लब्ध्वा मेदिनीं विजित्य न यच्छति न ददाति किम् । किं तु दास्यत्येव । किं पुनः शरानिति भावः ॥ ५९ ॥
हिन्दी—( हे महोदय ! ) अथवा आपको बाणोंका प्रयोजन है तो पर्वतके पति हमारे स्वामीसे क्यों नही मागते हैं ? आप जैसे याचक मित्रको पाकर पृथिवीको ही जीतकर क्या नहीं देंगे ? ॥ ५९ ॥
यदुक्तम्-'त्वद्विधम्' ( श्लो० ५९ ) इत्यादि, तत्रोपपत्तिमाह—
तेन सूरिरुपकारिताधनः कर्तुमिच्छति न याचितं वृथा ।
सीदतामनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ॥ ६० ॥
मल्लि०—तेनेति । तेन कारणेन सूरिर्विद्वान् अत एव, उपकारिताधन उपकारकत्वमात्रधनः स किरातभूपतिः । याचितं याच्ञां वृथा व्यर्थं कर्तुं नेच्छति । कुतः यत् येन कारणेन सीदतां क्लिश्यतामार्थिना प्रणयभङ्गवेदनां याच्ञाभङ्गदुःखं स्वयमनुभवन्निव वेद वेत्ति । अतो न वैकल्यशङ्का कार्येत्यर्थः ॥ ६० ॥
हिन्दी—इस कारणसे विद्वान् अत एवउपकारकत्व ही जिनका धन है ऐसे किरातराज, याचनाको व्यर्थ करना नहीं चाहते हैं, क्योंकि पीडित होते हुए याचनाकारी जनोंके याचनाभङ्गसे होनेवाले दुःखको वे जानते हैं ॥ ६० ॥
ननु स्वयंग्राहिणः किं याच्ञादैन्यं तत्राह—
शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् ।
कारणद्वयमिदं निरस्यतः प्रार्थनाऽधिकबले विपत्कला ॥ ६१ ॥
मल्लि०—शक्तिरिति । अर्थपतिषु विषये शक्तिः सामर्थ्यं स्वयंग्रहं स्वाभ्यनुज्ञां