किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः २८७
त्रयोदशः सर्गः २८७
सद्वृत्तताम् । ‘शीलं स्वभावे सद्वृत्ते’ इत्यमरः । शीलयन्ति अभ्यस्यन्ति । अतो न त्याज्यं शीलमित्यर्थः ॥ ४३ ॥
हिन्दी-- (हे महोदय !) योगशक्तिसे जन्म और मरणको जीते हुए योगी-लोग बाल्यावस्थासे ही बड़ी आपत्तिवाले कुमार्गसे हटनेके उपदेश देनेकी इच्छा करते हुए सदाचारका अभ्यास करते रहते हैं ॥ ४३ ॥
न केवलं सौशील्यादनर्थनिवृत्तिः किं त्वर्थप्राप्ति रपीत्याह--
तिष्ठतां तपसि पुण्यमासजन् संपदोऽनुगुणयन् सुखैषिणाम् ।
योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ? ॥ ४४ ॥
मल्लि० - तिष्ठतामिति । तपसि तिष्ठतां तपोनिष्ठानाम् । धर्मार्थिनामित्यर्थः । पुण्यं धर्मम् । आसजन् संपादयन् । ‘स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः' इत्यमरः । सुखैषिणां सुखार्थिनां संपदः सुखसाधनभूतानर्थान् । अनुगुणयन्ननुकूलयन् । अर्थकामयोरपि हेतुभूत इत्यर्थः । तथा, योगिनां विमुक्तयेऽपवर्गाय परिणमन् संपद्यमानो विनयः सौशील्यं केन हेतुना सतां प्रियो नास्तु । संभावनायां लोट् । सर्वथा विनय एव चतुर्वर्गसाधनमित्यर्थः । अतस्त्वया नास्मत्स्वाभिशरचौर्यं कार्यमिति तात्पर्यम् ॥ ४४ ॥
हिन्दी-- तपस्यामें रहते हुए जनोंको पुण्यका सम्पादन करती हुई सुखका अभिलाष करनेवालोंको सम्पत्तियोंको अनुकूल करती हुई तथा योगियोंको मुक्तिके लिए सम्पन्न होती हुई सुशीलता किस कारणसे सज्जनोंको प्रिय न होगी ? ॥ ४४ ॥
अथवा किं भवादृशेष्वन्यसंभावनया, यतो भ्रान्तिरपि संभाव्यत इति मृदूक्तिमवलम्ब्याह--
नूनमत्रभवतः शराकृतिं सर्वथायमनुयाति सायकः ।
सोऽयमित्यनुपपन्नसंशयः कारितस्त्वमपथे पदं यया ॥ ४५ ॥
मल्लि० - नूनमिति । अयमस्मदीयः सायकोऽत्रभवतः । पूज्यस्येत्यर्थः । 'पूज्यस्तत्रभवानत्रभवान्' इति सज्जनः । ‘इतरेभ्योऽपि दृश्यन्ते' इति सार्वविभक्तिकस्तसिल्प्रत्ययः । सुप्सुपेति समासः । शराकृति सर्वथा रूपेण रेखादिना सर्वप्रकारेण । अनुयात्यनुसरति । अत्यन्तमनुकरोतीत्यर्थः । ‘नूनम्' इति वितर्के । ययाऽऽकृत्या कर्त्र्या त्वमनुपपन्नसंशयोऽत्यन्तसादृश्यादनुत्पन्नस्वान्यदीयत्वसंदेहः सन् । सोऽयमिति यः स्वकीयः स एवायमिति । भ्रान्त्युत्पत्त्येवेति शेषः । अपथेऽमार्गे शरापहरणरूपे
| २८८ | किरातार्जुनीयम् |
|---|
पदं कारितः । निधापित इत्यर्थः । 'हृक्रोरन्यतरस्याम्' इत्यणि कर्तुः कर्मसं-
ण्यन्ते कर्तुश्च कर्मणः' इति तत्रैवाभिहिते कर्मणि क्तः ॥ ४५ ॥
हिन्दी— ( हे महोदय ! ) यह हमलोगोंका बाण पूजनीय आपके बाणकी
आकृतिका सर्वथा अनुकरण करता है। अतः यह बाण मेरा ही है ऐसे अपूर्वयुक्त
सन्देहमें आपको अमार्गमें डाल दिया है ॥ ४५ ॥
पुनरपि स्तेयमेव द्रढयन् दोषान्तरमापादयति—
अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यमाहृते ।
निघ्नतः परनिवर्हितं मृगं व्रीडितव्यमपि ते सचेतसः ॥ ४६ ॥
**मल्लि०—**अन्यदीयेति । सह चेतसा वर्तत इति सचेतसो मनस्विनः । तेऽन्य-
दीयविशिखे विषये यत् आहृतमाहरणम् । भावे क्तः । तस्मिन् । अन्यदीयविशिख-
स्याहरणम् इत्यर्थः । निःस्पृहस्य केवलं निःस्पृहेणैव न भवितव्यम् । किंतु परनिव-
र्हितं परेण प्रहृतं मृगं निघ्नतः प्रहरतस्ते । निघ्नता त्वयेत्यर्थः । 'कृत्यानां कर्तरि
वा' इति षष्ठी । व्रीडितव्यं लज्जितव्यमपि । भावे तव्यप्रत्ययः । संप्रति तु त्वया पर-
विद्धम् मृगं विद्धापि न व्रीड्यते प्रत्युत स्तेयं च क्रियत इत्यहो महत्साहसमित्यर्थः ।
मृगमित्यत्र शेषत्वाविवक्षणात् 'जासिनिप्रहणनाटकक्राथपिषां हिंसायाम्' इति षष्ठी
न भवति शेषाधिकारात् । निप्रहणेत्यत्र निप्रयोः संघातव्यस्तविपर्ययेणापि
ग्रहणात् ॥ ४६ ॥
**हिन्दी—**मनस्वी आपको दूसरेके बाणको ले लेनेमें निःस्पृहमात्र होना नहीं
था बल्कि दूसरेसे विद्ध जानवरपर प्रहार करनेवाले आपको लज्जित भी होना
चाहिए ॥ ४६ ॥
अथारिमन्कृतघ्नताभियोगंऽस्वीयोपकारकत्वं वर्णयितुं विकत्थनदोषं तावद्युग्मेन
परिहरन्नाह—
सन्ततं निशमयन्त उत्सुका यैः प्रयान्ति मुदमस्य सूरयः ।
कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥ ४७ ॥
**मल्लि०—**संततमित्यादि । सूरयो विद्वांसः । यस्य अस्मत्स्वामिनः सम्बन्धिभिः,
यैश्चरितैः करणभूतैः सन्ततं सततमुत्सुकाः सोत्कण्ठाः सन्तो निशमयन्तश्चरितानि
शृण्वन्तो मुदं प्रयान्ति । अत्र चरितानां मुत्प्राप्तौ शब्दं करणत्वम् । अर्थात्निशमन-
कर्मत्वमिति विवेकः । तानि चरितानि हसितेऽपि परिहासेऽपि कीर्तितानि परैः
त्रयोदशः सर्गः २८९
रुच्चारितानि सन्ति यं मानिनं व्रीडयन्ति । मानित्वाद् व्रीडा, न तु चरितदोषात् । तेषामलङ्काररूपत्वादिति भावः ॥ ४७ ॥
**हिन्दी—**विद्वान् लोग हमारे स्वामीके जिन चरित्रोंसे निरन्तर उत्कण्ठित होकर सुनते हुए सुखको प्राप्त करते हैं, वे चरित्र परिहासमें भी कीर्तन करनेपर अभिमानी पुरुषको लज्जित कर देते हैं ॥ ४७ ॥
अन्यदोषमिव स स्वकं गुणं ख्यापयेत् कथमघृष्टताजडः ।
उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुमर्थितम् ॥ ४८ ॥
**मल्लि०—**अन्येति । अघृष्टता विकत्थनेन शालीनतया जडः स्तब्धः । अविकत्थन इत्यर्थः । सोऽस्मत्स्वामी । अन्यदोषं परावरगुणमिव स्वकं स्वकीयं गुणं कथं ख्यापयेत् प्रकटयेत् । ‘आत्मप्रशंसां परगर्हामिव वर्जयेत्’ इति स्मरणादिति भावः । तथापि कार्यवत्तया । कर्मार्थितयेत्यर्थः । सः स्वगुण उच्यते खलु । कर्मार्थिनः कुतो गर्व इति भावः । निर्विण्ण इवाह—धिगिति । विभिन्नबुधसेतुमतिक्रान्तसुजनमर्यादाम् । अर्थितां याचनां धिक् । निन्दामीत्यर्थः । यदयमपीत्थं विकत्थयितुं प्रवृत्त इति भावः । ‘धिङ् निर्भर्त्सननिन्दयोः’ इत्यमरः । ‘अभिसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते’ इति द्वितीया ॥ ४८ ॥
**हिन्दी—**आत्मप्रशंसा न कर नम्रतासे स्तब्ध हमारे स्वामी दूसरेके दोषके समान अपने गुणको कैसे प्रकट करेंगे ? तो भी कार्यका प्रयोजन होनेसे अपना गुण कहा जाता है । सज्जनकी मर्यादाका लङ्घन करनेवाली याचनाको धिक्कार है ॥ ४८ ॥
संप्रति स्वकृतोपकारं दर्शयति—
दुर्वचं तदथ मा स्म भून्मृगस्त्वय्यसौ तदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्रिणा ॥ ४९ ॥
**मल्लि०—**दुर्वचमिति । वाहिनीपतिः सेनापतिरस्मत्स्वामी शितेन पत्रिणा शरेण । एनं मृगम् । आशु न प्रत्यपत्स्यत यदि नाभियुङ्क्तेति चेत्, असौ मृग ओजसा बलेन त्वयि विषये यदकरिष्यत् यदनिष्टं कुर्यात् तत्दुर्वचं दुर्वाच्यममङ्गलतया वक्तुं न शक्यते । तदनिष्टम्, अथानन्तरमपि मा स्म भूदिति सौहार्दकथनम् । तदुपेक्षणे स मृगस्त्वां हन्यादिति भावः । ‘लिङ्निमित्ते ऌङ् क्रियातिपत्तौ’ इति करोतेः पद्यतेश्च ऌङ् ॥ ४९ ॥
१९ कि०
| २९० | किरातार्जुनीयम् |
|---|
हिन्दी—किरातसेनापति हमारे स्वामी तीखे बाणसे इस जानवर (वराह)-को विद्ध न करते तो वह (वराह) बलसे आपके विषयमें जो अनिष्ट करता वह दुर्वच्य नहीं कह सकते हैं ॥ ४९ ॥
ननु मयैव हतो न तु सेनापतिना, तत्राह—
को न्विमं हरितुरङ्गमायुधस्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूपतेर्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥ ५० ॥
मल्लि०—क इति । हरितुरङ्गमायुधमिन्द्रायुधं तद्वत् स्थेयसीं स्थिरतराम् । अकुण्ठितामित्यर्थः । 'स्थिर' शब्दादीयसुन् । 'प्रियस्थिरे—'त्यादिना स्थादेशः । अङ्गसंहतिमवयवसंघातं दधतं धारयन्तं वेगवत्तरं दुर्वारवेगम् । इमं दंष्ट्रिणं वराहं चमूपतेः किरातवाहिनीपतेर्ऋते चमूपतिं विना । 'अन्यारादो—'त्यादिना पञ्चमी । को नु को वा शरेण एकेनेति भावः । हन्तुमर्हति । न कोऽपीत्यर्थः ॥ ५० ॥
हिन्दी—इन्द्रके हथियार वज्रके समान स्थिरतर अङ्गसमूहको धारण करते हुए अतिशय वेगवाले इस वराहको हमारे सेनापतिके सिवाय और कौन एक बाणसे मारनेमें समर्थ है ? ॥ ५० ॥
मित्रमिष्टमुपकारि संशये मेदिनीपतिरयं तथा च ते ।
तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥ ५१ ॥
मल्लि०—मित्रमिति । तथा च, तस्यैव मृगहन्तृत्वे सतीत्यर्थः । अयं मेदिनीपतिः किरातभूपतिः । ते तव संशये प्राणसंकटे । उपकारि उपकारकारकम्, इष्टं मित्रम् । ततोऽपि किं तत्राह—तमिति । तं मित्रभूतं विरोध्य सज्जनैकवसतिः भवादृशसुजनमात्राधारा कृतज्ञता उपकारवेदित्वं मा निरासि न निराक्रियतां भवता । अन्यथा जगति कृतज्ञताऽस्तं यायात्, कृतघ्नता च ते भवेदित्यर्थः । अस्यतेः कर्मण्याशिषि माङि लुङ् ॥ ५१ ॥
हिन्दी—उस प्रकारसे ये किरातराज आपके प्राणसङ्कटमें उपकारी मित्र हैं, ऐसे उनसे विरोध करके सज्जनमात्र एक आधारवाली कृतज्ञताको आप मत हटा दें ॥ ५१ ॥
ननु सर्वस्यार्थमूलत्वात्स एवास्तु किं मित्रेणेत्याशङ्क्य मित्रस्य सर्वाधिक्यं युग्मेनाह—
त्रयोदशः सर्गः । २११
लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः ।
स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसंपदः ॥ ५२ ॥
मल्लि०— लभ्यमिति । जिगीषतां जेतुमिच्छताम् । जयतेः सन्नन्ताच्छतृप्रत्ययः । दुर्लभा कृच्छ्रेणापि लब्धुमशक्याः, तथापि असुरक्ष्यभूतयो रक्षितुमशक्यमहिमानः । तथापि नित्यं रक्षणादिक्लेशावहाश्चेति भावः । अन्तविरसाः । गतवर्या इत्यर्थः । लभ्यन्त इति लाभा अर्थास्तेषां संपदः । एकसुकृतेनैकोपकारेण लभ्यं सुलभं न तु दुर्लभम् । रक्षितारं न तु रक्ष्यं स्वन्तं शुभावसानं न त्वन्तविरसं मित्रलाभमनु मित्रलाभाद्धीनाः । निकृष्टा इत्यर्थः । 'हीने' इत्यनोः कर्मप्रवचनीयसंज्ञा । तद्योगे द्वितीया । अत्रोपमेयस्य मित्रलाभस्य लाभान्तरं प्रत्याधिक्याभिधानाद् व्यतिरेकालंकारः ॥ ५२ ॥
हिन्दी— जयका अभिलाष करनेवालोंके लिए दुष्प्राप्य, तथापि रक्षा आदिमें क्लेश उत्पन्न करनेवाली अन्तमें विरस (समनशील) अर्थ सम्पत्ति हैं इसके विपरीत एक उपकारसे लभ्य न कि दुर्लभ, रक्षा करनेवाला न कि रक्षणीय और शुभ अन्तवाला न कि अन्तमे विरस ऐसे मित्र लाभसे निकृष्ट ॥ ५२ ॥
चञ्चलं वसु नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः ।
भूधरस्थिरमुपेयमागतं माऽवमंस्त सुहृदं महीपतिम् ॥ ५३ ॥
मल्लि०— चञ्चलमिति । किंच, वसु धनं नितान्तं चञ्चलं मेदिनीमप्युन्नताः प्रबला अरातयो हरन्ति । मित्रं तु न तथेत्याह—भूधर इति । भूधरवत् स्थिरमुपेयमन्विष्य गन्तव्यम् आगतं स्वतः प्राप्तमपि महीपतिम् । सर्वधुरीणमित्यर्थः । सुहृदं मित्रं माऽवमंस्त मावज्ञासीत् । भवानिति शेषः । अन्यश्लोकगतो भवच्छब्दो विभक्तिविपरिणामेनात्र द्रष्टव्यः । अन्यथा मध्यमपुरुषः स्यात् । मन्यतेः कर्तरि माङि लुङ् । अलंकारस्तु व्यतिरेक एव । भूधरस्थिरमित्युपमासंगतिसंकरः ॥ ५३ ॥
हिन्दी— धन अत्यन्त चञ्चल है और पृथिवीको भी जबर्दस्त शत्रु लोग हर लेते हैं इसके विपरीत पर्वतके समान स्थिर, अन्वेषण करके गन्तव्य परन्तु स्वतः प्राप्त मित्र स्वरूप हमारे राजाकी आप अवज्ञा मत करें ॥ ५३ ॥
ननु मुमुक्षोः किं मित्रसंग्रहेणेत्यत्राह—
२९२ | किरातार्जुनीयम्
जेतुमेव भवता तपस्यते, नायुधानि दधते मुमुक्षवः।
प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥ ५४ ॥
**मल्लि०—**जेतुमिति । भवता जेतुं जयार्थमेव तपस्यते तपश्चर्यते । 'कर्मणो रोमन्थे'—त्यादिना चरणे क्यङ् । ततो भावे लट् । कुतः । मुमुक्षवो मोक्षार्थिन आयुधानि न दधते न धारयन्ति । अतो मित्रसंग्रहः कार्य इति भावः । तथापि किं भवत्स्वामिसङ्ग्येन, तत्राह—प्राप्स्यत इति । महीभृता सह संगतेन त्वया सकलं च तपसः फलं प्राप्स्यते । अतस्ते सखाऽस्मत्स्वामी युक्त इत्यर्थः ॥ ५४ ॥
हिन्दी—( हे महोदय ! ) आप जीतनेके लिए ही तपस्या कर रहे हैं क्योंकि मोक्षकी इच्छा करनेवाले शस्त्र धारण नहीं करते हैं । हमारे स्वामीकी संगति करके आप तपस्याका समस्त फल प्राप्त कर लेंगे ॥ ५४ ॥
नन्वकिंचनः कुत्रोपयुज्यते, तत्राह—
वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः।
काञ्चनेन किमवास्य पत्रिणा, केवलं न सहते विलङ्घनम् ॥ ५५ ॥
**मल्लि०—**वाजीति । तस्य भूपतेर्वाजिभूमिरश्वाकर इभराजानां काननं गजोत्पत्तिस्थानं भूरिशो रत्ननिचयाश्च । सन्तीति शेषः । नन्वीदृगाढ्यः किमेकस्मै काञ्चनपत्रकाण्डाय कलहायते, तत्राह—अस्य काञ्चनेन सौवर्णेन पत्रिणा शरेण किमिव । न किञ्चित्प्रयोजनमस्तीत्यर्थः । परन्तु केवलं विलङ्घनं व्यतिक्रमं न सहते । नायं शरलुब्धः, किन्त्वाधिक्षेपासहिष्णुरित्यर्थः । अत्र प्रथमार्धे समृद्धिमद्वस्तुवर्णनादुदात्तालंकारः ॥ ५५ ॥
**हिन्दी—**इन किरातराजके पास घोड़ोंकी सान, हाथियोंका उत्पत्ति स्थान जंगल, प्रचुर रत्नसमूह भी हैं । उनके लिए सुनहला बाण क्या चीज है ? वे खाली उल्लंघानको सहन नही करते हैं ॥ ५५ ॥
नन्वीदृग्लुब्धः किमुपकर्ता, तत्राह—
सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि।
अर्थितस्तु न महान्समीहते जीवितं किमु धनं धनायितुम् ॥ ५६ ॥
**मल्लि०—**सावलेपमिति । महानयं रजस्यपि धूलावपि परैः सावलेपं सगर्वम् । उपलिप्सित उपलन्धुमिष्टे जिघृक्षिते सति विकृतिमभ्युपैति । प्रकुप्यतीत्यर्थः । अर्थितो याचितस्तु जीवितं धनायितुं धनीकर्तुम् । क्यङन्तात्तुमुन् । न समीहते