सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

अष्टादशः सर्गः

अष्टादशः सर्गः
४४२

**मल्लि०—**निपतित इति । अयुगानि चक्षूंषि यस्य तस्य अयुगचक्षुषस्त्रिलोचनस्य । आयते दीर्घे अरत्नियुगे अरत्न्योर्बद्धमुष्ट्योर्हस्तयोर्युगे युग्मे । 'मुष्ट्या तु बद्धया । सरत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना' इत्यमरः । प्रकृते तु मुष्टिमात्रविवक्षया प्रयोगः । शिरोधरायामिति अधिशिरोधरमधिकंधरं समं युगपन्निपतिते सति । किरीटिनाऽर्जुनेन मदादिव त्रीणि चत्वारि वा त्रिचतुराणि । 'संख्ययाव्ययासन्न—' इत्यादिना बहुव्रीहिः । चतुरोऽच्प्रकारे, 'त्र्युपाभ्यामुपसंख्यानम्' इति समासान्तोऽच्प्रत्ययः । तेषु त्रिचतुरेषु पदेषु लुलितदृष्टि घूर्णितनेत्रं यथा तथा चस्खले स्खलितम् । भावे लिट् ॥ ६ ॥

**हिन्दी—**शिवजीके दीर्घ दो बद्धमुष्टियोंवाले हाथोंके गर्दनपर पड़नेपर अर्जुन मानो मदसे तीन चार पगोंमें घूर्णित नेत्रोंसे युक्त होकर स्खलित हो गये ॥ ६ ॥

अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवमोजसा ।
भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥ ७ ॥

**मल्लि०—**अभिभवेति । अभिभवेनोक्तरूपेण परिभवेन उदित उत्पन्नो यो मन्युः क्रोधस्तेन विदीपितः प्रज्वलितः सोऽर्जुनो भृशं जवं समभिसृत्य समभिद्रुत्य ओजसा बलेन शशिकलाभरणस्येन्दुमौलेः शिवस्य भुजद्वयं भुजयुगेन विभज्य वियोज्य समाददे जग्राह ॥ ७ ॥

**हिन्दी—**नये परिभवसे उत्पन्न क्रोधसे प्रदीप्त किये गये अर्जुनने वेगके बलसे शिवजीके पास जाकर उनके दोनों हाथोंको अपने दोनों हाथोंसे वियुक्त कर पकड़ लिया ॥ ७ ॥

प्रववृतेऽथ महाहवमल्लयोरचलसंचलनाहरणो रणः ।
करणशृङ्खलसंकलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ॥ ८ ॥

**मल्लि०—**प्रववृते इति । अथ महाहवे महारण मल्ल्योर्बलीयसोः । 'मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि' इति विश्वः । गुरू भुजावेव आयुधं तेन गर्वितयोस्तयोः शिवार्जुनयोः करणानि करचरणबन्धनान्येव शृङ्खलानि तेषां संकलना संघटना तया गुरुर्दुस्तरस्तस्याऽचलस्य हिमाद्रेः संचलनं कम्पस्तस्याहरण आरोपकः । कर्तरि ल्युट् । रणः प्रववृते प्रवृत्तः ॥ ८ ॥

**हिन्दी—**तब महायुद्धमें अधिक बलशाली, विशाल बाहुरूप आयुधसे गर्वित शिवजी और अर्जुनके कर चरणरूप शृङ्खलाओंके संघटनासे दुस्तर हिमालयको कम्प और आरोपण करनेवाला युद्ध होने लगा ॥ ८ ॥

४०६किरातार्जुनीयम्

अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना।
समधिरूढमनेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः॥९॥

**मल्लि०—**अयमिति। अयं पुरोवर्ती पुमान्। असौ भगवान् प्रसिद्धो द्वैपायनः तदुक्तम्—'इदमः प्रत्यक्षरूपं समीपोतरवर्ति चैतदो रूपम्। अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्' इति। उत पाण्डवः। अयं हि तिष्ठदवस्थायां द्रष्टृणां संशयो वेदितव्यम्। अथ पतनावस्थायामाह—मुनिनाऽवाक् अधः स्थितमुत शशिमौलिना अनेन देवेन नु समधिरूढमुपरि स्थितमथ जिष्णुना स्विदर्जुनेन वा समधिरूढमित्येवम् इत्येवं गणैः प्रमथैर्वेगवशान्मुमुहे भ्रान्तम्। 'मुह वैचित्त्ये'। भावे लिट् ॥ ९॥

**हिन्दी—**ये भगवान् (शिवजी) हैं अथवा वह तपस्वी (अर्जुन)। क्या तपस्वी (अर्जुन) नीचे रहा अथवा भगवान् शिवजी नीचे रहे। शिवजी ऊपर रहे वा तपस्वी ऊपर रहा, इस प्रकार वेगके कारण प्रमथगणोंको मोह (भ्रम) हुआ ॥ ९॥

प्रचलिते चलितं स्थितमास्थिते विनमिते नतमुन्नतमुन्नतो।
वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ॥१०॥

**मल्लि०—**प्रचलिते इति। असहिष्णुना तयोर्भारमसहमानेन भूभृता शैलेन अभावभयाद्विनाशभयादिव मुहुर्वृषश्च कपिश्च ध्वजे ययोस्तयोर्वृषकपिध्वजयोः प्रचलिते चलने सति चलितं प्रचेले। आस्थिते तूष्णीमवस्थाने स्थितं तथैव तस्मिन् विनमिते सम्यगाक्रमणे सति नतं नम्रीभूतम्। अनामीति यावत् उन्नतावुन्नते सति उन्नतमुदनामि। सर्वत्र भावे क्तः ॥ १० ॥

**हिन्दी—**शिवजी और अर्जुनको भार सहनेमें असमर्थ होता हुआ (इन्द्रकील) पर्वत मानों विनाशके भयसे दोनोंके चलनेपर स्वयम् चलता था, उनके स्थिर होनेपर यह भी स्थिर हो जाता था, उनके झुक जानेपर वह भी झुक जाता था, उनके उठ जानेपर वह भी उठ जाता था ॥ १० ॥

करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः।
चरणपातनिपातितरोधसः प्रससृपुः सरितः परितः स्थलीः ॥११॥

**मल्लि०—**करणेति। करणानि करचरणबन्धविशेषास्तान्येव शृङ्खलानि तेभ्यो निःसृतयोः। मुहुस्त्यक्तबन्धयोरित्यर्थः। कृतो भुजध्वनिर्भुजास्फोटशब्दो यस्मिन्कर्मणि तत्तथा वल्गु सुन्दरं च यथा तथा विवल्गतोरुत्प्लवमानयोस्तयोः