सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ८३

सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ८३

ननु समयः प्रतीक्ष्यते, किं वेगेनेत्यत्राह—

अथ चेदवधिः प्रतीक्ष्यते कथमविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यजाश्चिरमास्वाद्य नरेन्द्रसम्पदः ॥ १६ ॥

अथेति । अथावधिः कालः प्रतीक्ष्यते चेत् । 'अवधिस्स्ववसाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः । आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसम्पदो राज्यसम्पदः । नरेन्द्रेति वा पदच्छेदः चिरं चतुर्दशवर्षाण्यास्वाद्यानुभूय कथं सुत्यजाः । ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं बिना न त्यक्ष्यन्त एवेत्यवधिप्रतीक्षणं व्यर्थमित्यर्थः ॥ १६ ॥

**अन्वयः—**अथ, चेत्, अवधिः, प्रतीक्ष्यते, (तर्हि) आविष्कृतजिह्मवृत्तिना, धृतराष्ट्रसुतेन, नरेन्द्रसम्पदः, चिरम्, आस्वाद्य, कथं, सुत्यजाः (भविष्यन्ति) ॥ १६ ॥

**सुधा—**अथ = पक्षान्तरे, चेत् = यदि, अवधिः = समयसीमा, (द्यूतपराजिता वनवासे द्वादश वर्षाणि, गुप्तरूपेण चैकं वर्षं यदा वत्स्यथ, तदाऽहं राज्यमर्पयिष्यामीत्येवंरूपो दुर्योधनकृतकालावधिरिति भावः), प्रतीक्ष्यते = पाल्यते, भवतेति शेषः । तदाऽस्योत्तरं मह्यं दीयतां तावत्—यतु आविष्कृतजिह्मवृत्तिना=प्रकटीकृतकपटव्यवहारेण, वञ्चितविविधव्यापारेणेत्यर्थः । लाक्षागृहदाहे विषप्रयोगे, कपटद्यूते इत्यादि बहुषु वृत्तस्वकीयस्वभावपरिचयेनेति भावः । धृतराष्ट्रसुतेन = दुर्योधनेन, नरेन्द्रसम्पदः = राजलक्ष्मीः, चिरम् = दीर्घकालम्, त्रयोदशवर्षात्मकमित्यर्थः । आस्वाद्य = उपभुज्य, अनुभूयेति वा कथं=केन प्रकारेण, सुत्यजाः = सुखेन त्याज्या, भविष्यन्तीति शेषः । दुर्योधनो बिना युद्धक्लेशं न दास्यति केनापि त्यक्ष्यति स्वराज्यमिति ध्रुवं ज्ञात्वा, स्वसमयप्रतीक्षणं व्यर्थमिति जानीहि ॥ १६ ॥

**समासः—**जिह्मा वक्रा वृत्तिर्जिह्मवृत्तिः आविष्कृता जिह्मवृत्तिर्येन तेन आविष्कृतजिह्मवृत्तिना । धृतं राष्ट्रं येनासी धृतराष्ट्रः, तस्य सुतो धृतराष्ट्रसुतस्तेन धृतराष्ट्रसुतेन । नराणामिन्द्रः नरेन्द्रः नरेन्द्रस्य सम्पदो नरेन्द्रसम्पदः ॥ १६ ॥

**व्याकरणम्—**प्रतीक्ष्यते = प्रति + ईक्ष् + कर्मणि लट् । आस्वाद्य = आ + स्वाद् + क्त्वा + ल्यप् ॥ १६ ॥

**वाच्यान्तरम्—**अथ चेदवधिं प्रतीक्षसे, तदा आविष्कृतजिह्मवृत्तिः धृतराष्ट्रसुतः नरेन्द्रसम्पदश्चिरमास्वाद्य कथं त्यक्ष्यति । आविष्कृतजिह्मवृत्तिना धृतराष्ट्रसुतेन चिरमास्वाद्य, कथं नरेन्द्रसम्पद्भिः सुत्यजाभिर्भूयते ॥ १६ ॥

कोशः—'अवधिस्स्ववसाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः । 'कौटिल्ये कुटिलं जिह्ममूर्म्मिसङ्कुचितं छतम् । आवित्तं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि' इत्यमरः । 'विहार चिरस्त्वाद्यश्चिरसार्थकाः' इत्यमरः ॥ १६ ॥

८४ किरातार्जुनीयम् । [ द्वितीय

सारार्थः—बहुधा यो दुर्योधनः स्वस्वभावस्य परिचयं दत्तवान्, स कथमपि अनुभूतं भुक्तं राज्यं नहि समर्पयिष्यति, इति हेतोस्तव समयप्रतिपालनम् सम्यगिति ध्रुवमवेहि ॥ १६ ॥

भाषार्थः—अगर आप उनके तेरह वर्षवाले इकरार पर निर्भर हों, याने तेरह वर्ष बीतने पर खुद मेरा राज्य लौट आवेगा तो यह कभी नहीं हो सकता क्योंकि जो दुर्योधन बार-बार आप पर अपना कपट (धोखा) व्यवहार प्रकट कर चुका है, वह तेरह साल तक राज्य का मजा चखकर कैसे बिना क्लेश के वापस दे सकता है ॥ १६ ॥

अथवा तदा दैववशात्स्वयमेव सम्पदौ दास्यति चेत्तथापि तत्कथं रोचतेमहीत्याह—

द्विषता विहितं त्वयाऽथवा यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः ॥ १७ ॥

द्विषतेति । अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लुट् । हे जननाथ, तवानुजन्मनाममुजानामाविष्कृतपौरुषैः प्रकटितपराक्रमैर्भुजैर्नः कृतमलम् । अस्मद्भुजैर्न किञ्चित्साध्यमित्यर्थः । राज्यदानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । 'क्षत्रियस्य विजेतव्यम्' इति शास्त्राच्छात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं वारिणे पठ्यते । 'कृतमिति निवारणनिषेधयोः' इति गणव्याख्याने । भुजैरिति राज्यप्राप्तिसाधनक्रियापेक्षा करणत्वात्तृतीया । उक्तं च न्यासोद्योते—'न केवलं श्रूयमाणा क्रियः निमित्तं कारकभावस्यापि तु गम्यमानापि' इति ॥ १७ ॥

अन्वयः—हे जननाथ ! यदि, त्वया, अथवा, द्विषता, पुनः, विहितम्, आत्मनः, पदं, लब्धा (तदा) तव अनुजन्मनाम् आविष्कृतपौरुषैः भुजैः, कृतम् ॥ १७ ॥

सुधा — हे जननाथ ! नरेन्द्र, राजन्, यदि = चेत्, त्वया = युधिष्ठिरेण, द्विषता = शत्रुना, दुर्योधनेनेत्यर्थः, पुनः = भूयः, विहितम्, पुनः समर्पितमित्यर्थः । आत्मनः = स्वस्य, पदम् = स्थानम्, राज्याधिकार इत्यर्थः । लब्धा = लप्स्यते, तदा = दुर्योधनकृपाप्राप्तविभवे त्वयि सति, तव = भवतः, युधिष्ठिरस्येत्यर्थः । अनुजन्मनाम् = अनुजानाम्, कनिष्ठानामस्माकमित्यर्थः । आविष्कृतपौरुषैः = प्रकाशितपराक्रमैः, प्रख्यातसामर्थ्यैरिति यावत् । भुजैः = बाहुभिः, शत्रुशासनलब्धपरमयशोभिर्भुजैरित्यर्थः । कृतम् = अलम्, निरर्थकम्, नहि तैः किमपि फलमित्यर्थः ॥ १७ ॥

समासः—जनानां नाथः, जननाथस्तत्सम्बोधने हे जननाथ ! अनु पश्चात् जायन्ते येषां तेऽनुजन्मानस्तेषामनुजन्मनाम्। पुरुषस्य भावः पौरुषम्, आविष्कृतं पौरुषं यैस्तैराविष्कृतपौरुषैः ॥ १७ ॥

व्याकरणम्—लब्धा = लभ् + कर्मणि लुट् । विहितम् = वि + धा + क्तः ॥ १७ ॥