किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ५५
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ५५
विजित्येति । वासवः इन्द्र उपमा उपमानं यस्य स वासवोपम इन्द्रतुल्यो यो धनञ्जयः। उत्तरान् कुरून्मेरोरुत्तरान्मानुषान्देशविशेषाग्विजित्य प्राज्यं प्रभूतम्, 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः। कुप्यादन्यदकुप्यं हेमरूप्यात्मकम् । 'स्यात्कोशश्चहिरण्यञ्च हेमरूप्ये कृताकृते । तभ्यां यदन्यत्तत्कुप्यम्' इत्यमरः। वसु धनमयच्छद्दत्तवान्। 'पाघ्राः'-इत्यादितः दाणो यच्छादेशः। स धनं जयतीति धनञ्जयोऽर्जुनः 'संज्ञायां भृतृवृजि'- इत्यादिना खच्प्रत्ययः। 'अरुद्विषत'-इत्यादिना मुमागमः। अधुनाऽस्मिन् काले। 'अधुना इति निपातनात्साधुः। तव वल्कवासांस्याहरन् कथं मन्युं क्रोधं दुःखं वा न करोति॥३५॥
अन्वयः- वासवोपमः यः, (अर्जुन) उत्तरान्, कुरून, विजित्य, प्राज्यम्, अकुप्यं, वसु, अयच्छत् । स धनञ्जयः, अधुना, वल्कवासांसि आहरन्, तव, मन्युं, कथं, न करोति ॥३५॥
सुधा- वासवोपमः = इन्द्रोपमः, इन्द्रसम इति भावः। इन्द्रपुत्रत्वात्पितृसदृशत्वमुचितमेवेति। उत्तरान् = सिद्धपुरान्तिकवर्तिनः, कुरून = एतदाख्यदेशान्, विजित्य = स्वायत्तीकृत्य; प्राज्यम् = प्रचुरम् बहुलमित्यर्थः। अकुप्यम् = कुप्यभिन्नम्, वसु = धनम्, (भवते) अयच्छत् = दत्तवान्, सः = उत्तरकुरुविजयी, धनञ्जयः = अर्जुनः, मध्यमपाण्डव इत्यर्थः। अधुना = साम्प्रतम्, वल्कवासांसि = तरुत्वग्वस्त्राणि, आहरन् = गृह्णन्, परिदधद् इत्यर्थः। सन्, तव = युधिष्ठिरस्य, सर्वभ्रातृसुखदुःखानुभवशीलस्येत्यर्थः। मन्युम् = क्रोधम्, वा दुःखं, कथम् = कस्मात्, न करोति = नोत्पादयति, स्वपालनीयानुजक्लेशमवलोक्य कस्मान्न शत्रौ दुःखदातरि क्रोध उत्पाद्यते इति महदाश्चर्यकरम् ॥३५॥
समासः- वाशवः उपमा यस्य स वासवोपमः। वल्कान्येव वासांसि वल्कवासांसि । न कुप्यम् अकुप्यम् ॥३५॥
व्याकरणम्- विजित्य = वि+जि+क्त्वा+ल्यप् । अयच्छत् = यम्+लङ् । आहरन् = आ+हृ+शतृ । करोति = कृ+लट् ॥३५॥
वाच्यान्तरम्- वासवोपमेन येन उत्तरान् कुरून् विजित्य प्राज्यमकुप्यं वसु अयप्यत तेन धनञ्जयेन अधुना वल्कवासांसि आहरता तव मन्युः कथं न क्रियते ॥३५॥
कोषः- 'सुमात्रा गोत्रभिद्वज्री वासवौ वृन्दारू वृषा' इत्यमरः। 'प्रभूतं प्रचुरं
५६ किरातार्जुनीयम् [प्रथमः
प्राज्यम् इत्यमरः। ‘स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यम्’ इत्यमरः। ‘त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् इत्यमरः’॥३५॥
साराऽर्थः - योऽर्जुनः कुरुदेशं जित्वाऽपरिमितं धनं भवते दत्तवान्, तमधुना खर्जूर-सर्ज भूर्ज-प्रभृति-तरुत्वचां वस्त्रं वसानं विलोक्य भवतो मनः कथं न खेदान्वितं जायते, अहह करणे धन्योऽस्ति महोपकारकत्र्त्यपि जने भवतः प्रतीकारकरणे मतिर्न प्रवर्त्तत इति ॥३५॥
भाषाऽर्थः - इन्द्र के समान जिन्होंने उत्तर कुरु देशों को जीतकर आपको अतुल धन दिया था, अब उन अर्जुन को वल्कल पहिने देख आपको क्रोध क्यों नहीं होता?॥३५॥
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसे न बाधितुम् ।।३६।।
वनान्तेति-वनान्तो वनभूमिरेव शय्या तया कठिनीकृताकृती कठिनीकृतदेहौ। ‘आकारो देह आकृतिः’ इति वैजयन्ती । विष्वक्समन्तात् । ‘समन्ततस्तु परितः सर्वतो विष्वगित्यति’ इत्यमरः। कचाचितौ कचव्याप्तौ । ‘विशीर्णकशावि’त्यर्थः। अत एवागधौ गिरिसम्भवौ गजाविव स्थितौ यमौ युग्मजातौ। माद्रीपुत्रावित्यर्थः। ‘यमोदण्डधरे ध्वाङक्षे संयमे यमजेऽपि च’ इति विश्वः। ‘विलोकयंस्त्वं कथं धृतसंयमौ । सन्तोषनियमौ । ‘धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु’ इति विश्वः। बाधितुं नोत्सहसे न प्रवर्तसे । ‘शकधृष-इत्यादिना तुमुन् । अहो ते महद्धैर्यमिति भावः॥३६॥
अन्वयः-वनान्तशय्याकठिनीकृताकृती, विष्वक्, कचाचितौ अगजौ, गजौ इव, यमौ, विलोकयन्, त्वं, कथं, धृतिसंयमौ, बाधितुं न उत्सहसे ॥३६॥
सुधा-वनान्तशय्याकठिनीकृताकृती=विपिनमध्यभूशयन कठोर शरीरौ, विष्वक्=परितः, सर्वतः इत्यर्थः। कचाचितौ = केशव्याप्तौ, अगजौ = पर्वतीयौ, गजौ = हस्तिनौ, इव, एतौ = इमौ, पुरःस्थायित्यर्थः। यमौ = यमालै, सहायतावित्यर्थः। विलोकयन् = पश्यन्, त्वं = युधिष्ठिः, कथम् = कस्मात् कारणात , धृतिसंयमौ = धैर्यनियमौ, बाधितुं = निरोद्धुम ; न उत्सहसे = न प्रवर्त्तते ॥३६॥
समासः-न कठिना अकठिना, कठिना सम्पद्यमाना इति कठिनीकृता, वनान्त एव शय्या वनान्तशय्या, तया कठिनीकृता आकृतिर्ययोस्तौ वनान्तशय्या-