किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ३३
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ३३
कोषः—'योगः संहननोपायध्यानसङ्गतियुक्तिषु' इत्यमरः। 'अयनं वर्त्म मार्गा-
ध्वपन्थानः पदवी सृतिः' इत्यमरः। 'स्वाध्यायः स्याज्जपः सुब्रह्मभिवकः सकलं च
सा' इत्यमरः। 'नियमो व्रतमस्त्री तच्चोपवासादिपुण्यकम्' इत्यमरः ॥ २८ ॥
सारार्थः—अस्मदुपदिष्टयोगाभ्यासेन स्वप्रभावं संवर्धयन्, स्वाश्रममार्गोऽपि
न कमप्यपरिचितं प्रवेशयन् सदाऽऽयुधं गृहीत्वा जपव्रतयज्ञस्नानादिभिर्यो-
योग्याचरणमाचरेति ॥ २८ ॥
भाषाऽर्थः—इस (मेरे कहे हुए ) योग से अपने प्रभाव को बढ़ाकर, अपने
आश्रम का रास्ता भी दूसरे को न दिखाते हुए, हरवक्त हथियारबन्द रह कर
जप-व्रत, यज्ञ-स्नानादि क्रियाओं से मुनियों का आचरण करो ॥ २८ ॥
क्षेत्रविशेषे तपःसिद्धिरित्याशयेन तं निदर्शयन्नाह—
करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि ।
शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥२९॥
करिष्यस इति ॥ यत्र शिलोच्चये गोत्रभिद इन्द्रस्य प्रसत्तये प्रसादाय सुदुश्चराणि
तपांसि करिष्यसे । चारुशिलोच्चयं रम्यशिखरं तं शिलोच्चयं गिरिमिन्द्रकीलरूपम् ।
'अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः' इत्यमरः । त्वामेष गुह्यको यक्षः अनन्तर-
मेवास्य पुरः प्रादुर्भावादेष इति निर्देशः । क्षणान्नेष्यति प्रापयिष्यति ॥ २९ ॥
अन्वयः—अत्र, गोत्रभिदः, प्रसत्तये, सुदुश्चराणि, तपांसि, करिष्यसे, तं, चारु-
शिलोच्चयं, शिलोच्चयम् एष, गुह्यकः, त्वां, क्षणात्, नेष्यति ॥ २९ ॥
व्याख्या—यत्र=यस्मिन्, पर्वत इति शेषः । गोत्रभिदः = इन्द्रस्य, प्रसत्तये =
हर्षाय, प्रसन्नतायै इत्यर्थः । सुदुश्चराणि = अतिकष्टसाध्यानि, तपांसि = योगा-
चारात्मकानि, करिष्यसे = आचारयिष्यसि, त्वमिति शेषः । तं = तथोक्तं, चारु-
शिलोच्चयं = रम्यप्रस्तरसकलसमूहं, शिलोच्चयम् = पर्वतम्, इन्द्रकीलसंज्ञक-
मित्यर्थः । एषः = अयं, वर्तमान इत्यर्थः । गुह्यकः = यक्षः, ( कर्ता ), त्वाम् =
अर्जुनं, क्षणात् = सत्वरमेव, नेष्यति = प्रापयिष्यति ॥ २९ ॥
समासः—गोत्रान् पर्वतान् भिनत्तीति गोत्रभित्, तस्य गोत्रभिदः । शिला-
नामुच्चयो यत्र स शिलोच्चयस्तं शिलोच्चयम् । चारवः शिलोच्चया यस्मिन् स चारु-
शिलोच्चयस्तं चारुशिलोच्चयम् ॥ २९ ॥
व्याकरणम्—करिष्यसे = कृ + लृट् । नेष्यति = नी + लृट् ॥ २९ ॥
वाच्यान्तरम्—यत्र गोत्रभिदः प्रसत्तये सुदुश्चराणि तपांसि, त्वया करिष्यन्ते ।
तं चारुशिलोच्चयं शिलोच्चयम्, एतेन त्वं क्षणान्नेष्यते ॥ २९ ॥
12 कि०
३४ किरातार्जुनीयम् [ तृतीयः
कोषः— 'सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा' इत्यमरः। अद्रिगोत्रगिरि-ग्रावाचलशैल-शिलोच्चया' इत्यमरः। 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनय' इत्यमरः॥ २९ ॥
सारांशः— यस्मिन् पर्वते तव तपःकरणं मया निश्चितं तत्रायं यक्षस्त्वां झटित्येवालौकिकगत्या प्रापयिष्यति। दुर्गपर्वतारोहणशमो न कोऽपि ते भविष्येति ॥
भाषार्थः— जहाँ (पर्वत पर) इन्द्र को खुश करने के लिए तुम कठिन तपस्या करोगे, उस सुन्दर शिखरवाले पर्वत पर तुझे यह यक्ष तुरत ले जायगा॥ २९॥
इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे।
तं राजराजानुचरोऽस्य साक्षात्प्रदेशमादेशमिवाधितष्ठौ ॥ ३० ॥
इतीति ॥ इतीत्थं महेन्द्रसूनुमर्जुनं ब्रुवाणेनोक्तवता। 'वर्तमानसामीप्ये' इति भूते वर्तमानवत्प्रत्ययस्तिरोधानस्याविलम्बसूचनार्थः। तेन महर्षिणा व्यासेन तिरोबभूवेऽन्तर्दधे। भावे लिट्। राजराजो यक्षराजः। 'राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः' इति विश्वः। तस्यानुचरः पूर्वोक्तयक्षोऽस्य मुनेरादेशं साक्षादिव प्रदेशमर्जुनाधिष्ठितस्थानमधितष्ठौ। प्राप्त इत्यर्थः। 'स्यादिष्वभ्यासे चाभ्यासस्य' इति षत्वम् ॥ ३० ॥
अन्वयः— महेन्द्रसूनुम्, इति, ब्रुवाणेन, तेन, महर्षिणा, तिरोबभूवे। राजराजानुचरः, अस्य (मुनेः,), साक्षात् आदेशम्, इव, तं, प्रदेशम्, अधितष्ठौ ॥ ३० ॥
व्याख्या—
- महेन्द्रसूनुम् = अर्जुनम्,
- इति = एवं,
- ब्रुवाणेन = कथितवता,
- तेन = प्रसिद्धेन,
- महर्षिणा = महायोगिना, व्यासेनेति शेषः।
- तिरोबभूवे = अन्तर्दधे। व्यासः स्वस्थानं प्रस्थित इत्याशयः।
- अथ तदानीं राजराजानुचरः = कुबेरभृत्यः, यक्ष इत्यर्थः।
- अस्य = व्यासस्य, मुनेः,
- साक्षात् = देहवान्,
- आदेशमिव = अनुशासनमिव,
- तम् = अर्जुनाध्युषितम्,
- प्रदेशं = स्थलविशेषम्,
- अधितष्ठौ = प्राप्तः, न विलम्बो जात इति ॥ ३० ॥
सारांशः— महांश्चासाविन्द्रो महेन्द्रस्तस्य महेन्द्रस्य सूनुर्महेन्द्रसूनुस्तं महेन्द्रसूनुम्। महांश्चासावृषिर्महर्षिस्तेन महर्षिणा राज्ञां राजा राजराजः, तस्य राजराजस्यानुचरः राजराजानुचरः ॥ ३० ॥
व्याकरणम् — ब्रुवाणेन = ब्रू + लट् + शानच्। तिरोबभूवे = तिरस् + भू + भावे लिट्। अधितष्ठौ = अधि + स्था + लिट् ॥ ३० ॥
वाच्यान्तरम् — महेन्द्रसूनुमिति ब्रुवाणः स महर्षिस्तिरोबभूव। अस्य साक्षादादेश इव स च प्रदेशः राजराजानुचरेण सोऽधितष्ठे ॥ ३० ॥