किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् २३
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् २३
कृतव्यलीको जनितवैलक्ष्यः । 'कुत्से वैलक्ष्ये व्यलीकम्' इति यादवः । अन्तकोऽपि
यमोऽपि पराभवं प्राप्त इव । भीष्मस्येच्छामरणत्वादान्तकोऽपि पराजित इवास्ते
किमुतान्य इति भावः । स भीष्मो रणे धनुर्धन्वन्कम्पयन्कस्य मनो भयैकप्रवणं
भय एकप्रवणमेकोन्मुखम् । शिवभागवतवत्समासः । न कुर्यात् । सर्वस्यापि मनसि
भयं कुर्यादेवेत्यर्थः ॥ १९ ॥
अन्वयः—यस्मिन्, अनैश्वर्यकृतव्यलीकः, अन्तकः, अपि, पराभवं, प्राप्तः, इव,
रणे, धनुः, धुन्वन्, सः, भीष्मः, कस्य, मनः, भयैकप्रवणं, न, कुर्यात् ? ॥ १९ ॥
व्याख्या—यस्मिन् = भीष्मे, अनैश्वर्यकृतव्यलीकः = असामर्थ्यजनितदुःखः,
अन्तकः = यमः, अपि, पराभवम् = पराजयं, प्राप्तः = गतः, इव जातः । तादृश
इति शेषः । रणे = सङ्ग्रामे, धनुः = शरासनं, धुन्वन् = चालयन्, सन्, कस्य =
जनस्य, मनः = चित्तम्, भयैकप्रवणं = भीष्माभिमुखं, न कुर्यात् = न विदधीत,
अपि तु सर्वेषामपि कुर्यादेव, वा कस्य = ब्राह्मणोऽपि, मनो भयैकप्रवणं कुर्या-
देवेति ॥ १९ ॥
समासः—ईश्वरस्य भाव ऐश्वर्यं न ऐश्वर्यम् अनैश्वर्यम्, अनैश्वर्येण कृतं व्यलीकं
यस्यः सः अनैश्वर्यकृतव्यलीकः । एकस्मिन्नेव प्रवणमेकप्रवणम्, भय एकप्रवणं
भयैकप्रवणम् ॥ १९ ॥
व्याकरणम्—कुर्यात् = कृ + लिङ् । प्राप्तः, प्र + आप् + क्तः ॥ १९ ॥
वाच्यान्तरम्—यस्मिन्ननैश्वर्यकृतव्यलीकेनापि पराभवं प्राप्तेनेव, रणे धनुर्धुन्वता
तेन भीष्मेण कस्य मनो भयैकप्रवणं न क्रियेत ॥ १९ ॥
कोषः—'व्यलीकमप्रियकार्यवैलक्ष्येष्वापे पीडने'–इत्यमरः । 'कालो दण्डधर-
श्राद्धदेवो वैवस्वतोऽन्तक' इत्यमरः । 'धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्'
इत्यमरः । प्रवणं क्रमनिम्नोर्व्याम्' इत्यमरः ॥ १९ ॥
सारार्थः—महाभारते, शिखण्डिनं पुरस्कृत्य यदाऽसंख्यैः शरैरर्जुनेन भीष्मो
रोमरोमसु वेधितस्तदा, तस्य मरणमुपस्थितमपि, स्वतपोब्रह्मचर्यप्रभावेण 'नाहम-
धुना याम्यायने मृत्वा नरकमार्गेण गमिष्यामि परलोकम्, अतोऽहं सौम्यायने
समागते त्यक्ष्यामि निजप्राणैः सहैतच्छरीरम्" इति निश्चित्य, इच्छामरणत्वेन
यममप्यवमान्य, भीष्माष्टम्यां स्वदेहं जहौ, एवमिच्छाऽधीन मरणत्वेन यमस्या-
ज्ञाऽपि भीष्मसमीपे न धावति, ईदृशः स धनुः करे कुर्वन् केन निवार्यते, प्रत्युत
अगति विद्यत एव तादृशो जनो नहि, यस्तं निवारयतीति ॥ १९ ॥
भाषार्थः—जिस भीष्माचार्य के आगे अपनी शक्ति के अभाव से पैदा हुआ
है दुःख जिसे, ऐसे यमराज भी हारे हुए की तरह मालूम पड़ते हैं। धनुष को
| २४ | किरातार्जुनीयम् | [ तृतीयः |
|---|
हाथ में चलाते हुए लड़ाई में ऐसे भीष्म से किसका मन भय के तरफ नहीं खिंच सकता, बल्कि सबों का मन भयभीत हो जायगा ॥ १९ ॥
सृजन्तमाजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः ।
परिस्फुरल्लोलशिखाऽप्रजिह्वं जगज्जिघत्सन्तमिवान्तवह्निम् ॥२०॥
सृजन्तमिति ॥ आजौ रण इषुसंहतिर्बाणसंघान्सृजन्तं वर्षन्तं कोपज्वलितमत एवं परिस्फुरन्त्यो लोलाश्च शिखाग्राण्येव जिह्वा यस्य तं तथोक्तं जगल्लोकं जिघत्सन्तमत्तुमिच्छन्तम् । अदेः सन्नन्ताच्छतृप्रत्ययः । 'लुङ्सनोर्घस्लृ' इति घस्लादेशः । अन्तवह्निं कालाग्निमिव स्थितं गुरुं द्रोणं वो युष्माकं मध्ये कः सहेत सोढुं शक्नुयात् । न कोऽपीत्यर्थः । 'शकि लिङ् च' इति शक्यार्थे लिङ् ॥ २० ॥
अन्वयः— आजौ, इषुसंहतीः, सृजन्तं, कोपज्वलितं, परिस्फुरल्लोलशिखाऽप्रजिह्वं जगत्, जिघत्सन्तम्, अन्तवह्निम्, इव गुरुम्, वः, कः, सहेत ॥ २० ॥
व्याख्या— आजौ = संग्रामे, इषुसंहतीः, = शरवर्षाः, सृजन्तं = कुर्व्वन्तं, कोपज्वलितं = क्रोधोद्दीपितम्, अत एव, परिस्फुरल्लोलशिखाऽप्रजिह्वम् = परिचलच्चपलज्वालाऽप्ररसनं, जगत् = भुवनं, जिघत्सन्तम् = अत्तुमिच्छन्तम्, अन्तवह्निम् = प्रलयाग्निम्, इव गुरुम् = शस्त्रशास्त्राचार्यं, द्रोणमिति शेषः । वः = युष्माकम्, पाण्डवानां मध्ये इत्याशयः, कः = जनः, सहेत = क्षमते, न कोऽपि ॥ २० ॥
समासः— इषूणां संहतय इषुसंहतयस्ता इषुसंहतीः । कोपेन ज्वलितः कोपज्वलितस्तं कोपज्वलितम् । परिस्फुरन्त्यः लोलाश्च शिखाः परिस्फुरल्लोलशिखाः तासामग्राण्येव जिह्वा यस्य सः परिस्फुरल्लोलशिखाऽग्रजिह्वस्तं परिस्फुरल्लोलशिखाऽप्रजिह्वम् । अन्तस्य प्रलयस्य वह्निरन्तवह्निस्तमन्तवह्निम् ॥ २० ॥
व्याकरणम्— सहेत = सह + लिङ् ॥ २० ॥
वाच्यान्तरम्— आजाविषुसंहतीः सृजन् कोपज्वलितः, परिस्फुरल्लोलशिखाऽग्रजिह्वो जगद् जिघत्सन्नन्तवह्निरिव गुरुर्वः केन सह्येत ॥ २० ॥
कोषः— 'समुदायः स्त्रियः संहत्समित्याजिसमिधुष' इत्यमरः । 'कलम्बमार्गणशराः पत्री रोप इषुद्वयोः' इत्यमरः । 'स्त्रियां तु संहतिर्वृन्द निकुरुम्बं कदम्बकम्' इत्यमरः । 'कोपक्रोधामर्षरोषप्रतिघातरुडुक्रुधौ स्त्रियौ' इत्यमरः । 'रसज्ञा रसना जिह्वा' इत्यमरः । 'अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जय' इत्यमरः ॥ २० ॥
सारार्थः— सङ्ग्रामे शरवृष्टिं कुर्वन्तः, संसारं नाशयितुं प्रवृत्तस्य प्रलयाग्नेरिव द्रोणाचार्यस्य गुरोः पुरतो भवत्पक्षीयः कोऽपि न स्थास्यति ॥ २० ॥
भावार्थः— युद्धमें शरवर्षा करते हुए, क्रोध (गुस्सा) से प्रज्वलित, लहलहाती हुई ज्वाला की छोर ही है जिह्वा जिसकी, ऐसे प्रलय काल की आग के