सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २५

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । २५

क्रुधि' इत्यमरः। 'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' इति स्मरणादित्यर्थः किन्तु निवृत्तकारणो निवृत्तलोभादिनिमित्तः सन्स्वधर्म इत्येव । स्वस्य राज्ञः सतो ममायं धर्मो ममेदं कर्तव्यमित्यस्मादेव हेतोरित्यर्थः । 'अदण्ड्यान्दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ इति स्मरणादिति भावः गुरूपदिष्टेन प्राड्विवाकोपदिष्टेन । धर्मशास्त्रं पुरस्कृत्य प्राड् विवाकमते स्थितः। समाहितमतिः पश्येद् व्यवहाराननुक्रमात् ॥' इति नारदस्मरणात् । दण्डेन दमेन । शिक्षयेत्यर्थः रिपौ सुतेऽपि वा । स्थितमिति शेषः। एतेनास्य समदर्शित्वमुक्तम् । धर्मविप्लवं धर्मव्यतिक्रमम् । अधर्ममिति यावत् । निहन्ति निवारयति । दुष्ट एवास्य शत्रुः शिष्ट एव बन्धुः। न तु सम्बन्धनिबन्धनः पक्षपातोऽस्तीत्यर्थः ॥१३॥

अन्वयः- वशी, सः (दुर्योधनः) वसूनि वाञ्छन् न, मन्युना न, निवृत्त कारणः (सन्) स्वधर्मः एव (एषः) इति गुरूपदिष्टेन दण्डेन रिपौ वा सुते अपि धर्मविप्लवं निहन्ति ॥१३॥

सुधा- वशी = सर्वतन्त्रस्वतन्त्रः न तु परतन्त्रः, येन केनापि विधिना जनान् स्वाधीनान् करोतीति वा, वसूनि = धनानि, वाञ्छन्, न = हि (जनं न पीडयतीति शेषः) तथा न, मन्युना = क्रोधेन, न (निहन्ति) किन्तु, निवृत्त कारणः = कारणरहितः, लोभाद्यर्थसञ्चयहेतुहीन इत्यर्थः। केवलं दण्डनीयः = दण्ड्य इति, स्वधर्मः = राजधर्म एवास्माकम्, इत्यतः गुरूपदिष्टेन = मन्वादिशास्त्रोपदेशानुसारेण, दण्डेन = दमेन, रिपौ = शत्रौ, वा सुते = आत्मजे, पुत्रेऽपीत्यर्थः। धर्मविप्लवम् = धर्मविरुद्धम्, धर्मनीतिमर्यादोल्लङ्घनमित्यर्थः। निहन्ति = दण्डयति, अनाचारात्निवारयति इत्यर्थः ॥१३॥

समासः- स्वस्य धर्मः स्वधर्मः, निवृत्तानि कारणानि यस्मात् स निवृत्तकारणः। गुरुणा उपदिष्टस्तेन गुरूपदिष्टेन । धर्मस्य विप्लवस्तम् ॥१३॥

व्याकरणम्- वाञ्छन् = वाञ्छ् + शतृ । निहन्ति = नि हन् + लट् + ति
वशी = वश् + इन् ॥१३॥

वाच्यान्तरम्- वशिना तेन, वसूनि वाञ्छता न, मन्युना न, स्वधर्म एवेति निवृत्तकारणेन (दुर्योधनेन) गुरूपदिष्टेन दण्डेन रिपौ सुतेऽपि धर्मविप्लवो निहन्यते। १३॥

कोष- 'वसु तोये धने मणौ' इति वैजयन्ती । 'मन्युर्दैन्ये क्रतौ क्रुधि' इत्यमरः।

३ किरात प्र. सर्ग

२६ किरातार्जुनीयम् [प्रथमः

‘हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्’ इत्यमः। ‘रिपौ वैरिसपत्‍नारिद्विषद्वेषणदुर्हृदः’ इत्यमरः। ‘आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी, इत्यमरः। ‘साहसं तु दमो दण्डः’ इत्यमरः॥१३॥

सारार्थः- जितेन्द्रियो दुर्योधनो यत्प्रजां दण्डयति, तद्धनसञ्चयाशया न, न हि क्रोधेन वा, किन्तु ममायं धर्म एवेति धिया क्रोधलोभमोहादिदण्डकरणकारणरहितः सन् यदि पुत्रोऽप्यपराधी, तथा तमपि दण्डयति, न हि शत्रुमित्रयोरुपरि दण्डदानसमये भेददृष्ट्या विलोकयतीति ॥१३॥

भाषार्थः- अपने अधीन सबको रखने वाला वह दुर्योधन, न तो कुछ धन बटोरने की चाह से, न तो क्रोध ही से, किसी को कुछ दण्ड देता है । बल्कि दुष्ट अपराधियों का शासन करना मेरा धर्म है, इस ख्याल से धन जमा करने के कारणों से विमुख होकर, गुरु के उपदेश के अनुसार चाहे दुश्मन, चाहे लड़का ही क्यों न हो, समदृष्टि से जिसको अन्यायी समझता है उसी को दण्ड देता है॥१३॥

सम्प्रति भेदकौशलं दर्शयति-
विधाय रक्षान्परितः परेतरानशङ्किताकारमुपैति शङ्कितः।
क्रियाऽपवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ॥१४॥

विधायेति । शङ्का सञ्जाताऽस्य शङ्कितोऽविश्वस्तः सन्परितः सर्वत्र स्वपरमण्डले परेतानात्मीयान् । अवञ्चकानिति यावत् । यद्वा परानितरयन्ति भेदेनात्मसात्कुर्वन्तीति परेतान् । ‘तत्करोति’ति ण्यन्तात्कर्मण्यण्प्रत्ययः। रक्षन्तीति रक्षान् रक्षकान् । मन्त्रगुप्तिसमर्थानित्यर्थः ‘नन्दिग्रही—’ त्यादिना पचाद्यच् । विधाय कृत्वा । नियुज्येत्यर्थः। अशङ्किताकारमुपैति । स्वयमविश्वस्तोऽपि विश्वस्तवदेव व्यवहरन्परमुखेनैव परान् भिनत्तीत्यर्थः। न तान्रक्षानुपेक्षते येन तेऽपि विकुर्वीरन्नित्याह—क्रियेति । क्रियाऽपवर्गेषु कर्मसमाप्तिष्वनुजीविसात्कृताभृत्याधीनाः कृताः। अपरावर्तितया दत्ता इत्यर्थः। ‘देये त्रा च’ इति सातिप्रत्ययः। सम्पदोऽस्य राज्ञः कृतज्ञतामुपकारित्वं वदन्ति । प्रीतिदानैरेवास्य कृतज्ञत्वं प्रकाश्यते, न तु वाङ्मात्रेणेत्यर्थः। कृतज्ञे राजन्यनुजीविनोऽनुरज्यन्तेऽनुरक्ताश्च तं रक्षन्तीति भावः॥१४॥

अन्वयः- शङ्कितः, (सन्नपि) परितः परेतरान् रक्षान् विधाय, अशङ्किताकारम्, उपैति । क्रियाऽपवर्गेषु, अनुजीविसात्कृताः सम्पदः, अस्य कृतज्ञतां वदन्ति ॥१४॥