किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सप्तदशः सर्गः ३८७
सप्तदशः सर्गः ३८७
देवे। स्वतो निर्विकार इत्यर्थः। विकारः क्रोधरूपः कुतः। न कुतश्चिदित्यर्थः।
ननु तस्य निर्विकारस्य कथं बहिराकारभेदः कारणाभावादिति चेन्न चित्र इत्याह—
इदं पूर्वोक्तम्। आकारवैषम्यं च भेजे। किन्तु केनापि कारणेन न कुप्यतीत्यर्थः। ननु
निर्विकारे कुत आकारभेदस्तत्राह—महता वृत्तिश्चेष्टा दुर्लक्ष्यचिह्ना दुर्ग्रहहेतुका
हि॥ २३॥
हिन्दी--अर्जुनके प्रति प्रसन्नचित्त शिवजीको क्रोध नहीं हुआ, परमात्माको
क्रोध रूप विकार कैसे होगा ? उन पर केवल आकार वैषम्य लिया क्योंकि महा-
पुरुषोंकी चेष्टा का कारण नही जाना जाता है॥ २३॥
वैषम्यमेवाह—
विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वामिव तक्षकस्य॥ २४॥
मल्लि०—विस्फार्यमाणस्येति। ततोऽनन्तरं भूतानि भर्त्रा भूतपतिना। भृञ-
स्तृच्प्रत्ययः। अत एव 'न लोके—त्यादिना षष्ठीप्रतिषेधः। भुजाभ्याम्। कर्तृकर-
णयोस्तृतीया। विस्फार्यमाणस्याकृष्यमाणस्य धनुरन्तक इव तस्य धनुरन्तकस्य
संबन्धिनी स्फुरन्तीं चलन्तीमत एव भिन्ना द्विधेव दृश्यमानाऽऽकृतिर्यस्यास्तां ज्यां
धनुर्गुणं क्रुद्धस्य तक्षकस्य नागविशेषस्य जिह्वामिव। ददृशुः द्विधाभावाद्भयंकरत्वा
च्चेति भावः॥ २४॥
हिन्दी—तब प्राणियोंको धारण और पोषण करनेवाले शिवजीने भुजाओंसे
आकृष्ट किये जाते हुए यमराजके समान धनुसे चलती हुई अत एव भिन्न आकृति-
वाली प्रत्यञ्चाको क्रुद्ध तक्षक नामक नागकी जीभके समान लोगोंने देख
लिया॥ २४॥
सव्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपमाशशङ्के।
पर्यायसंपादितकर्णतालं यन्ता गजं व्यालमिवापराधः॥ २५॥
मल्लि०—सव्येति। पार्थः सव्यापसव्याभ्यां वामदक्षिणगतिभ्यां ध्वनितं
नादितमुग्रचापं येन तं किराताधिपम्। अपराधः प्रमत्तो यन्ता पर्यायेणायोपगयेन
संपादितः कर्णयोस्ताल आस्फालनं येन तं व्यालं दुष्टम्। 'भेद्यलिङ्गः शठे व्यालः'
इत्यमरः। गजमिवाशशङ्के। तच्चापचातुर्यदर्शनाद् दुर्जयः कोप्ययमनर्थकरश्चेति
शङ्कितवानित्यर्थः॥ २५॥
| ३८८ | किरातार्जुनीयम् |
|---|
हिन्दी— अर्जुनने वाम और दक्षिण गतियोंसे उग्र धनुको ध्वनित करतेवाले शिवजीके प्रति जैसे-जैसे मत्त फीलवान पारी-पारीसे कर्णतालको संपादित करनेवाले दुष्ट हाथीके प्रति आशङ्का करता है उसी तरह आशङ्का की ॥ २५ ॥
निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ॥ २६ ॥
मल्लि०— निजघ्निर इति। हरेषुजालैस्तस्यार्जुनस्य पतन्ति आगच्छन्ति शिलीमुखानां शराणां वृन्दानि। ऊर्जस्विभिः प्रबलैः। अम्बुराशेर्यादोभिर्जलग्राहैः सिन्धुमुखेन नदीमुखेन आगतानि यादांसीव निजघ्निरे हतानि ॥ २६ ॥
हिन्दी— शिवजीके बाणोंने आते हुए अर्जुनके बाणोंको, समुद्रके जबर्दस्त जल-ग्राहोंसे नदीमुखसे आये हुए जल जन्तुओंकी तरह नष्ट कर दिया ॥ २६ ॥
विभेदमन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेताऽरिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शंभुः ॥ २७ ॥
मल्लि०— विभेदमिति। अन्तर्विभेदं व्यूहविश्लेषणमुपजापं च पदवीनिरोधं मार्ग एव प्रतिबन्धनम्, अन्यत्र तु—आसारप्रसारप्रतिबन्धं विध्वंसनं खण्डनं दुर्गेलूक-नदाहादिकं चेत्यादि यद्यन्नेता नायको जिगीषुः। अविदितप्रयोगः संवृतमन्त्रत्वा-दविज्ञातोपायप्रयोगः सन् अरिलोकेषु शत्रुकुलेषु करोति तत्तच्छंभुरविदितप्रयोगोऽ-ज्ञातबाणसंधानमोक्षादिकः सन्, अस्यार्जुनस्य शरेषु चकार कृतवान्। कर्तरि लिट्। श्लेषालङ्कारः ॥ २७ ॥
हिन्दी— जैसे सेनापति शत्रुओंमें अविदित उपायका प्रयोग कर व्यूहभेद मार्ग-प्रतिबन्ध और किलेका विध्वंस कर देता हैं उसी तरह शिवजीने बाणोंका सन्धान और प्रयोगको अविदित कर अर्जुनके बाणोंका विध्वंस कर डाला ॥ २७ ॥
सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ॥ २८ ॥
मल्लि०— सोढेति। सोढानि परैरवगीतानि गर्हितानि प्रथमायुधानि सर्वो-त्कृष्टबाणा यस्य तस्यार्जुनस्य संबन्धिभिः क्रोधोज्झितैः पूर्वबाणवैफल्यात्कोपेन त्यक्तैः अत एव वेगितया वेगेन पतद्भिर्गतिं कुर्वद्भिः अत एव छिन्नैरपि त्रासिता वाहिनी यैस्तैरत एव कृतार्थैरिव बाणैः पेते। भावे लिट्। वस्तुतस्त्वकृतार्थै-रेवेत्यर्थः ॥ २८ ॥
सप्तदशः सर्गः
३८९
हिन्दी— शत्रुओंसे निन्दित और उत्कृष्ट बाणोंको सहन करनेवाले अर्जुनके क्रोधसे छोड़े गये अतएव वेगसे गिरते हुए छिन्न होकर भी सेनाओंको त्रस्त कराने-वाले अत एव कृतार्थ-से होकर बाण गिरने लगे ॥ २८ ॥
अलंकृतानामृजुतागुणेन गुरुपदिष्टां गतिमास्थितानाम् ।
सतामिवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिमन्ममाथ ॥ २९ ॥
मल्लि०— अलमिति । ऋजुताऽवक्राकारत्वमवक्रशीलत्वं च सैव गुणस्तेन अलंकृतानां गुरुभिर्धनुर्विद्यागुरुभिर्धर्मशास्त्रगुरुभिश्च उपदिष्टां दर्शितां गतिं गमनमा-चारं च आस्थितानां प्राप्तानां मार्गणानां शराणां सतां साधूनामिव । अपर्वण्यग्रन्थौ अन्यत्र—अप्रस्तावे । अकाण्ड इत्यर्थः । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे' इति विश्वः । स ईश्वरकृतो भङ्गश्छेदो व्यसनं च जिष्णोरर्जुनस्य कस्यचिज्जित्त्व-रस्य च । 'जिष्णुः शक्रो धनंजये । जित्वरे' इति विश्वः । धृतिं धैर्यम् । उन्ममाथ । जहारेत्यर्थः । अकाण्डे साधुविपत्तिदर्शनादिव शरभङ्गदर्शनाद्धैर्यभङ्गोऽभूदित्यर्थः ॥
हिन्दी— सरलतारूप गुणसे अलंकृत धनुर्विद्याके गुरुओंसे और धर्मशास्त्रके गुरुओंसे उपदिष्ट आचारका अवलम्बन करनेवाले बाणोंके सज्जनोंके समान अग्रंथि और अनवसरमें शिवजीसे किया गया पराजय और व्यसनने अर्जुनके धैर्यका अपहरण कर लिया ॥ २९ ॥
बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः ।
अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारमापुः ॥ ३० ॥
मल्लि०— बाणेति । बाणच्छिदः पार्थशरच्छेदिनस्ते स्मरारेर्विशिखा अवाङ्-मुखीभूतफला विमुखाग्रा विफलाश्च सन्तः पतन्तः पाण्डवसायकेभ्यः । क्रियाग्रहणा-च्चतुर्थी । पाण्डवसायकानां कृतस्य फलभङ्गरूपस्य स्वकर्मणः सद्योऽखण्डितं प्रतिकारमापुः । अत्युत्कटं कर्म सद्यो दर्शयतीति भावः ॥ ३० ॥
हिन्दी— अर्जुनके बाणोंको छिन्न करनेवाले शिवजीके उन बाणोंने विमुख नोकवाले और विफल होकर गिरते हुए फलभङ्गरूप अपने कर्मका उसी क्षण अखण्डित प्रतिकार पा लिया ॥ ३० ॥
पुनरर्जुनस्य जयमाह—
चित्रोयमानानतिलाघवेन प्रमाथिनस्तानभवमार्गणानाम् ।
समाकुलाया निचखान दूरं बाणान्ध्वजिन्या हृदयेष्वरातिः ॥ ३१ ॥
३९० | किरातार्जुनीयम्
मल्लि०—चित्रीयमानानिति । अरातिरर्जुनः । अतिलाघवेनातिशीघ्रतया चित्रीयमाणांश्चित्रमाश्चर्यं कुर्वाणान् । 'नमोवरिवश्चित्रङः क्यच्' । लवमार्गणान् प्रमाथिनः खण्डयतः तान् बाणान् ! समाकुलायाः संक्षुभिताया ध्वजिन्याः सेनाया हृदयेषु दूरं गाढं निनयान निखातवान् ॥ ३१ ॥
हिन्दी—शत्रु अर्जुनने अति शीघ्र होनेसे आश्चर्य करानेवाले शिवबाणोंके खण्डित करते हुए उन बाणोंको आकुल शिवसेनाके हृदयोंमें दूरतक गाड़ दिया। ३१।
तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाव इवाम्बु मेघः ॥ ३२ ॥
मल्लि०—तस्येति । तस्यार्जुनस्य पराक्रमेऽतियत्नाद्धेतोः । अन्योन्यस्य विशेषणेनातिशयकरणेन । अतिरिच्यमान उत्कृष्यमाणे सति पुरां हन्ता त्रिपुरविजयी हरो भूरि प्रभूतं पृषत्कवर्षं बाणवर्षम् । 'पृषत्कबाणविशिखाः' इत्यमरः । निदाघे भवो नैदाघो मेघोऽम्बुवाहोऽम्बु जलमिव निरास मुमोच । अस्यतेर्लिट् । 'निदाघ' ग्रहणं वर्षणस्यातितीव्रत्वद्योतनार्थम् ॥ ३२ ॥
हिन्दी—अर्जुनके पराक्रमके अत्यन्त यत्न होनेसे परस्परमें अतिशयतासे उत्कर्ष किये जानेपर त्रिपुरविजयी शिवजीने प्रचुर बाणवृष्टिको जैसे ग्रीष्म-ऋतुमें होनेवाला मेघ जलकी वृष्टि करता है उसी तरह शरवृष्टि कर दी ॥ ३२ ॥
अनामृशन्तः क्वचिदेव मर्म प्रियेषिणाऽनुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ॥ ३३ ॥
मल्लि०—अनामृशन्त इति । प्रियेषिणा प्रियचिकीर्षुणा शिवेनानुप्रहिताः प्रयुक्ता अतएव क्वचिदेव मर्मानामृशन्तोऽस्पृशन्तः शराः सुहृन्मित्रं सोऽपि प्रियेषी तेन प्रयुक्ता उच्चारिता नर्मवादाः प्रियवादा इव मुनेरर्जुनस्य प्रीतिकराः प्रीतिजनका बभूवुः ॥ ३३ ॥
हिन्दी—प्रियकी इच्छा करनेवाले शिवजीसे प्रेरित अत एव कहीं भी मर्मस्थलका स्पर्श न करते हुए बाण प्रिय चाहनेवाले मित्रसे कहे गये परिहास वचनों के समान मुनि (अर्जुन) को प्रीति करनेवाले हुए ॥ ३३ ॥
अस्त्रैः समानामतिरेकिणीं वा पश्यन्निषूणामपि तस्य शक्तिम् ।
विषादवन्ध्यबलः प्रमाथी स्वमाच्छलम्बे बलमिन्दुमौलिः ॥ ३४ ॥
सप्तदशः सर्गः ३९१
मल्लि०—अस्त्रैरिति । अस्त्रैः स्वायुधैः समानां तुल्याम् । अतिरेकिणीं ततोऽधिकां वा यस्य मुनेः । इषूणामपि शक्तिं पश्यन् विषादेनोत्साहभङ्गेन वक्तव्यानि विन्द्यानि बलानि सैन्यानि तस्य स प्रमाथी शत्रुमर्दन इन्दुमौलिर्महादेवः स्वं बलमात्मीयं महिमानम् । आलम्बे स्वसामर्थ्यमवलम्बितवान् ॥ ३४ ॥
**हिन्दी—**अपने अस्त्रोंके समान वा उससे अधिक उन (मुनि) के वाणोंकी भी शक्तिको देखते हुए उत्साहभङ्गके कारण निन्दनीय सैन्यवाले तथा शत्रुओंका मर्दन करनेवाले शिवजीने अपने सामर्थ्यका अवलम्बन किया ॥ ३४ ॥
ततस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ॥ ३५ ॥
मल्लि०—तत इति । ततो महिमप्रादुर्भावानन्तरम् देवस्तपोवीर्याभ्यां समुद्धतस्य प्रगल्भस्य समर एवार्णवस्तस्य पारमन्तं यियासोर्जिगमिषोजिष्णोरर्जुनस्य अखिलानि महेषुजालानि समग्रबाणसमूहान् । अर्कः सूर्यः पयांसीव जलानीव समाचचाम संजहार ॥ ३५ ॥
**हिन्दी—**तब शिवजीने तप और वीर्यसे समुद्धत युद्धरूप समुद्रको पार जानेकी इच्छा करनेवाले अर्जुनके समस्त बाणसमूहकी जैसे सूर्य समस्त जलसमूहका शोषण करता है उसी तरह संहार कर डाला ॥ ३५ ॥
रिक्ते सविस्रम्भमथार्जुनस्य निषङ्गवक्त्रे निपपात पाणिः ।
अन्यद्विपापीतजले सतर्षं मातङ्गजस्येव नगाश्मरन्ध्रे ॥ ३६ ॥
मल्लि०—रिक्त इति । अथ बाणान्तर्धानानन्तरम् । अर्जुनस्य पाणिः करः रिक्ते बाणशून्ये निषङ्गवक्त्रे तूणीरमुखेऽन्यद्विपेन गजान्तरेण आपीतजले पीततोये नगस्याचलस्याश्मरन्ध्रे शिलागर्ते । प्रदर इत्यर्थः । सतर्षं सतृष्णं यथा स्यात्तथा मातङ्गजस्य पाणिर्लक्षणया कर इव सविस्रम्भं सन्त्येव बाणा इति सविश्वासं निपपात ॥ ३६ ॥
**हिन्दी—**तब अर्जुनका हाथ रीते (बाणशून्य) तरकशके मुखमें जैसे एक हाथीसे समस्त जलके पीये जानेसे रीते (जलशून्य) पर्वतके शिलागर्तमें तृष्णाके साथ दूसरे हाथीका सूँड़ जाता है उसी तरह पड़ गया ॥ ३६ ॥
च्युते स तस्मिन्निषुधौ शरार्थाद्विध्वस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ॥ ३७ ॥
| ३९२ | किरातार्जुनीयम् |
|---|
मल्लि०— च्युत इति। शरा एव अर्थो धनं तस्मात्। च्युते भ्रष्टे तस्मिनिषुषौ निषङ्गे सहसा झटिति। ध्वस्तार्थसारेऽकाण्डे नष्टधनसारे बन्धाविव तत्काले मोघो वितथः प्रणयः प्रीतिर्यस्य सः। तत्कालकृतव्यर्थप्रार्थनः। पूर्वं कृतार्थ एवेति भावः। स पाणिः। निर्वाय्यतां कृतज्ञत्वापवादाहित्यं कामयत इति निर्वाय्यताकामः। 'शौल्बिकामिभक्ष्याचरिभ्यो णः' स इवेत्युत्प्रेक्षा। 'आभिमुख्यं प्रपेदे। यथा कश्चित्कृतज्ञस्तत्कालेऽकृतोपकारमपि बन्धुं पूर्वोपकारस्मरणात्पुनः पुनरनुबध्नाति तद्वदित्यर्थः॥ ३७॥
हिन्दी— वाणरूप धनवाले परन्तु वाणशून्य उस तरकशमें जैसे धनरूप सारसे शून्य बन्धुमें पहले कृतार्थ होकर उस समय व्यर्थ प्रार्थना वाला बन्धुकी तरह होकर भी अवचनीयता चाहनेवाले पुरुषके समान तरकशके सम्मुख बढ़ गया॥ ३७॥
आघट्टयामास गतागताभ्यां सावेगमग्राङ्गुलिरस्य तूणौ।
विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः॥ ३८॥
मल्लि०— आघट्टयामासेति। अस्य मुनेः। अग्रं चासावङ्गुलिश्चेत्यग्राङ्गुलिः 'हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदात्' इति वामनः। विधेयमार्गे कर्त्तव्यान्वेषण उत्सुकस्य प्रवृत्तस्य गां भुवं जिगीषोर्नयिकस्य मतिर्बुद्धिर्नयंः षाड्गुण्यं प्रयोग उपायस्तौ नयप्रयोगाविव तूणौ निषङ्गो सावेगं ससम्भ्रमम्। 'इष्टानिष्टागमाज्ञाने आवेगश्चित्तसंभ्रमः' इति शाश्वतः। गतागताभ्यां यातायाताभ्यामावापोद्वापाभ्यां वाऽऽघट्टयामास। अन्यत्र तु— वितर्कयामास। शरग्रहणाय पुनः पुनस्तूणयोः पाणि व्यापारायामासेत्यर्थः।
हिन्दी— इस मुनि (अर्जुन) का अंगुलिका अग्रभाग कर्त्तव्यके अन्वेषणमें उत्सुक पृथिवीको जीतनेकी इच्छा करनेवालि नायककी बुद्धि जैसे नीति और प्रयोग बारंबार वितर्क करती है उसी तरह तरकशमें वेगके साथ बारम्बार पड़ने लगा॥ ३८॥
बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ।
युगान्तसंशुष्कजलो विजिह्वः पूर्वापरौ लोक इवाम्बुराशी॥ ३९॥
मल्लि०— बभारेति। शून्याकृतिरिष्टनाशास्तिस्तेजस्करूपोऽर्जुनः। तौ वीतमहेषुजालौ वीतानि गतानि महेषुजालानि ययोस्तौ महेषुधी महानिषङ्गो