सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पञ्चदशः सर्गः ३६३

पञ्चदशः सर्गः ३६३

सगणस्य = सानुगस्य शत्रोः, सारं = सत्त्वं विनेष्यन् = अपनेष्यन् । प्रस्वाप्यते
शाय्यतेऽनेनेति प्रस्वापनं तदेव वस्त्रम् । घनानद्धो = मेघव्याप्तोऽर्धरात्रो निशीथः ।
‘अर्धरात्रनिशीथौ द्वौ’ इत्यमरः ‘अर्धं नपुंसकम्’ इति समासः । ‘ अहःसर्वैकदेशे-’
त्यादिना समासान्तः । ‘रात्राह्नाहाऽ पुंसि’ इति पुंल्लिङ्गता । ध्वान्तमिव द्रुत-
माजहाराचकर्ष ॥ २५ ॥

हिन्दी—अनिवार्य पराक्रमवाले अर्जुनने ऐसा निश्चय कर प्रमथगणोंके साथ
शत्रुके पराक्रमको हटानेकी इच्छा करते हुए जैसे मेघसे व्याप्त आधीरात अन्धकार-
को आकृष्ट करती है उसी तरह प्रस्वापन अस्त्रको खींच लिया ॥ २५ ॥

प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा छाया ततानेशबलानि काली ॥ २६ ॥

मल्लि०—प्रसक्तेति । 'प्रसक्तः संततो यो दावानलधूमस्तद्वद्धूम्रा = धूसरा
सहस्ररश्मेर्घाम तेजो निरुन्धती । आवृण्वती काली = कृष्णवर्णा । ‘जानपद—’
इत्यादिना ङीष् । छाया = कान्तिः, ईशबलानि महातमिस्रा = महती तमःसंततिः ।
'तमिस्रा तु तमस्ततिः' इति विश्वः । महावनानीव ततान=व्यानशे । युग्मम् ।२६।

हिन्दी—व्याप्त दवाग्निके धूमके समान धूसरवर्णवाली और सूर्यके तेजको
आच्छादित करती हुई कृष्णवर्णवाली कान्तिने शिवजीके सैन्योंको जैसे बड़ी
अन्धकारकी पंक्ति बड़े-बड़े वनोंको व्याप्त करती है उसी तरह व्याप्त कर
डाला ॥ २६ ॥

आसादिता तत्प्रथमं प्रसह्म प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ॥ २७ ॥

मल्लि०—आसादितेति । तदेवासावनं प्रथमं तत्प्रथमं यथा तथा प्रसह्मासा-
दिता कल्पिता प्रगल्भताया व्यवहारधार्ष्टर्यस्य पदवीं हरन्ती भीमा=भयंकरी, निद्रा
उक्तविशेषणा सभा संसदिव । गणानां प्रतिभा प्रज्ञाशक्तिः सैव गुणस्तस्य निरासं =
प्रतिभाक्षयं विदधे = चक्रे ॥ २७ ॥

हिन्दी—वही पहले-पहल हठात् कल्पित होकर व्यवहारकी क्षमताके मार्गको
दूर करती हुई भयङ्कर निद्राने सभाके समान प्रमथगणोंकी बुद्धि शक्तिरूप गुणका
क्षय कर दिया अर्थात् अर्जुनके प्रस्वापन अस्त्रने शिवजीके प्रमथगणोंको निद्रित
कर दिया ॥ २७ ॥

३६४किरातार्जुनीयम्

गुरुस्थिराण्युत्तमवंशजत्वाद्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ॥ २८ ॥

**मल्लि०—**गुर्विति । केचिदुत्तमवंशजत्वात् वंशो वेणुः कुलं च । 'वंशो वेणौ कुले च' इति विश्वः । गुरूणि = महान्ति, स्थिराणि = दृढानि च गुरुस्थिराणि । अनुशीलिनेन = परिचयबलेन, विज्ञातः सारो बलं येषां तानि, गुणैर्मोर्वीभिः शौर्यादिभिश्च अन्वितानि धनूंषि, सुहृत्कुलानि = मित्रकुलानीव, समाश्रित्य तस्थुः । धनुर्ध्वष्टभ्य निदध्युरित्यर्थः ॥ २८ ॥

**हिन्दी—**किरात सेनामें कुछलोग उत्तम जातिके बांसमें उत्पन्न होनेसे बड़े और दृढ़ परिचयके बलसे जाने गये बलवाले प्रत्यञ्चासे युक्त धनुषका, उत्तम कुलमें उत्पन्न होनेसे बड़े और स्थिर तथा परिचयके भरोसेसे जानी गई शक्तिवाले और गुणोंसे युक्त मित्रकुलकी तरह अवलम्बन कर स्थित हुए ॥ २८ ॥

कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ॥ २९ ॥

**मल्लि०—**कृतान्तेति । कृतान्तदुर्वृत्ते = दैवदुश्चेष्टित इव । 'कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु' इति विश्वः । पाण्डवास्त्रे पुरः प्रतिद्वन्द्विनि = प्रतिकूलवर्तिनि सति तया तस्मिन्काले । अपरेषामायुधानि क्रियाफलानीव = कृष्यादिफलानीव अतर्कितमविचारितमेव पाणितलान्निपेतुः ॥ २९ ॥

**हिन्दी—**दैवकी दुश्चेष्टाके समान अर्जुनका अस्त्र सामने प्रतिकूल होकर रहनेवाले होनेपर उस समय अन्य लोगोंके हथियार क्रियाफलोंके समान अतर्कित रूपसे हाथसे गिर पड़े ॥ २९ ॥

अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् ।
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ॥ ३० ॥

**मल्लि०—**अंसेति । अभिन्नधैर्यास्तदानीमप्यक्षतधैर्याः, केचिदंसस्थलैरंसभागैः सह संश्लेषवतां = संसक्तानां, तरूणां स्कन्धेषु = प्रकाण्डेषु मदेन मीलन्ति नयनानि येषां ते नागा गजा इव स्रस्तकराः=स्रस्तहस्ताः सन्तः सलीलं निषेदुर्निषण्णाः ।३०।

**हिन्दी—**उस समय भी अक्षत धैर्यवाले कुछ लोग कन्धेसे संलग्न होनेवाले कुछ लोग कन्धेसे संलग्न होनेवाले वृक्षोंके प्रकाण्डों पर मदसे मूंदे गये नेत्रोंवाले हाथीके समान शिथिल कर (सूंड) वा हाथवाले होकर लीलापूर्वक बैठ गये ॥३०॥