सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

नवमः सर्गः | १७३

नवमः सर्गः१७३

सुकुमारः काम इति प्रवादमात्रम् । वस्तुतस्तु पीडयन्नेव सुखमावहतीति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

हिन्दी- आलिङ्गन नखक्षतरूप कारणोंसे सत्कृत हो गये । चुम्बन गाढ़े दन्त-क्षतरूप कारणोंसे सत्कृत हो गये । सुकुमारतारूप गुणसे यश पाया हुआ कामदेव संभोगोंमें भी न कि केवल विप्रलम्भमें क्रूर ही होता है ॥ ४९ ॥

अथाभ्यन्तर रतमाह--

पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः ।

योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥ ५० ॥

मल्लि०--पाणीति ॥ रहसि एकान्ते इति विश्रम्भातिशयोक्तिः । गद्गदवाचां स्खलद्गिरां योषितां संबन्धीनि पाणिपल्लवयोर्विधूननं कम्पनम् । अन्तः सीत्कृतानि सीत्काराः । एतेन कुट्टमिताख्यो भाव उक्तः । अधरपीडनादौ सुखेऽपि 'दुःखवदुपचारः कुट्टमितम्' इति लक्षणात् । नयनानामर्धनिमेषा अर्द्धनिमीलितानि । रहस्येकान्ते गद्गदवाचां योषितामिति विशेषणसामर्थ्याद् गद्गदकण्ठत्वं चेत्येतानि मदनस्यास्त्रतामुपययुः । अस्त्रवत् पुंसामुद्दीपनान्यासन्नित्यर्थः । सीत्कारार्धनिमेषादिना सुखपारवश्यं व्यज्यते । तदुक्तं रतिरहस्ये—'स्रस्तता वपुषि, मीलनं दृशोर्मूर्च्छना च रतिलालसालक्षणम् । श्लेषयेत्स्वजघनं मुहुर्मुहुः सीत्करोति गतलज्जिताकुला ॥' इति ॥ ५० ॥

हिन्दी- एकान्तमें गद्गद वाणीवाली स्त्रियोंके पल्लवोंके समान हाथोंका हिलाना, भीतर सीत्कार ध्वनि, नेत्रोंका अर्ध मुद्रण (मूँदना) ये सब कामदेवके अस्त्ररूप हो गये ॥ ५० ॥

अथ मधुपानवर्णनमारभते—

पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि ।

सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ॥ ५१ ॥

मल्लि०—पातुमिति ॥ युवान आहितरतीनि वर्धितरागाण्यत एव अपुनरुक्तरसानि पुनःपुनः पानेनाप्यपूर्वस्वादान्यत एव तर्षयन्ति तृष्णोत्पादकानि । अतृप्तिकराणीत्यर्थः । सस्मितानि वधूनां वदनानि सोत्पलानि मधूनि च पातुमभिलेषुरिच्छन्ति स्म । अत्र प्रस्तुतानामेव वदनानां मधूनां च पानक्रियोपम्यस्य गम्यत्वा-

१७४ | किरातार्जुनीयम्

त्केवलं प्राकरणिकविषयतया तुल्ययोगितालङ्कारः । 'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति लक्षणात् ।

हिन्दी— तरुण गन्धर्वोने अनुरागको बढ़ाये हुए, अपूर्व आस्वादवाले, तृष्णाको उत्पन्न करनेवाले, मन्दहास्यसे युक्त अप्सराओंके मुखोंको और उत्तरयुक्त मधोंको भी पीनेका अभिलाष किया ॥ ५१ ॥

कान्तसंगमपराजितमन्यो वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ संदधे धनुषि नैषुमनङ्गः ॥ ५२ ॥

मल्लि०— कान्तेति ॥ कान्तसंगमेन पराजितो मन्यो व्यक्तकोपो । तद्वद्धिर्हृदा- तस्येति भावः । किञ्च, वारुणीरसनेन मध्वास्वादनेन शान्तो विवादो वाक्यकलहादिर्यस्य तस्मिन् । अत उपाहितसंधौ प्रियेः सह कृतसंधाने मानिनीजने विषयेऽनङ्गो धनु- षीषुं न संदधे संधानं नाकरोत् । सिद्धसाध्ये साधनवैयर्थ्यादिति भावः ।

हिन्दी— प्रियके समागमसे क्रोधको छोड़ी हुई, मदिराके आस्वाद करनेसे शान्त विवाद ( कलह ) वाली प्रियके साथ सन्धि करनेवाली मानिनी नायिकाके विषयमें कामदेवने धनुमें बाणका सन्धान नहीं किया ॥ ५२ ॥

कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः ।
इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ॥ ५३ ॥

मल्लि०— कुप्यतेति ॥ यूनां प्रियान् कुप्यत यूनां कोपं जनयत । नात्र 'क्रुधद्रुहे—'त्यादिना यूना संप्रदानत्वे चतुर्थी । तस्य 'यं प्रति कोपः' इति निय- मात् । अत्र कोपस्तावत्कृत्रिम इति आशु आनतचित्ता भवत । किञ्च, कोपितांस्तान् वरिवस्यत परिचरत । 'नमोवरिवश्चित्रङ्भ्यः क्यच्' इति क्यच् । वरिवसः परिचर्या- यामित्यर्थे तस्य नियमश्च । इति एवम् । अनेकोऽनेकप्रकारो यः उपदेशः प्रवर्त्तक- वाक्यं स इव मधुवारो मधुपानवृत्तिः । 'मधुधारा मधुकनाः' इत्यमरः । युवतिभिः स्वाद्यते स्म । मधुवारस्य कोपादिकार्यप्रवर्त्तकत्वसाम्यादुपदेश इवेत्युत्प्रेक्षा । अनि- यता खलु मत्तचेष्टा इति भावः ।

हिन्दी— जवानों ( अपने प्रणयी जनों ) को कुपित करा दो, शीघ्र अनुकूल चित्तवाली हो जाओ, कुपित कराये गये अपने प्रणयी जनोंकी सेवा कर लो इस प्रकार अनेक प्रकारके उपदेशके समान युवतियोंने बारंबार मद्यका आस्वादन किया ॥ ५३ ॥

नवमः सर्गः । १७५

भर्तृभिः प्रणयसंभ्रमदत्तां वारुणीमतिरसां रसयित्वा ।
ह्रीविमोहविरहादुपलेभे पाटवं नु हृदयं नु वधूभिः ॥ ५४ ॥

मल्लि०— भर्तृभिरिति ॥ भर्तृभिः प्रणयसंभ्रमाभ्यां प्रेमादराभ्यां दत्ताम् । ‘संभ्रमः साध्वसेऽपि स्यात्संवेगादरयोरपि’ इति विश्वः । अत एव, अतिरसांमधिकस्वादां वारुणीं वरुणात्मजां सुरां 'हलिप्रिया हाला परिस्रुन्मद्यमात्मज' इत्यमरः । रसयित्वाऽऽस्वाद्य वधूभिर्ह्रीविमोहविरहाद् मदेन लज्जाजाड्यविगमद्धेतोः पाटवं पटुत्वं न हृदयं ज्ञानविशेषं न उपलेभे । अत एव हृदयस्य प्रकाशज्ञानसामर्थ्याद्दिधृष्टारम्भे प्रागप्रकाशलक्षणित संदेहः । अन्यथा कथं प्रियं प्रति प्रकान्तप्रागल्भ्येषु प्रवृत्तिरिति भावः । संदेहालङ्कारः ।

हिन्दी— अप्सराओंने अपने प्रणयीसे प्रेम और आदरसे दी गई, अधिक आस्वादवाली मदिराका पान कर मदके कारण लज्जा और मोह (जडता) के चले जानेसे पटुता वा ज्ञानविशेषको पा लिया ॥ ५४ ॥


स्वादितः स्वयमथैधितमानं लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां नैकरूपरसतामिव भेजे ॥ ५५ ॥

मल्लि० — स्वादित इति ॥ स्वयं स्वादितः । आदौ स्वयमेवादाय पीत', अनन्तरं प्रियतमैरेधितमानं वर्धितबहुमानं यथा तथा लम्भितो ग्राहितः स्वहस्तेनपायित इत्यर्थः । ततः प्रियतमैः सह पीतः । युगपदेकपात्रेण पीत इत्यर्थः । आसवः प्रमदानां प्रतिपदं प्रतिवारं नैकरूपरसतामनेकविधस्वादुत्वम् । नञर्थस्य नञ्शब्दस्य सुप्सुपेति समासः । नञ्समासे नलोपः स्यात् । भेजे इव प्रापेव । उत्तरोत्तरविशेषाद्भोज्येषु रसविशेषः स्यादिति भावः । आस्वादनादिपदार्थानामनेकरूपताप्राप्तिहेतुत्वात् काव्यालिङ्गं तावदेकं स्वादिनादीनामनेककर्मणामेकस्मिन्नेव सर्वकर्मेण सम्बन्धात्पर्यायभेदश्च, तयाश्च संसृष्ट्योनेकरसत्वोत्प्रेक्षायानेकत्वात्तया सहाङ्गाङ्गिभावेन सङ्करः ।

हिन्दी— पहले स्वयम् लेकर पी गई, अनन्तर प्रियतमके समान बढ़ाकर ग्रहण कराई गई, तब प्रियतमके साथ एक ही पात्रमे पी गई मदिराने सुन्दरियोंके लिए प्रतिबार मानों अनेक प्रकारकी स्वादुता (मिठास) को प्राप्त किया ॥ ५५ ॥


भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् ।
आददे मृदुविलोलपलाशैरुत्पलेष्वषकवोचिषु कम्पः ॥ ५६ ॥

१७६किरातार्जुनीयम्

मल्लि०— भ्रूविलासेति ॥ भ्रूविलासैः सुभगान् सुन्दरान् । वधूनयनानां विभ्रमाननुकर्तुं तैरात्मानं समीकर्तुमिवेति फलोत्प्रेक्षार्थत्वात् । मृदुविलोल्पलाशै- रीषच्चञ्चलदलैः । उत्पलैः । चषकेषु या वीचयो मधूर्मयस्तासु यः कम्पः आददे स्वीकृतः । न तु स्वकम्पस्तस्य विलोलविशेषणेनैवोक्तत्वान्नत्स्वीकारश्च तद्योग एव । पूर्वं नेत्रमात्रसाम्यभाजामुत्पलानां कम्पमानवीचियोगात्तद्भूविलासनेत्रसाम्यं जात- मित्यर्थः ।

हिन्दी — भ्रूविलासोंसे सुन्दर, मानों अप्सराओंके नेत्रोंके विलासोंका अनुकरण करनेके लिए कोमल और चञ्चल पत्तेवाले कमलोंसे पानपात्रोंमें मदिराकी तरङ्गोंसे कम्प स्वीकृत हुआ ॥ ५६ ॥

ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानाम् ।
फुल्ललोचनवनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ॥ ५७ ॥

मल्लि०—ओष्ठेति । ओष्ठ एव पल्लवस्तस्य विदंशे दशने रुचिरभिलाषो येषां तेषाम् । मुखसुरापानमिषेणाधरं पिपासतामित्यर्थः । रमणानां फुल्लानि लोचनान्येव विनीलसरोजानि येषु तैः अङ्गनास्यचषकैः मधुवारो मधुपानवृत्तिर्हृद्यतां हृदयप्रियतामुपययौ । ‘हृदयस्य प्रिय’ इति यत्प्रत्ययः । ‘हृल्लेखयदण्णखेषु-’ इति हृद्भावः । रमणविशेषणार्थहेतुककाव्यलिङ्गसङ्कीर्णरूपकालङ्कारः ।

हिन्दी—पल्लवरूप ओष्ठको क्षत करनेके लिए अभिलाष करनेवाले प्रियतमों- के विकसित नेत्ररूप नीलकमलोंसे युक्त सुन्दरियोंके मुखरूप चषकों (पानपात्रों) से मदिरापानका व्यापार चित्तका प्रिय हो गया ॥ ५७ ॥

प्राप्यते गुणवतापि गुणानां व्यक्तमाश्रयवशेन विशेषः ।
तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥ ५८ ॥

मल्लि०—प्राप्यत इति । गुणवताप्याश्रयवशेन गुणानां विशेषः प्रकर्षः प्राप्यते व्यक्तम् । तत्तथा । यदुक्तं तत्तथैवेत्यर्थः । हि यस्मात् दयितानामाननेन करणेन दत्तं मधु रसातिशयेन स्वादुप्रकर्षेण कर्त्रा व्यानशे व्याप्तम् । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ।

हिन्दी—गुणोंसे सम्पन्न भी आश्रयके कारण गुणोंका उत्कर्ष प्राप्त करता है यह स्पष्ट है । क्योंकि प्रियतमाके मुखसे दी गई मदिरा आस्वादके उत्कर्षसे व्याप्त हो जाती है ॥ ५८ ॥