सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

नवमः सर्गः १६९

नवमः सर्गः १६९

किं गतेन न हि युक्तमुपैतुं, कः प्रिये सुभगमानिनि ! मानः ।
योषितामिति कथासु समेतैः कामिभिर्बहुरसा धृतिरूहे ॥ ४० ॥

मल्लि०—किमति । पुनर्नायिकाह—तर्हि गतेन तं प्रति गमनेन किम् । कोऽर्थ इत्यर्थः । अत उपैतुं गन्तुं न युक्तं हि । पुनः सख्याह—हे सुभगमानिनि सौन्दर्य-मानिनि । सुभगमात्मानं मन्यत इति । ‘आत्ममाने खश्च’ इति चकाराण्णिनिप्रत्ययः । तस्मिन्, प्रिये विषये को मानः । मानो न कर्तव्य इत्यर्थः । यद्वा—नहीत्यादि सखीवाक्यम् । तत्र नहीत्येकं वाक्यम् । यदुक्तं सखीत्यर्थः । हे सखि, किं तूपैतुं युक्तम् । कुतः । सुभगमानिनि प्रिये को मानः । तादृग्जनस्य दुर्लभत्वादिति भावः । इति एवंरूपासु योषितां कथासु विषये समेतैः । समीपमगत्याऽऽकर्णयद्भिरित्यर्थः । कामिभिर्बहुरसाऽनेकास्वादा धृतिः संतोष ऊहे ऊढा । अत्र परोक्षोक्त्युक्तनिर्वेशाद्य-नेकभावशबल्यपरिपूर्णकान्ताकथाकर्णनादुत्तरोत्तरमपूर्वहृदयानन्दनिष्ठामन्दानन्दसंदो-हमविन्दन्नित्यर्थः । प्रविभक्ता प्रौढाः कलहान्तरिताश्च नायिकाः ।

हिन्दी—फिर नायिका कहती है---तब फिर उनके पास जाना ठीक नहीं है । सखी कहती है—अरे ! अपने सौन्दर्यका अभिमान करनेवाली ! प्रियके विषयमें क्या मान (अभिमान) करती हो ? इस प्रकारके स्त्रियोंके वचनोंमें समीप आकर सुनते हुए प्रियजनोंने अनेक आस्वादवाले सन्तोषको प्राप्त किया ॥ ४० ॥

योषितः पुलकरोधि दधत्या घर्मवारि नवसङ्गमजन्म ।
कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ॥ ४१ ॥

मल्लि०—योषित इति । पुलकरोधि रोमाञ्चव्यापि नवसंगम एव जन्म यस्य तत् । घर्मवारि स्वेदोदकं दधत्या इति सात्त्विकोक्तिः । कान्तवक्षसि पतन्त्या इत्योत्सुक्योक्तिः । योषितो या लुलितमण्डनता उत्सृष्टप्रसाधनत्वम् । भावे तल् । सैव मण्डनं बभूव । तादृशफलवत्त्वात्स्येति भावः ।

हिन्दी—रोमाञ्चको व्याप्त करनेवाले, नव समागमसे उत्पन्न श्रमजल- ( पसीने ) को धारण करती हुई और प्रियके वक्षःस्थल (छाती) पर पड़ती हुई स्त्रीकी शरीरकी सजावट मिटना भी भूषणरूप हो गया ॥ ४१ ॥

शीधुपानविधुरासु निगृह्णन्मानमाशु शिथिलीकृतलज्जः ।
सङ्गतासु दयितैरुपलेभे कामिनीषु मदनो नु मदो नु ॥ ४२ ॥

मल्लि०—शीध्विति ॥ शेरतेऽनेनेति शीधु पक्वेक्षुरसविकारो मद्यविशेषस्तस्य

१७०किरातार्जुनीयम्

पानेन विधुरासु विमूढासु । तथा दयितैः संगतासु स्वयं प्राप्तासु च कामिनीषु दक्षि-
मानवतीषु । आशु मानं कोपं निगृह्णन् निवर्तयन् शिथिलीकृता लज्जा येन स मदनो
नु मदो नु । उपलेभे । लक्ष्यते स्मेत्यर्थः । प्रियसमागमशीधुपानरूपोभयकारण-
भङ्गादुभयथा माननिग्रहाद्यनुभावसाधारण्याच्च सन्देहः । स एवालङ्कारः

हिन्दी — शीधु (मदिराविशेष) पीनेसे मतवाली और अपने प्रियके पास
पहुँची हुई मानवती अप्सराओंमें शीघ्र मान (कोप) को दूर करता हुआ और
लज्जाको भी शिथिल करनेवाला कामदेव है या मद है? (नहीं कह सकते हैं।)

द्वारि चक्षुरधिपाणि कपोलो, जीवितं त्वयि, कुतः कलहोऽस्याः ?
कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वमियाय ॥ ४३ ॥

मल्लि० — द्वारीति ॥ द्वारि त्वदागमनमार्ग एव चक्षुः, इत्यौत्सुक्योक्तिः ।
अधिपाणि पाणौ करे कपोलो इति चिन्तोक्तिः । किं बहुना, जीवितं त्वयि
त्वदधीनम् । त्वां विना न जीवतीत्यर्थः । इति गाढानुरागोक्तिः । अतोऽस्याः कलहो
विग्रहः कुतः । इति एवं कामिनां प्रीतये पुनरुक्तं पुनःपुनःरुच्यमानं वचो दूती-
वाक्यं नवनवत्वं नवप्रकारत्वमपूर्ववद्भावम् । इयाय । प्रकारार्थे द्विर्भावः । कर्मधार-
यवद्भावात्सुपो लुक् । कान्तानुरागप्रकट्नात् कामिनः प्रहृष्यन्तीति भावः । कल-
हान्तरितेयम् ।

हिन्दी — कलहान्तरिता नायिकाओंकी सखियाँ उनके प्रिय नायकोंसे कहती
है—'आपकी प्रियाकी दरवाजेमें दृष्टि, हाथमें कपोल, और आपमें अधीन
जीवन है, इस कारण इनका कलह (झगड़ा) ही कहाँ है?' इस प्रकार कामुक
नायकोंकी प्रीतिके लिए वारंवार कहा गया दूतीका वाक्य अपूर्व भावको प्राप्त
हुआ ॥ ४३ ॥

साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् ।
सुभ्रुवो जनयति स्म विभूषां, सङ्गतावुपरराम च लज्जा ॥ ४४ ॥

मल्लि० — साचीति ॥ लोचनयुगं साचि तिर्यङ् नमयन्ती प्रिये तिर्यक् पात-
यन्ती । न तु समरेखयेत्यर्थः । दयितवक्षसि पातं रुन्धती दृष्टिमपि प्रतिबध्नती
लज्जा सुभ्रुवो नायिकाया विभूषां शोभां जनयति स्म । सङ्गतौ सुरतप्रसङ्गे सति,
उपरराम च । एवं यतस्तदा चाभूषणमेवेति भावः । 'विभाषाकर्मका' इति परस्मै-
पदम् ।

नवमः सर्गः । १७१

हिन्दी—दोनों नेत्रोंको नायकमें तिरछे (सीधे नहीं) डालती हुई, प्रियके वक्षःस्थल (छाती) में पतनको रोकती हुई लज्जा सुन्दरीकी शोभाको उत्पन्न करती थी; परन्तु संभोगके प्रसङ्गमें वह (लज्जा) भी दूर हो गई ॥ ४४ ॥

सव्यलीकमवधीरिखिन्नं प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः ॥ ४५ ॥

मल्लि०—सव्यलीकमिति। सव्यलीकं सापराधम्, अत एव अवधीरितोऽवज्ञानः सन् खिन्नस्तम् । 'पूर्वं काल' - इत्यादिना तत्पुरुषः । सपदि कोपस्य पदेन व्याजेन प्रस्थितं निर्गच्छन्तं प्राणनाथं प्रियं योषितः संबन्धी अभिवाष्पनिपातः आभिमुख्येना-श्रुमोक्षः सुहृदिव रुणद्धि स्म रुरोध । बाष्पपातस्य मन्युमोक्षलिङ्गतया प्रस्थान-प्रतिबन्धकत्वात् सुहृदोपम्यम् । इयमधीरा खण्डिता—ज्ञातेऽन्यासङ्गिनि पतौ खण्डिते-र्ष्याकषायिता । अधीराश्रु विमुञ्चन्ती विज्ञेया चात्र नायिका ॥' इति दशरूपके।

हिन्दी--किसी (अधीरा खण्डिता) नायिकाके अपराधी होनेसे तिरस्कृत, खिन्न और उसीक्षण क्रोधके बहाने प्रस्थान करते हुए प्राणनाथको सामने ही किये गये नायिकाके अश्रुपातने मित्रके समान रोक डाला ॥ ४५ ॥

शङ्किताय कृतबाष्पनिपातामोर्ष्यया विमुखितां दयिताय ।
मानिनीमभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ॥ ४६ ॥

मल्लि०—शङ्कितायेति ॥ शङ्किताय दयितायाविश्वस्ताय नायकाय । ईर्ष्यया विमुखितां विमुखीकृताम् । अत एव कृतबाष्पनिपातां मानिनीं घनरोमविभेदः सान्द्रपुलकोदयोऽभिमुखमाहितं चित्तं यया ताम् । निष्कोषामित्यर्थः । शंसति स्म । व्यनक्तिस्मेत्यर्थः । अन्यथा सात्त्विकानुदयादिति भावः । अत्रापि पूर्वोक्तैव नायिका ।

हिन्दी--अविश्वस्त नायकके लिए ईर्ष्यासे पराङ्मुख की गई मानिनीको गाढ रोमाञ्चको उत्पत्तिने यह अब कोपरहित है ऐसी सूचना दे दी ॥ ४६ ॥

अथ संभोगशृङ्गारमाह, तत्रापि बाह्यरंतमाह—

लोलदृष्टि वदनं दयितायाश्चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलतामुपपेदे ॥ ४७ ॥

मल्लि०—लोलेति ॥ प्रियतमे लोलदृष्टि चञ्चलेक्षणं दयिताया वदनं रभसेन बलात्कारेण चुम्बति सति विनीवि निर्गतबन्धनम् । अंशुकं नितम्बाद् व्रीडया सह

१७२ | किरातार्जुनीयम्

शिथिलतामुपपेदे । उभयमपि शिथिलमासीदित्यर्थः । अत्र व्रीडांशुक रूपसंबंधिभेद-भिन्नवृत्तित्त्वंसनरूपशैथिल्यस्याभेदाध्यवसायनिबन्धनातिशयोक्तिमूलः—सहोक्तिविशेषोऽलङ्कारः । अत एव व्रीडांशुकौपम्यं च कष्टव्यम् । अत्र वात्स्यायनः—'बाह्याभ्यन्तरं चेति द्विविधं रतमूच्यते । तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम् ॥ द्वितीयं सुरतं साक्षात्नानाकरणकल्पितम् ॥' इति ।

हिन्दी — चञ्चल नेत्रोंवाले प्रियाके मुखको प्रियतमके बलात्कारपूर्वक चुम्बन करने पर नीवी ( वस्त्रग्रन्थि ) से रहित वस्त्र ( साड़ी ) नितम्बसे लज्जाके साथ साथ शिथिल हो गया ॥ ४७ ॥


ह्रीतया गलितनीवि निरस्यन्नन्तरीयमवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ॥ ४८ ॥

मल्लि०—ह्रीतयेति ॥ गलितनीवि गलितबन्धं तथापि अवलम्बिता काञ्ची येन तत् । काञ्चीलग्नमित्यर्थः । तत्, अन्तरीयमधोंशुकम् । 'अन्तरीयोपसंभ्यानपरिधानान्यधोंशुके' इत्यमरः । निरस्यन् आक्षिपन् । हृदयेशः प्रियो ह्रीतया वस्त्रोपगमाल्लज्जितया । ह्रीवातोः कर्तरि क्तः । दयितया मण्डलीकृतो वर्तुलीकृतः पृथुस्तनभारो यस्मिन्कर्मणि तद्यथा तथा । गाढमित्यर्थः । सस्वज आश्लिष्टः । प्रियदृष्टेः प्रतिबन्धार्यमित्यर्थः ।

हिन्दी — नीवी ( वस्त्रग्रन्थि ) से रहित तथाऽपि काञ्चीका अवलम्बन किये हुए नायिकाके अधोवस्त्रको खींचते हुए प्राणेश्वर ( नायक ) को लजाई हुई प्रियाने स्तनभारको गोल कर आलिंगन कर डाला ॥ ४८ ॥


आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरतेष्वपि कामः ॥ ४९ ॥

मल्लि०—आदृता इति ॥ परिरम्भा आलिङ्गनानि नखपदैर्हेतुभिः । आदृता अभिमताः । 'हेतौ' इति तृतीया । तथा चुम्बितानि चुम्बनानि घनदन्तनिपातैर्गाढदन्तक्षतैर्हेतुभिरादृतानीति लिङ्गविपरिणामः । रतसुखोपकरत्वात्नखदन्तक्षतपूर्वकेष्वालिङ्गनचुम्बनेष्वादरः संवृत्तइत्यर्थः । ननु सुकुमारे कामतन्त्रे कथं पीडाकरेष्वादर इति न वाच्यमित्याह—सौकुमार्येति । सौकुमार्यमेव गुणस्तेन संभृतकीर्तिर्लब्धयशाः कामः सुरतेषु संभोगेष्वपि । न केवलं विप्रलम्भेष्विति भावः । वामः क्रूर एव ।