सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

नवमः सर्गः १६१

नवमः सर्गः १६१

हुई प्रसाद (निर्मलता) रूप गुणरूप अलंकारवाले हास्यके समान किरणसे विशद मुखके समान अग्रभागको धारण करती थी ॥ १८ ॥

नीलनीरजनिभे हिमगौरं शेलरुद्धवपुषः सितरश्मेः ।
खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गमिवाम्भः ॥ १९ ॥

मल्लि०-नीलेति। शेलरुद्धवपुष उदयगिरितिरोहितमण्डलस्य सितरश्मेरिन्दोः संबन्धि नीलनीरजनिभे श्यामकमतुल्ये खे आकाशे निपतत् प्रसरत् हिमवद् गौरं शुभ्रं करजालमंशुसमूहो वारिधेः पयसि निपतद् गाङ्गमम्भ इव रराज। उपमानेऽपि विशेषणानि योज्यानि।

हिन्दी--उदयपर्वतमे तिरोहित मण्डलवाले चन्द्रमाके नीलकमलके समान आकाशमें फैलता हुआ बर्फके समान सफेद किरणसमूह समुद्रके जलमें पडकर गङ्गाजलके समान शोभित हो गया ॥ १९ ॥

द्यां निरुन्धदतिनीलघनाभं ध्वान्तमुद्यतक रेण पुरस्तात् ।
क्षिप्यमाणमसितेतरभासा शंभुनेव करिचर्म चकासे ॥ २० ॥

मल्लि०-द्यामिति । द्यां निरुन्धत् आकाशमावृण्वत् । अतिनीलघनाभं मेचकम् । उद्यन्तः करा अंशवो हस्ताश्च यस्य तेन । असिताभ्य इतराः शुभ्रा भासो यस्य तेन चन्द्रेण पुरस्तात् प्राच्यामग्रे च क्षिप्यमाणं नुद्यमानं ध्वान्तं शंभुना क्षिप्यमाणं करिचर्मेव चकासे । उपमानेऽपि विशेषणानि योज्यानि ।

हिन्दी--आकाशको आच्छादित करता हुआ, अत्यन्त नीलवर्णवाले मेघके समान नीलवर्ण, उगते हुए कर (किरणों) और हाथोंवाले सफेद कान्तिवाले चन्द्रमासे पूर्व दिशा और अग्रभागमें हटाया जाता हुआ अन्धकार, ताण्डवनृत्यमें शिवजीसे फेंके जाते हुए हाथीके चर्मके समान शोभित हुआ ॥ २० ॥

अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
निःसृतस्तिमिरभारानरोधादुच्छ्वसन्निव रराज दिगन्तः ॥ २१ ॥

मल्लि०-अन्तिकेति । अन्तकान्तिकेऽतिसमीपे । 'प्रकारे गुणवचनस्य' इति द्विर्भावः । कर्मधारयवद्भावात्सुपो लुक् । अन्तिकान्तिकगतेनेन्दुना विसृष्टे मुक्ते दीधितिजाले किरणसमूहे जिह्मतां संकोचं जहति त्यजति सति तिमिरभारैस्तमःस्तोमैर्निरोधादुपरोधात् । निःसृतो निर्गतो दिगन्त उच्छ्वसन् प्राणन् इव रराजेत्युत्प्रेक्षालङ्कारः ।

११ कि०

१६२किरातार्जुनीयम्

हिन्दी — अतिशय समीप आये हुए चन्द्रमासे छोड़े गये किरणसमूहके संकोच को छोड़नेपर अन्धकारसमूहोंकी रुकावटसे निकला हुआ होकर दिशाका भाग मानों उच्छ्वास लेता हुआ सुशोभित हुआ॥ २१ ॥

लेखया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे।
दंष्ट्रया कनकटङ्कपिषङ्ग्या मण्डलं भुव इवादिवराहः॥ २२॥

मल्लि० — लेखयेति। इन्दुविमलविद्रुमभासा स्वच्छप्रवालसवर्णया लेखया कलया सततं सान्द्रं तिमिरमादिवराहः कनकस्य टङ्कः शिलाभेदकं शस्त्रम्। 'टङ्कः पाषाणदारणः' इत्यमरः। तद्वत् पिषङ्ग्या लोहितवर्णया। 'पिषङ्गाद्द्वेपंतह्रस्वानम्' इति ङीप्। दंष्ट्रया भुवो मण्डलमिव। उदास उच्चिक्षेपे। अस्यतेः कर्तरि लिट्। सोपसर्गात्स्यतेरात्मनेपदं विकल्पात्।

हिन्दी — चन्द्रमाने निर्मल प्रवालके समान कलासे गाढ अन्धकारको उस तरह फेंक दिया जैसे आदिवराहने सुवर्णके शिलाभेदक शस्त्रके समान पीली वर्णवाली दाढ़ से भूमण्डल उठाकर फेंक दिया था ॥ २२ ॥

दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः॥ २३॥

मल्लि० — दीपयन्निति। अथ उदयान्तरं किरणौघैर्नभो दीपयन् प्रकाशयन् कुङ्कुमेनारुणो यः पयोधरः कुचस्तद्वत् गौरोऽरुणः। उदयरागादिति भावः। तुहिनांशुरिन्दुः शनकैः पूर्वपयोधेः पूर्वसागरात् हेम्नः कुम्भ इव उन्ममज्ज उज्जगामेत्युत्प्रेक्षा।

हिन्दी — उदयके बाद किरणसमूहसे आकाशको प्रकाशित करता हुआ कुङ्कुमसे लाल कुचके समान अरुणवर्णवाला चन्द्रमा धीरे-धीरे पूर्वसमुद्रसे सुवर्णकलशके समान ऊपर उठ गया ॥ २३ ॥

उद्गतेन्दुमहविभिन्नतमिस्रां पश्यति स्म रजनीमवितृप्तः।
व्यंशुकस्फुटमुखीमतिजिह्मां व्रीडया नववधूमिव लोकः॥ २४॥

मल्लि० — उद्गतेन्दुमिविति॥ लोको जनः। 'लोकस्तु भुवने जने' इत्यमरः। उद्गतेन्दुमुदितचन्द्राम्। अविभिन्नतमिस्रामविशेपितध्वान्तां रजनीं व्यंशुकमपनीतावगुण्ठनमत एव स्फुटं दृश्यमानं मुखं यस्याः सा तथापि व्रीडयाऽतिजिह्मां वक्रां