किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः २७७
त्रयोदशः सर्गः २७७
स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहायम् ।
रिपुराप पराभवाय मध्यं प्रकृतिप्रत्ययोरिवानुबन्धः ॥ १९ ॥
मल्लि०—स इति । सह संभूय अर्थमरिबधरूपप्रयोजनं विधास्यतोः करिष्यतोः । अन्यत्र—सहाथंमभिधेयमभिधास्यतोरित्यर्थः । 'प्रकृतिप्रत्ययौ सहार्थं ब्रूतः' इति वचनात् । भवक्षयैकहेतोः संसारोच्छेदनिदानस्य भवस्य शिवस्य सितसप्तेरर्जुनस्य च मध्यं रिपुर्वराहः । यस्मात्प्रत्ययो विधीयते सा प्रकृतिर्द्धादिः, प्रत्ययः सनादिः, तयोर्मध्यमनुबन्ध इत्संज्ञको वर्णः । यथा भूतं भूतिररित्यादो क्कारः । स इव पराभवाय नाशाय लोपार्थमेव आप । न तु स्थित्यर्थमित्यर्थः ॥ १९ ॥
हिन्दी—मिलकर शत्रु का वध रूप प्रयोजन को करनेवाले, दूसरे पक्ष में—साथ-साथ अर्थ का प्रतिपादन करनेवाले, संसार के संहार के लिए एकमात्र कारण-स्वरूप शिवजी और अर्जुन के भी बीच में शत्रु (वराह) प्रकृति (धातु आदि) प्रत्यय (सन् आदि) उनके बीच में अनुबन्ध (इत्संज्ञक वर्ण) की तरह लोप के लिए प्राप्त हुआ ॥ १९ ॥
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः ।
निपपात जवादिषुः पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ॥ २० ॥
मल्लि०—अथेति । अथ रिपोर्मध्यप्रवेशानन्तरं दीपितं वरिवाहवर्त्म आकाशं येन सः । अवार्यो दुर्वार इषुः शरो रववित्रासितवारणात् स्वघोषभोषितगजात् पिनाकात् शिवधनुषः । 'पिनाकोऽजगवं धनुः' इत्यमरः । महतोऽभ्रान्मेघात्, विद्युतोऽयं वैद्युतः कृशानुरशनिरिव जवाद्द्वेगात् । निपपातादघाव ॥ २० ॥
हिन्दी—तब आकाश को प्रकाशित करनेवाला और निवारण नहीं किया जा सकनेवाला बाण अपनी आवाज से हाथियों को डरानेवाले शिवधनु पिनाक से विशाल मेघ से बिजली वाले वज्र के समान वेग से छूटा ॥ २० ॥
व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्थ्योपनिपातवेगशङ्कः ।
प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ॥ २१ ॥
मल्लि०—व्रजत इति । व्रजतो धावतोऽस्य बाणस्य बृहद्भ्यः पतत्त्रेभ्यः पक्षेभ्यो जन्म यस्य स तथोक्तः । कृता तार्थ्योपनिपातवेगशङ्का गरुडागमनवेगभ्रमो येन सः । अत एव, महोरगाणां सर्पाणां हृदयानि श्रोत्राणि च भिनत्तीति हृदयश्रोत्रभित् । 'समुद्राद्याठः' इति सूत्रे पूर्वनिपातव्यभिचारात् 'श्रोत्र' शब्दस्य पूर्वनिपातः
| २७८ | किरातार्जुनीयम् |
|---|
व्यभिचारः । प्रतिनादैः प्रतिध्वनिभिः महान् संमूर्च्छितो नाद उत्पपात बलिष्ठः अत्र नादस्योरगहृदयभेदकत्वासम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिः। सा च तार्क्ष्यवेगभ्रमोत्थापितेति तयोरङ्गाङ्गिभावेन संकरः ॥ २१ ॥
हिन्दी—दौड़ते हुए इस बाणके विशाल पूंछोंसे उत्पत्तिवाली गरुड़के बाणके के वेगकी शङ्का उत्पन्न करनेवाली अत एव विशाल सर्पोंके हृदय और कछारोंके फाड़नेवाली, प्रतिध्वनियोंसे भारी आवाज उत्पन्न हुई ॥ २१ ॥
नयनादिव शूलिनः प्रवृत्तेर्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ॥ २२ ॥
मल्लि०—नयनादिवेति । शूलिनो नयनात् प्रवृत्तेर्निर्गतैरिव स्थितैरित्युत्प्रेक्षा। नेत्राग्निशिखाकल्पैरित्यर्थः । पिशङ्गैः पिङ्गलैः विलसत्तडिल्लताभैर्विद्युद्दामतुल्यैरित्युपमा । मनसश्चित्तादपि आशुतरं शीघ्रतरम् । 'आशु' शब्दादनव्ययातस्तरप् अतः 'किमेत्तिङव्यये-'त्यादिनाम्प्रत्ययो न । 'क्लीवे शीघ्राद्यसत्त्वे स्यात्त्रिलिङ्गे सत्त्वगामि यत् ।' इत्यमरः । यतो गच्छतः । इणः शतृप्रत्ययः । मार्गणस्य शरस्य। 'कदम्बमार्गणशराः' इत्यमरः । किरणैर्व्योमनि आकाशे मार्ग उल्कारेखाकारः पन्था विदधे विरचित इति स्वभावोक्तिरलंकारः ॥ २२ ॥
हिन्दी—शिवजीके नेत्रसे निकले हुएके समान स्थित, पीली चमकती हुई बिजलीके समान, मनसे भी अतिशीघ्र जाते हुए बाणकी किरणोंसे आकाशमें उल्काकी रेखाके आकारवाला मार्ग बनाया गया ॥ २२ ॥
अपयन्धनुषः शिवान्तिकस्थैर्विवरेसदद्भिरभिख्यया जिहानः ।
युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ॥ २३ ॥
मल्लि०—अपयन्निति । पृषत्को बाणः । 'पृषत्कवाणविशिखाः' इत्यमरः। धनुषः पिनाकात् अपयन् निर्यन् । निर्गच्छन्नित्यर्थः । इणः शतृप्रत्ययः । शिवान्तिकस्थैर्नभश्चरैः । अभिख्यया शोभया जिहानः । शोभां गच्छन्नित्यर्थः । 'ओहाक् गतौ' इति धातोः शानच् । 'अभिख्या नामशोभयोः' इत्यमरः । विवरे सीदन्तीति विवरेसदस्तैः विवरेसदद्भिरन्तरालवर्तिभिर्नभश्चरैः । 'सत्सूद्विषे--'त्यादिना क्विप् । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । अथ वराहं विशन् प्रविशन्, तदुपोढैस्तं वराहमुपोढैः प्रत्यासन्नैः । बहेः कर्तरि क्तः । नभश्चरैर्युगपद्ददृशे दृष्ट इति बाणवेगोक्तिः । अत्र क्रमेण पिनाकनिष्क्रमणादिक्रियाविशिष्टस्य बाणस्य शिवान्तिकादिभिन्नदेशस्थ-
त्रयोदशः सर्गः २७९
नभश्चरकर्तृकदर्शनयौगपद्यात्सम्बन्धेऽपि तत्सम्बन्धोक्तिमूलातिशयोक्त्या लोकोत्तरवेग-प्रतीतेरलंकारेण वस्तुध्वनिः ॥ २३ ॥
हिन्दी—बाण, पिनाक धनुसे निकल कर शोभाको प्राप्त कर शिवजीके निकट स्थित आकाशचारियोंसे और अन्तरालमें स्थित आकाशचारियोंसे तथा वराहके निकटवर्ती आकाशचारियोंसे भी वराहको भेदन करता हुआ एकही बार देखा गया ॥ २३ ॥
स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतमीक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ॥ २४ ॥
मल्लि०—स इति । बाणः । तमालनिभे तमालप्रभे । नीलाभ इति यावत् । सुराणां रिपौ वराहे घननीहारे सान्द्रतुहिन इव, अविषक्तवेगोऽप्रतिबद्धवेगः सन् । तथा, नभःस्थैः खेचरैः भयेन विप्लुतं विह्वलं यथा तथा, ईक्षितः सन् । अपां सम्बन्धी वेग आपः, अपां समूहो वा आपम् । आपेन गच्छतीति आपगा नदी तां गृह्णातीति ग्राहो जलग्राहः । जलचर इति यावत् । ‘जलबरे’ इति वक्तव्याद् ‘विभाषा' ग्रहः’ इति णप्रत्ययः । स इव । जगतीं भूमिम् । ‘जगती विष्टपे भूम्यां वास्तुच्छन्दोविशेषयोः’ इति वैजयन्ती । जगाहे विवेश । अन्तर्हित इत्यर्थः ॥ २४ ॥
हिन्दी—बाण, तमालवृक्षके समान नीलवर्णवाले वराहमें गाढ़ कोहरेके समान न रुके हुए वेगवाला होकर आकाशचारियोंसे भयसे विह्वल होकर देखा जाता हुआ जैसे ग्राह नदीमें प्रवेश करता है उसी तरह भूमिमें घुस गया ॥ २४ ॥
अथार्जुनबाणप्रयोगमाह—
सपदि प्रियरूपपर्वररेखः सितलोहाग्रनखः खमाससाद ।
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन् प्राणभृतः कपिध्वजेषुः ॥ २५ ॥
मल्लि०—सपदीति । सपदि शिवबाणपातसमय एव प्रिया रूपमाकृतिः, पर्वाणि ग्रन्थयो रेखा रचनाश्च यस्य सः । अङ्गुलिपक्षे-पर्वरेखाः प्रसिद्धाः लोहाग्रमयःफलं तन्नखमिवेत्युपमितिसमासः । सितं लोहाग्रनखं यस्य सः । कुपितस्यान्तकस्य मृत्योर्या तर्जना तस्या अङ्गुलिस्तर्जनाङ्गुलिः तर्जनां तस्याः श्रीरिव श्रीर्यस्य सः कपिध्वजेषुरर्जुनबाणः प्राणभृतो व्यथयन् भीषयमाणः खमाकाशम् । आससाद प्राप । उपमालंकारः ॥ २५ ॥
हिन्दी—उसी क्षण प्रिय आकार, ग्रन्थि और रचनासे युक्त सफेद लोहाग्ररूप-
२८०
किराताजुनीयम्
नखवाला होकर कुपित मृत्युकी तर्जनीकी सदृश शोभासे युक्त अर्जुनका बाण प्राणियों को व्यथित करता हुआ आकाश-मण्डलमें पहुँच गया ॥ २५ ॥
परमास्त्रपरिग्रहेाहुरु तेजः स्फुरदुल्काकृति विक्षिपन्वनेषु।
स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥ २६॥
मल्लि०—परमेति। परमास्त्रपरिग्रहेण दिव्यास्त्राधिष्ठानेन उरु महत् अत एव स्फुरदुल्काकृति । उल्कावद्धोर्ध्वायमाणमित्यर्थः । तेजो वनेषु विक्षिपन् विकिरन् सन् जवेन पतन् धावन् स बाणः । शतात्परे परःशतास्तेषाम् । शताधिकसंख्याकानामित्यर्थः । 'परःशताद्यास्ते येषां परा संख्या शतादिकात्' इत्यमरः । 'पञ्चमी-' इति योगविभागात्समासः । 'राजदन्तादिषु परम्' इत्युपसर्जनस्य 'शत' शब्दस्य परनिपातः । पारस्करादित्वात्सुडागमः । पततां पत्त्रिणाम् । 'पतत्पत्त्ररथप्रण्डजौ' इत्यमरः । व्रातः समूह इव, आरवं वितेने विस्तारयामास ॥ २६ ॥
हिन्दी— दिव्य अस्त्रमें अधिष्ठान करनेसे विशाल अत एव चमकती हुई उल्काकी सदृश आकृतिसे युक्त तेजको वनमें फैला कर वेगसे दौड़ता हुआ वह बाण सौसे अधिक पक्षियोंके समूहके समान आवाज फैलाने लगा ॥ २६ ॥
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः।
सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ॥ २७॥
मल्लि०—अविभावितेति। अतिरंहसाऽतिवेगेन । अविभाविते अलक्षिते निष्क्रमो गाण्डीवान्निःसरणं प्रयाणमन्तरागमनं च यस्य सः । तथा, शमितायामः संक्षिप्तदैर्ध्य इव स्थित इत्युपमा । अत्र वेगगुणनिमित्ता दैर्घ्यगुणाभावोत्प्रेक्षा । स शरः। सह नु सह वा चित्तवृत्त्येति शेषः । चित्तवृत्तेः पूर्वतरं नु प्रागेव वा । उभयत्रापि लक्ष्ये पतित्वेति शेषः । अथवा, अपतित्वा नु । लक्ष्य इति शेषः । लक्ष्यभेदं चकार। अत्रोपात्तवेगगुणनिमित्ताद्वाणस्य चित्तवृत्त्या सहपातपूर्वपातपतनाभावोत्प्रेक्षासिद्धस्य उत्तरोत्तरोत्कर्षेण वेगातिशयव्यञ्जिका इत्यलंकारेण वस्तुध्वनिः ॥ २७ ॥
हिन्दी— अतिशय वेगसे जिसका धनुसे निकलना और चलना दोनों ही अलक्षित हैं दीर्घताको संक्षिप्त करता हुआ-सा स्थित, उस बाणने चित्तवृत्तिके साथ वा पहले ही अथवा मानों लक्ष्यमें पड़े बिना ही लक्ष्यभेद कर डाला ॥२७॥