सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

चतुर्दशः सर्गः ३१९

चतुर्दशः सर्गः ३१९

सिद्धयो महोदयानामपि महानुभावानामपि । सङ्घेन वृत्तिश्शरीरो येषां तेषां भाव-
स्तत्ता तां सङ्घ-वृत्तितां संभूयकारितां प्रदिशन्ति । अतो गणानामपि संभूयकारित्वं
न दोष इति भावः ॥ ४४ ॥
हिन्दी — उसके बाद दूसरेकी शक्तिको सहारा चाहनेवाले उन प्रमथोंने अर्जुन-
पर एक-ही बार प्रहार किया, क्योंकि सहायसे होनेवाली कार्य सिद्धियाँ महानुभावों
को भी-समुदायसे कार्य करनेका उपदेश देती हैं ॥ ४४ ॥

किरातसैन्यादुरुचापचोदिताः समं समुत्पेतुरुपात्तरंहसः ।
महावनादुन्मनसः खगा इव प्रवृत्तपत्रध्वनयः शिलीमुखाः ॥ ४५ ॥
मल्लि० — किरातेति । उरुभिर्वृहद्भिश्वापैर्नोदिताः प्रक्षिप्ता उपात्तरंहसः प्राप्त-
वेगाः प्रवृत्तपत्रध्वनयः संजातपक्षस्वनाः शिलीमुखा बाणाः । महावनादुन्मनसः
क्वापि गन्तुमुत्सुकाः । तथा, उक्तविशेषणविशिष्टाश्च खगाः पक्षिण इव । किरात-
सैन्यात् समं समन्ततः समुत्पेतुः ॥ ४५ ॥
हिन्दी — विशाल धनुषोंसे प्रेरित, वेगको प्राप्त करनेवाले, पंखकी आवाजवाले
बाण विशाल वनसे कहीं भी जानेके लिए उत्सुक होकर पक्षियोंकी तरह किरातों-
की सेनासे एक-ही बार चारों ओर छूट गये ॥ ४५ ॥

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुच्छ्रमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ॥ ४६ ॥
मल्लि० — गभीरेति । गभीररन्ध्रेषु गम्भीरगह्वरेषु महीभृतः सानुषु ये प्रति-
स्वनास्तैर्भृशमुन्नमितेनोत्थापितेन दीर्घीकृतेन जवादुपेयुषा प्राप्नुवता धनुषा निनादेन
दिशो विभिद्यमाना विदार्यमाणा इव दध्वनुर्ध्वनिं चक्रुः ॥ ४६ ॥
हिन्दी — गहरा गुफाओंमें, पर्वतकी समतल जमीनोंमें प्रतिध्वनिसे अतिशय
दीर्घ किये गये और वेगसे प्राप्त होनेवाले धनुकी आवाजसे दिशाएँ विशीर्णका
-गई-सी होकर आवाज करने लगीं ॥ ४६ ॥

विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।
यहायसो वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ॥ ४७ ॥
मल्लि० — विधूनयन्तीति । भूरुहां गहनानि वनानि । 'अटव्यरण्यं विपिनं
गहनं काननं वनम्' । इत्यमरः । विधूनयन्ती कम्पयन्ती तिरोहितानि छादितानि
उपान्तानि प्रान्तानि नभोऽन्तरिक्षं दिगन्तराणि च यया सा । गणमार्गणावलिः

३२०किरातार्जुनीयम्

प्रमथशरसंहतिः । अनिलेन वायुना । ईरिता प्रेरिता । महीयसी वृष्टिरिव रवं वितने विस्तारयामास ॥ ४७ ॥

**हिन्दी—**वृक्षोंके समूहोंको कम्पित करती हुई, आकाश और दिशाओंके प्रान्तोंको आच्छादित करती हुई, प्रमथोंके बाणोंकी पंक्ति (कतार) वायुसे प्रेरित होकर मूसलधार वृष्टिकी तरह आवाज फैलाने लगी ॥ ४७ ॥

त्रयीमृतूनामनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं घनत्वमीये शिथिलेन वर्मणा ॥ ४८ ॥

त्रयीमिति । ऋतूनां त्रयी षण्मासान् । कालाध्वनोरत्यन्तसंयोगे द्वितीया । अनिलाशिनो वायुभक्षकस्य । कृशस्येत्यर्थः । सतः तथापि रणाय रणं कर्तुं प्रहृष्यत उत्साहमानस्य । 'क्रियार्थोप—'त्यादिना चतुर्थी । जिष्णोरर्जुनस्य वपुषि पोषमुपचयं प्रयाति गच्छति सति शिथिलेन । प्रथममिति शेषः वर्मणा कवचेन विदुषेवानन्तरकरणीयं जानतेवेत्युत्प्रेक्षा । सत्वरं शीघ्रं घनत्वं दृढत्वम् । ईये प्राप्तम् । अन्यथानुप्रयोगादिति भावः । इण कर्मणि लिट् ॥ ४८ ॥

**हिन्दी—**तीन ऋतु अर्थात् छः मास तक वायुपान करते हुए कृश तो भी युद्ध करनेके लिए उत्साह करनेवाले अर्जुनके शरीरके वृद्धिको प्राप्त करनेपर पहले शिथिल कवच विद्वान्‌के समान मानों पीछे करने योग्य विषयको जानता हुआ दृढ़ (मजबूत) हो गया ॥ ४८ ॥

पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्धुधूषतः ।
सरोषमुल्केव पपात भीषणा बलेषु दृष्टिविनिपातशंसिनी ॥ ४९ ॥

मल्लि०—पतत्स्विति । शस्त्रेषु रोदसी द्यावापृथिव्यौ । 'द्यावापृथिव्यौ रोदस्यौ' इत्यमरः । समन्ततो वितत्य पतत्सु सत्सु धनुर्धुधूषतः कम्पितुमिच्छतः । आस्फालयत इत्यर्थः । धूञः सन्नन्ताच्छतृप्रत्ययः । 'स्वरतिसूतिसूयतिधूतीदितो वे'ति विकल्पादिट्ठभावः । तस्यार्जुनस्य संबन्धिनी । भीषयत इति भीषणा । नन्द्यादित्वाल्ल्युः । विनिपातशंसिनी विनाशसूचिका दृष्टिरुक्तविशेषणा उल्केव बलेषु सरोषं यथा तथा पपात ॥ ४९ ॥

**हिन्दी—**आकाश और पृथिवीको चारोंओरसे व्याप्त कर शस्त्रोंके प्रहार करनेपर धनुको कम्पित करना चाहते हुए अर्जुनकी विनाशकी सूचना करनेवाली दृष्टि उल्काकी तरह किरातसेनाओंमें क्रोधके साथ पड़ गई ॥ ४९ ॥