किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
एकादशः सर्गः | २४३
एकादशः सर्गः | २४३
अरिवधेन न प्रत्याहरतीत्यर्थः । तावत् अजन्मा । अजातप्राय इत्यर्थः । नन्वजातो जननान्तरमुपयुज्यत एवेत्यरुच्या पक्षान्तरमाह—गतासुमूर्तः । मृततुल्य इत्यर्थः । मृतोऽपि प्रागुपयुक्तवानित्यरुच्याह—तृणमेवेति । तृणतुल्य इत्यर्थः । अचिकित्करस्तु त्रैकाल्यानुपयोगोज्जीवन्मृत इत्यर्थः । अतो नाहमाग्रहद् ब्रवीमि, किन्तु वीरधर्ममनु-पालयामीति भावः ॥ ७० ॥
हिन्दी—पुरुष जब तक शत्रुओंसे विलुप्त यशको बाणोंसे नहीं लौटाता है तब तक वह जन्महीन-सा है । वा मरा हुआ-सा है वा तृणके ही समान है ॥ ७० ॥
सर्वथा वैरनिर्यातं कर्तव्यमित्युक्तम्, तदकरणे पुरुषगुणानां हानिदोषमाह—
अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ! ॥ ७१ ॥
मल्लि०—अनिर्जयेनेति । यस्यामर्षः क्रोधो द्विषतां शत्रूणाम् । अनिर्जयेन विजयं विनैव प्रशाम्यति । उपलक्षणे तृतीया । तस्मिन् पुरुष इत्युक्तिः ‘पुरुष’ शब्दः कथम् ? न कथंचिदित्यर्थः । प्रवर्तत इति शेषः । प्रवृत्तिनिमित्तस्य पुरुषकारस्या-भावादिति भावः । हे तपोधन ! त्वं हि त्वमेव ब्रूहि कथय । न च ते किंचिदविदित-मस्तीति भावः । ‘हि हेताववधारणे’ इत्यमरः ॥ ७१ ॥
हिन्दी—हे तपस्विन् ! जिस पुरुषका क्रोध शत्रुओंके जीते बिना शान्त होता है उसमें 'पुरुष' शब्दसे व्यवहार कैसे उचित होगा ? आप ही कहिए ॥ ७१ ॥
ननु पुरुषत्वजात्यैव पुरुषोक्तिप्रवृत्तेः किंपुरुषकारेण, तत्राह—कृतमित्यादिद्वयेन—
कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ७२ ॥
मल्लि०—कृतमिति । जातिमात्रावलम्बिना जातिमात्राभिधायिना पुरुषशब्देन कृतमलम् । न तेन किंचित्साध्यत इत्यर्थः । अत्र गम्यमानसाधनक्रियापेक्षया करण-त्वात्तृतीयेत्युक्तं प्राक् । ‘कृतम्’ इति निषेधार्थकमव्ययं चादिषु पठ्यते । सत्यं जातिमात्रेऽपि ‘पुरुष’ शब्दः प्रवर्तते । परन्तु नासौ पुंस्त्वमात्राच्छ्लाघ्यः पश्वादिसाधारणा-दिति तात्पर्यार्थः । तर्हि कीदृशश्लाघ्य इत्याशङ्कयाह—य इत्यादिनाधयुग्मेन । अङ्गी-कृतगुणैर्गुणपक्षपातिभिः । यः पुमान् श्लाघ्यः स्तुत्यः सन् सविस्मयं ससंभ्रमम् । उदाहृतः कथितः । पुंसा ईदृशेन भवितव्यमिति निश्चितः ॥ ७२ ॥
हिन्दी—जातिमात्रका अवलम्बन करनेवाले 'पुरुष' शब्दको कुछ आवश्यकता
| २४४ | किरातार्जुन्रीयम् |
|---|
नहीं है, जो गुणोंका अङ्गीकार करनेवाले पुरुषोंसे आश्चर्यपूर्वक उदाहरणरूप होता है वही पुरुष प्रशंसनीय है ॥ ७२ ॥
ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥ ७३ ॥
**मल्लि०—**ग्रसमानमिति । किञ्च, सदसा सभया गौरवेणेरितं कथाप्रसङ्गाद् गौरवपूर्वकमुच्चारितं सत् । ओजांसि शृण्वतां तेजांसि ग्रसमानं गिलदिव स्थितं यस्य पुंसो नाम द्विषोऽप्यभिनन्दन्त्यनुमोदन्ते । किमुत सुहृद इति भावः । स पुमान् पुमान् । पुरुषत्वेन गण्यत इत्यर्थः । प्रथमः 'पुं' शब्दो जातिवचनः, द्वितीयो गुणवचनः । स एव श्लाघ्यः । अत्र पुमान्पुमानिति तात्पर्यमात्रभेदभिन्नार्थकत्वादेरुक्तलक्षणो लाटानुप्रासोऽलंकारः । तथा च सूत्रम्—'तात्पर्यभेदयुक्तो लाटानुप्रासः' इति ॥ ७३ ॥
**हिन्दी—**सभासे गौरवसे उच्चारित होते हुए और सुननेवालोंके तेजको ग्रस करते हुए जिस पुरुषके नामका शत्रुलोग भी अनुमोदन करते हैं, वही पुरुष 'पुरुष' शब्दसे परिगणित होता है ॥ ७३ ॥
ननु सत्सु भीमादिषु तवैवायं कोऽभिनिवेश इत्यत्राह—
यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥ ७४ ॥
**मल्लि०—**यथेति । नृपतियुधिष्ठिरः यथाप्रतिज्ञं युधि द्विषतां प्रतिचिकीर्षया द्विषतः प्रतिकर्तुमिच्छया । प्रतिज्ञानुसारेणैव जिघांसयेत्यर्थः । तृष्यन् पिपासुः जलाञ्जलेरिव ममैवाध्येति इच्छति । कार्यसिद्धेर्मदायत्तत्वान्मामेव स्मरति, अतोऽयं ममाभिनिवेश इत्यर्थः 'अधीगर्थे—'त्यादिना कर्मणि षष्ठी ॥ ७४ ॥
**हिन्दी—**राजा (युधिष्ठिर) प्रतिज्ञाके अनुसार युद्धमें शत्रुओंका प्रतिकार करनेकी इच्छासे जैसे प्यासा पुरुष जैसे जलाञ्जलिकी इच्छा करता है उसी तरह मेरा स्मरण करते हैं ॥ ७४ ॥
ननु युधिष्ठिरः स्वार्थं साधयति, त्वया च स्वार्थमात्रमनुसंधीयतामित्यत आह—
स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थता यत्र भूयते भर्तुराज्ञया ॥ ७५ ॥
एकादशः सर्गः २४५
मल्लि०—स इति। स नरोऽवदातस्य स्वच्छस्य वंशस्य शशाङ्कस्येव लाञ्छनं कलङ्कः। यत्र यस्मिन्पुरुषे कृच्छ्रेषु व्यसनेषु भर्तुः स्वामिन आज्ञया व्यर्थया भूयते। भावे लट्। आपदि स्वार्थसाधकः कुलघातकः तत्कथं स्वार्थनिष्ठकार्यत युक्तमित्यर्थः ॥ ७५ ॥
**हिन्दी—**जो पुरुष विपत्तिमें स्वामीकी आज्ञाको व्यर्थ कर देता है वह पुरुष चन्द्रमाके समान स्वच्छ वंशका कलङ्क-स्वरूप है ॥ ७५ ॥
यदुक्तम्—'विजहीहि रणोत्साहम्' (श्लो० २१) इत्यादि, तत्रोत्तरमाह—
कथं वादीयतामर्वाङ् मुनिता धर्मरोधिनी।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः॥ ७६ ॥
मल्लि०—कथमिति। धर्मरोधिनी धर्मविरोधिनी। अर्वाक् गार्हस्थ्यात्प्रागेव मुनिता वानप्रस्थत्वं चतुर्थाश्रमतो वा। वर्णक्रमेण तस्य विधानात् 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनाच्च क्षत्रियस्यापि केञ्चिदिष्टत्वात्। तदेतत्सम्बग्विचेचितमस्माभी रघुवंशसंजीविन्याम् (स० ८।१४)—'स किलाक्रममन्त्यमाश्रितः' इत्यत्र। कथं वा आदीयतां मया कथं वाऽङ्गीक्रियताम्। संप्रश्ने लोट्। तथा हि पूर्वैर्मन्वादिभिराश्रमानुक्रमः स्मर्यते। न तु व्यतिक्रमः। 'ब्रह्मचारी भूत्वा गृही भवेत्, गृही भूत्वा वनी भवेत्, वनी भूत्वा प्रव्रजेत्' इति श्रुत्यनुसारादित्यर्थः। एतदपि 'चत्वार आश्रमाः' इत्येतत्पक्षमाश्रित्योक्तम्। 'यदि चेद्वैराग्यं तदा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा। वनाद्वा' इति व्युत्क्रमपक्षस्यापि श्रवणात्। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ७६ ॥
**हिन्दी—**गृहस्थाश्रमसे पहले ही धर्मविरोधी वानप्रस्थधर्म वा संन्यासधर्मका कैसे ग्रहण किया जाय ? मनु आदि पूर्वजोंने ब्रह्मचर्य, गार्हस्थ्य, वानप्रस्थ और संन्यास ऐसे आश्रमके क्रमका स्मरण किया है ॥ ७६ ॥
ननु भवान्गृहस्थ एव तत्कथमर्वाङ्मुनित्वविरोध इत्याशङ्क्य, सत्यं गृहस्थोऽस्मि, तथापि कृतनिखिलगृहस्थकर्तव्यस्यैव वानप्रस्थाधिकारो न गृहस्थमात्रस्य। न चाहमद्यापि कृतकृत्य इत्युत्तरमाह—
आसक्ता भूरियं रूढा जननी दूरगा च मे।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः॥ ७७॥
मल्लि०—आसक्तेति। आसक्ता लग्ना। अवश्यं कर्तव्येत्यर्थः। रूढा प्रसिद्धा
| २४६ | किरातार्जुनीयम् |
|---|
महतीत्यर्थः । इयं पूर्वोक्ता धूः वैरिनिर्यातनभारः । दूरगा दूरवर्तिनी जननी मातापि । तथा, नृपोऽप्याचारवान् । तपोऽधिक इत्यर्थः । तथापि ज्यायान् श्रेष्ठो नृपो युधिष्ठिरश्च मे मम स्वातन्त्र्यं स्वाच्छन्द्यं तिरस्करोति दूरीकरोति । आश्रमान्तरं प्रतिबध्नातीत्यर्थः । तिरस्करोतीति प्रत्येकमभिसंबध्यते । अन्यथा बहुवचनप्रसङ्गात् ॥ ७७ ॥
हिन्दी— वैरीसे बदला लेनेका महान् यह भार मेरे ही ऊपर लगा हुआ है। मेरी माता भी दूरवर्तिनी हैं और आचारवान् राजा (बड़े भाई युधिष्ठिर) भी मेरी स्वतन्त्रताको दूर कर रहे हैं (अतः दूसरा आश्रम वानप्रस्थ वा संन्यास) मैं नहीं ले सकता हूँ ॥ ७७ ॥
उक्तमर्थमुपसंहरति—
स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥ ७८ ॥
मल्लि०— स्वधर्ममिति । मानशालिनः स्वधर्मं क्षात्रधर्ममनुरुन्धन्तेऽनुवर्तन्ते । अतिक्रमं स्वधर्मातिक्रमं नानुरुन्धन्ते । ततः किमत आह—अरातिभिरिति । अरातिभिः कृतध्वंसाः कृतापकाराः सन्तः आहवान्न पलायन्ते । अयमेव स्वधर्मानुरोध इत्यर्थः । 'उपसर्गस्यायतौ' इति रेफस्य लत्वम् । अत्र मनुः—'न निवर्तेत सङ्ग्रामात् क्षात्रधर्ममनुस्मरन्' इति । अत्रोत्तरवाक्यार्थं प्रति पूर्ववाक्यार्थस्य हेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ७८ ॥
हिन्दी— मानी पुरुष क्षत्रियधर्मका अनुसरण करते हैं, स्वधर्मका लङ्घन नहीं करते हैं । शत्रुओंसे अपकार किये जाते हुए युद्धसे पलायन नहीं करते हैं ॥ ७८ ॥
किं बहुना, ममायं निश्चयः श्रूयतामित्याह—
विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ ७९ ॥
मल्लि०— विच्छिन्नेति । विच्छिन्नं वाताहतं यदभ्रं तदिव विलीयेति विच्छिन्नाभ्रविलायं यथा तथा 'उपमाने कर्मणि च' इति कर्मण्यपदे णमुल् । नगमूर्धनि अस्मिन्गिरिशृङ्गे विलीये विशीर्ये वा । कषादिषु यथाविध्यनुप्रयोगः । यद्वा—सहस्राक्षमिन्द्रम्, आराध्यायश एव शल्यं तत् । उद्धरे उद्धरिष्यामि । न तु गत्यन्तरं शङ्क्येत्यर्थः । 'वा' शब्दो विकल्पे ॥ ७९ ॥
एकादशः सर्गः २४७
हिन्दी—वायुसे ताडित मेघके समान विलीन होकर इन्द्रकील पर्वतकी चोटीमें नष्ट हो जाऊँगा या इन्द्रदेवकी आराधना कर अकीर्तिरूप कण्टकको निकाल दूँगा ॥ ७९ ॥
इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजमाविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनमादिदेश ॥ ८० ॥
मल्लि०—इतीति। मघवा इन्द्रः। इत्युक्तवन्तं तनूजं पुत्रमर्जुनम्। आविष्कृता प्रकटिता दिव्यमूर्तिर्निजरूपं येन स यथोक्तः सन्। दोर्भ्यां बाहुभ्यां परिरभ्य विभूत्यै श्रेयसे। उपहन्यतेऽनेनेत्युपघातम्। करणे घञ्प्रत्ययः। अघानां दुःखानामुपघात-मघोपघातम्। भवः संसारस्तस्योद्भवः कारणमिति भवोद्भवः शिवस्तस्य आराधन-मुपासनम्। आदिदेश। शिवमुद्दिश्य तपश्चरेत्याज्ञापयामासेत्यर्थः ॥ ८० ॥
हिन्दी—इन्द्रदेवने ऐसा कहनेवाले अपने पुत्र अर्जुनको अपनी दिव्यमूर्तिको प्रकट कर बाहुओंसे आलिङ्गन कर उन्हें कल्याणके लिए दुःखोंका नाश करनेवाले संसारके कारणस्वरूप शिवजीके आराधनका उपदेश दिया ॥ ८० ॥
प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषामुच्चार्य वाचमिति तेन तिरोबभूवे ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये एकादशः सर्गः।
मल्लि०—प्रीत इति । पिनाकिनि शिवे प्रीते सति लोकपालैः सह मया लोकत्रयेऽपि विहितं दत्तमप्रतिवार्यमनिवार्यं वीर्यं यस्य स तथोक्तः सन्। परेषां शत्रूणां लक्ष्मीं भृशं समुत्सुकयितासि समुत्सुकां त्वय्यनुरक्तां कर्तासि। पुनराहरिष्यसीत्यर्थः। वीरभोग्याः संपद इति भावः 'उत्सुक' शब्दात् 'तत्करोति' इति ण्यन्तात् कर्तरि लुट् इति वाचमुच्चार्य, तेन इन्द्रेण तिरोबभूवेऽन्तर्दधे । भावे लिट् ॥ ८१ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायामेकादशः सर्गः समाप्तः ।
हिन्दी—'हे अर्जुन ! शिवजीके प्रसन्न होनेपर लोकपालोंके साथ मुझसे भी दिये गये अनिवार्य पराक्रमसे युक्त होकर तुम शत्रुओंकी लक्ष्मीको अत्यन्त उत्सुक कर डालोगे' ऐसा वाक्य कहकर इन्द्रदेव अन्तर्हित हो गये ॥ ८१ ॥
इति किरातार्जुनीये एकादशः सर्गः ।
द्वादशः सर्गः
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम्।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ॥ १ ॥
मल्लि०—अथेति। अथ इन्द्रतिरोधानान्तरं रुचिरवदन इन्द्रसाक्षात्कार-संतोषात् प्रसन्नमुखो धनंजयोऽर्जुनो वासवस्य वचनेन उपदेशेन त्रिलोचनं शिवं क्लान्तिरहितं यथा तथा, अभिराधयितुं प्रसादयितुं तपांसि विधिवत् विध्यर्हं यथा यथाशास्त्रमित्यर्थः। 'तदर्हम्' इति वतिप्रत्ययः। विदधे चक्रे। अस्मिन्सर्गे उद्गता वृत्तम्—'सजसादिमे सलघुको च नसजगुरुगैरयोद्गता। त्र्यर्हाङ्गितनभसजगयुताः सजसा जगौ चरणमेकतः पठेत्।' इति लक्षणात् ॥ १ ॥
**हिन्दी—**इन्द्रदेवके अन्तर्हित होनेके अनन्तर प्रसन्न मुखवाले अर्जुन उनके उपदेशसे ग्लानिरहित होकर शिवजीको प्रसन्न करनेके लिए विधिपूर्वक तपस्या करने लगे ॥ १ ॥
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः।
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं मिषोदतः ॥ २ ॥
मल्लि० --अभिरश्मीति। अभिरश्मिमालि अभिसूर्यं सूर्याभिमुखं भुवि एकं चरणं निधीदन् एकचरणेन तिष्ठतो विमलस्य बाह्यान्तरशुद्धिमत्तः। धृता जयधृतिर्जयेच्छा येन तस्य। अनाशुषोऽनश्नतः। 'उपेयिवाननाश्वाननूचानश्च'ति निपातः। तस्यार्जुनस्य बहूनां पूरणा बहुतिथाः। बहुसंख्याका इत्यर्थः। 'तस्य पूरणे डट्'। 'बहुपूगगणसङ्घस्य तिथुक्' इति तिथुगागमः। तिथयो दिनानि प्रतिजग्मुः। अत्र 'तिथि'शब्दः पुँल्लिङ्गः। 'तदाद्यास्तिथयो द्वयोः' इत्यभिधानात्। अन्यथा बहुतिया इत्यत्र टित्त्वाङ्गीष्प्रसङ्गात् ॥ २ ॥
**हिन्दी—**सूर्यके सम्मुख पृथ्वीपर एक पैरसे खड़े होकर निर्मल होकर विजयलाभकी इच्छा करते हुए निराहार उन अर्जुनके बहुत-से दिन व्यतीत हुए ॥ २ ॥
वपुरिन्द्रियोपतपनेषु सततमसुखेषु पाण्डवः।
दधाप नगपतिरिव स्थिरतां, महतां हि धेयंमविभाव्यवैभवम् ॥ ३ ॥
मल्लि०--वपुरिति। पाण्डवोऽर्जुनः सततं वपुष इन्द्रियाणां च उपतपनेषु
द्वादशः सर्गः
२४९
संतापकरेषु । करणे ल्युट् । असुष्वेवानशनादिदुःखेष्वपि नगपतिगिरीन्द्र इव स्थिरतां दाढ्यं व्याप प्राप । तथा हि—महतां धैर्यमविभाव्यं दुर्बोधं वैभवं सामर्थ्यं यस्य तत्तथोक्तम् । धीराणामकिञ्चित्करं दुःखमिति भावः ॥ ३ ॥
हिन्दी—अर्जुन निरन्तर शरीर और इन्द्रियोंके सन्तापकारी अनशन आदि दुःखोंमें भी हिमालय पर्वतके समान दृढ़ हो गये, क्योंकि महापुरुषोंके धैर्यके वैभव-को नहीं जाना जा सकता है ॥ ३ ॥
न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ॥ ४ ॥
मल्लि०—नेति । तस्यार्जुनस्य मानसं मनः संनिहितानि समीपस्थानि यानि पक्तिसुरभीणि पाकसुगन्धीनि तेषु फलेषु । तथा, शुचिनि स्वच्छे शिशिरे शीतले पयसि च न पपात । न किंचिदाचकाङ्क्षेति भावः । प्राणधारणं तु तस्य तप एवे-त्याह—तथापि सुकर्मणां सुकृतिनां शोभनं तपः सुतप एव अमृतायतेऽमृतवदाचरति । किं तपस्तृप्तानां तर्पणान्तरैरिति भावः । 'लोहितादिडाज्भ्यः क्यष्' 'वा क्यषः' इत्यात्मनेपदम् । लोहितादिराकृतिगणः ॥ ४ ॥
हिन्दी—उन अर्जुनका मन समीपस्थ और पकनेसे सुगन्धित फलोंमें और स्वच्छ और शीतल जलमें भी आसक्त नहीं हुआ, क्योंकि पुण्यकर्म करनेवालोंकी उत्तम तपस्या अमृतके समान होती है ॥ ४ ॥
न विसिस्मिये, न विषसाद, मुहुरलसतां न चाददे ।
सत्त्वमुरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ ५ ॥
मल्लि०---नेति । सोऽर्जुनो न विसिस्मिये । 'अहो महत्तपस्तप्तम्' इति न विस्मयं जगाम । 'तपः क्षरति विस्मयात्' इति स्मृतेरिति भावः । न विषसाद फलविलम्बाद् गतोत्साहो न बभूव । 'विषादश्चेतसो भङ्गः' इति वचनात् । 'सद्धि-रप्रतेः' इति षत्वम् । मुहुरलसतां च नाददे । तपसि मन्दोद्यमत्वं च नाग्रहीदिति भावः । किंच, हतशक्तीनी हतसारे अत एव पेलवे भङ्गुरे ते हतशक्तिपेलवे रजस्त-मसी गुणौ, उरुधृति महासारं तस्यार्जुनस्य सत्त्वं सत्त्वगुणं न हतः स्म न हतवतो । हन्तेः 'लट् स्मे' इति भूतार्थे लट् ॥ ५ ॥
हिन्दी—अर्जुन अपनी तपस्यामें विस्मित नहीं हुए और न विषादयुक्त हुए
| २५० | किरातार्जुनीयम् |
|---|
न आलस्यको प्राप्त हुए, शक्ति नष्ट होनेसे भङ्गुर रजोगुण और तमोगुण सम्पूर्ण सारसे सम्पन्न सत्त्वगुणको नष्ट नहीं कर सके ॥ ५ ॥
तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयम् ।
त्रासजननपि तत्त्वविदां किमिवास्ति यन्न सुकरं मनस्विभिः ॥ ६ ॥
मल्लि०— तपसेति । सोऽर्जुनः तपसा कृशं तथापि विजितो जगत्त्रयस्य भुवनत्रयस्य उदय उत्कर्षो येन तत्तथोक्तम् । किञ्च तत्त्वविदामपि लोकहितप्रवृत्तिं जानतामपि त्रासजननं भयंकरं वपुः उवाह वहति स्म । न चैतच्चित्रमित्याह— किमिति । यत्तु मनस्विभिर्न सुकरं तत् किमिवास्ति । न किमपीत्यर्थः 'इव' शब्दो वाक्यालंकारे । 'मनस्विनाम्' इति पाठे शेषे षष्ठी स्यादेव । कृद्योगलक्षणा तु 'न लोके'-त्यादिना निषेधात् ॥ ६ ॥
हिन्दी— वे ( अर्जुन ) तपस्यासे दुर्बल होनेपर भी तीनों लोकोंके उत्कर्षको जीतनेवाले तथा तत्त्व जाननेवालोंके भी त्रासको उत्पन्न करनेवाले शरीरको धारण करने लगे, क्योंकि मनस्वी लोगोंसे जो सुकर नहीं है, ऐसा कौन-सा विषय है ? ॥ ६ ॥
ज्वलतोजनलादनुनिशीथमधिकरुचिरम्भसां निधेः ।
धैर्यगुणमवजयन्विजयी ददृशे समुन्नततरः स शैलतः ॥ ७ ॥
मल्लि०— ज्वलत इति । विजयी सोऽर्जुनः । अनुनिशीथमर्धरात्रे । विभक्त्यर्थेऽव्ययीभावः 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः । ज्वलतो दीप्यमानात् । अनलादग्नेः । अधिकरुचिर्दीप्यमानः । तथा, अम्भसां निधेर्धैर्यं गाम्भीर्यं तदेव गुणस्तम् अवजयन् । किञ्च, शैलतः शैलादपि समुन्नततरो ददृशे दृष्टः । अत्र रुच्यादिभिरनलाद्याधिक्यासम्बन्धे संबन्धाभिधानादतिशयोक्तिरलंङ्कारः ॥ ७ ॥
हिन्दी— विजयशील अर्जुन आधी रातमें जलते हुए अग्निसे भी अधिक तेजवाले, समुद्रके भी गाम्भीर्य गुणको जीतते हुए और पर्वतसे भी अधिक उन्नत देखे गये ॥ ७ ॥
जपतः सदा जपमुपांशु वदनमभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणमिवाक्रमण्डलम् ॥ ८ ॥
मल्लि०— जपत इति । सदा उपांशु रहः । गूढमित्यर्थः । 'रहोऽपांशु