सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

एकादशः सर्गः २१५

एकादशः सर्गः २१५

मल्लि०—मुनिरूप इति । मुने रूपमिव रूपं यस्य स मुनिरूपः । मुनिवेष-
धारीत्यर्थः । इन्द्रोऽनुरूपेण दर्शनप्रदानयोग्येनेत्यर्थः । सूनुना पुत्रेणार्जुनैन पुरोऽग्रे
ददृशे दृष्टः । कथंभूतः । वयो यौवनादिकमतीतो वृद्धः । 'द्वितीया श्रिते—'त्या-
दिना द्वितीयासमासः । द्राघीयसाऽतिदीर्घेण । 'प्रियस्थिर'—त्यादिना दीर्घ-
शब्दस्य द्राघादेशः । अध्वना । अध्वगमनेनेत्यर्थः । परिक्लान्तः परिश्रान्तः ।
किलेत्यलीके । 'किल संभाव्यवार्त्तयोः । हेत्वरुच्योरलीके न' इति हेमचन्द्रः ।
वृद्ध एव दूराध्वश्रान्त इव स्थित इत्यर्थः । 'इव' इति पाठे स्पष्टार्थः ॥ २ ॥

हिन्दी—मुनिका वेष लिये हुए तथा बहुत दूर मार्गमें गमन करनेसे थके-मांदेसे
वृद्ध इन्द्रदेवको पुत्र अर्जुनने सामने देखा ॥ २ ॥

जटानां कीर्णया केशौः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव संध्यया ॥ ३ ॥

मल्लि०—जटानामिति । परितः सितैः केशौः कीर्णया व्याप्तया जटानां संहत्या
समूहेनोपलक्षितः । अत एव, इन्दुकरैः पृक्तया युक्तया संध्ययोपलक्षितोऽह्नः पर्यन्तो
दिनान्त इव स्थितः । तस्याप्युपपरिणतरूपत्वाद् वृद्धोपमानत्वम् । जटानां संहत्ये-
त्युक्तत्वात् संध्यासाम्यम् ॥ ३ ॥

हिन्दी—चारों ओरसे सफेद केशोंसे व्याप्त जटासमूहसे युक्त अतएव चन्द्र-
किरणोंसे युक्त सन्ध्यासे उपलक्षित दिनके अवसान कालके समान इन्द्रदेवको पुत्र
अर्जुनने देखा ॥ ३ ॥

विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः ।
प्रालेयावतस्तिम्लानपलाशाम्बुज इव ह्रदः ॥ ४ ॥

मल्लि०—विशदेति । पुनश्च विशदेन पलितपाण्डुरेण भ्रूयुगेन छन्ने वलिता-
पाङ्गे वलिमत्प्रान्ते लोचने यस्य स तथोक्तः । 'अपाङ्गो नेत्रयोरन्तो' इत्यमरः ।
पामादित्वाल्लोमादिसूत्रेण वलच्प्रत्ययः । प्रालेयावततया हिमंसंहत्या म्लानपलाशानि
म्लान्तदलानि अब्जानि यस्मिन्स ह्रद इव स्थितः ॥ ४ ॥

हिन्दी—जरासे सफेद भौंहोंसे व्याप्त नेत्रोंवाले इन्द्रदेवको अर्जुनने हिमसमूह-
से मुरझाये हुए पत्तोंवाले कमलोंसे युक्त तालाबके समान देखा ॥ ४ ॥

आसक्तभरनीकाशैरङ्गैः परिकृशोरपि ।
साधूनः सद्वृत्तिष्व्येव प्रायो यष्ट्यावलम्बितः ॥ ५ ॥

२१६किरातार्जुनीयम्

मल्लि०—ग्रासङ्केति। पुनश्च, परिकृशंः परिशीर्णैरपि, आसक्तभरनीकाशैः भराक्रान्तसदृशैः । सभारवद्गुरुभवद्भिरित्यर्थः । 'हरूः काशे' इति दीर्घः। बहुभिः उपलक्षितः। कार्श्यादलघून्यपि स्वाङ्गानि स्वयं वोढुमसमर्थ इत्यर्थः । अत एव आधूनः औदरिकः । 'आधूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः। आङ्पूर्वाद्धाञ्स्तेः क्तः। 'उदात्तोऽनुनासिके च' इत्यूठादेशः । 'दिवाऽविजिगीषायाम्' इति निपात्यम् । सदगृहिण्याऽनुकूलकलत्रेण इव प्रायः प्राचुर्येण यष्ट्याऽवलम्बनदण्डेन । अवलम्बितो धारितः । न तु स्वशक्त्येति भावः ॥ ५ ॥

हिन्दी—दुबले होने हुए भी भारसे आक्रान्तके समान अङ्गोंवाले अतएव जीतनेको इच्छासे रहित खाली पेट भरना ही चाहनेवाले अतएव अनुकूल पत्नीके समान प्रायः दण्डका अवलम्बन करनेवाले इन्द्रदेवको पुत्र अर्जुनने देखा ॥ ५ ॥

गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः ॥ ६ ॥

मल्लि०—गूढ इति। वपुषा गूढोऽपि । प्रच्छन्नरूपोऽपीत्यर्थः । प्रकृत्यादिभ्य उपसंख्यानात्तृतीया । तन्वभ्रपटलच्छन्नविग्रहः स्तोकाभ्रवृन्दाऽन्तरितमूर्तिः । अंशुमानिव लोकाभिभाविना लोकव्यापिना धाम्ना तेजसा । 'धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः' इति हेमचन्द्रः । राजन् दीप्यमानो ददृशे इति पूर्वेण संबन्धः ॥ ६ ॥

हिन्दी—शरीरसे प्रच्छन्न रूपवाले होकर भी थोड़ेसे मेघोंसे व्यवहित मूर्तिवाले सूर्यके समान लोकको व्याप्त करनेवाले तेजसे प्रकाशित होते हुए इन्द्रको अर्जुनने देखा ॥ ६ ॥

जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम् ॥ ७ ॥

मल्लि०—जरतीमिति । जरतीं जीर्णाम् । 'जीना जीर्णा जरन्नपि' इत्यमरः । जीर्यतेरतीतार्थे शतृप्रत्ययः । 'उगितश्च' इति ङीप् । तनुं शरीरं बिभ्राणोऽपि दधदपि अप्राकृताऽलोकसामान्या आकृतिर्मूर्तिर्यस्य स इन्द्र आक्रान्ताऽभिभूता लक्ष्मीराश्रमशोभा येन स आक्रान्तलक्ष्मीकः । अत्र 'उरःप्रभृतिभ्यः कप्' इति नित्यकबाश्रयणम् । एकवचनोत्तरपदस्यैव 'लक्ष्मी' शब्दस्योरःप्रभृतिषु पाठात् । 'शेषाद्विभाषा' इति विकल्पाश्रयणे तु बहुवचनोत्तरपद इति विवेकः । आश्रमं

एकादशः सर्गः २१७

-ससाध्वसमिव चकार। तेजस्विदर्शनाद्भयं भवति। यत्तु न दुःखजनकं तस्यामानुष-
त्वादिति सूचयितुम् 'इव' शब्दः ॥ ७ ॥

हिन्दी — जीर्ण शरीरका धारण करते हुए भी अलौकिक आकारवाले इन्द्रने आश्रमसीमाका आक्रान्त करके आश्रमको भयभीत-सा कर दिया ॥ ७ ॥

अभितस्तं पृथासूनुः स्नेहेन परितस्तरे।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ ८ ॥

मल्लि० — अभित इति। पृथासूनुरर्जुनः। तम् इन्द्रम्। अभितस्तं प्रति स्नेहेन परितस्तरे। तद्गोचरेण प्रेम्णा पर्याप्तः। स्तृणातेः कर्मणि लिट्। 'ऋतश्च संयोगादेर्गुणः' इति गुणः। नन्वजातसम्बन्धविशेषस्य तस्येन्द्रे कथं स्नेहोदय इत्यत आह -- अविज्ञात इति। बन्धौ सुहृदि। अविज्ञातेऽपि बन्धुरयमित्यज्ञातेऽपि बलाद्बान्धवसत्तावशादेव मनः प्रह्लादते हि स्निह्यतीत्यर्थः ॥ ८ ॥

हिन्दी — पृथापुत्र (अर्जुन) इन्द्रके प्रति स्नेहसे व्याप्त हो गये, क्योंकि बन्धुके अपरिचित होनेपर भी मन हठात् स्नेह करता है ॥ ८ ॥

आतिथेयीमथासाद्य सुतादपचितिं हरिः।
विश्रभ्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ९ ॥

मल्लि० — आतिथेयीमिति। अथ हरिरिन्द्रः सुतादर्जुनात्। आतिथेयीम्। अतिथिषु साध्वीम्। 'पथ्यतिथिवसतिस्वपतेर्ढञ्' अपचितिं पूजाम्। आसाद्य प्राप्य 'पूजा नमस्याऽपचितिः' इत्यमरः। विष्टरे आसने। 'ऋदोरप्' इति स्तृणातेरप्रत्ययः। 'वृक्षासनयोर्विष्टरः।' इति षत्वम्। विश्रभ्य नाम विश्रभ्य किल। श्रममपनीयेत्यर्थः। इति वक्ष्यमाणप्रकारां भारतीं व्याजहार उक्तवान्। 'व्याजहार उक्तिर्लपितम्' इत्यमरः ॥ ९ ॥

हिन्दी — तदनन्तर इन्द्रने पुत्र (अर्जुन) से अतिथिसत्कार पाकर आसनमें विश्राम कर अर्जुनके प्रति ऐसी वाणीको प्रकाश किया ॥ ९ ॥

त्वया साधु समारम्भि नवे वयसि यत्तपः।
ह्रियते विषयैः प्रायो वर्पीयानपि मादृशः ॥ १० ॥

मल्लि० — त्वयेति। त्वया साधु समारम्भि सम्यगुपक्रान्तम्। रभेः कर्मणि लुङ्। कुतः। यद् यस्मात्। नवे वयसि यौवने। तपश्चर्यत इति शेषः। तथा

२१८किरातार्जुनीयम्

हि—अहमिव दृश्यतेऽसौ मादृशो वर्षीयानतिवृद्धोऽपि । 'प्रियस्थिरे--'त्यादिना 'वृद्ध' शब्दस्य वर्षादेशः । प्रायो विषयैर्हियत आकृष्यते । किमु भवादृशो यवीयानिति भावः ॥ १० ॥

हिन्दी — 'हे वत्स ! नई उम्रमें जो तपस्या कर रहे हो, यह तुमने उत्तम कार्यका आरम्भ किया है, क्योंकि मेरे समान अत्यन्त वृद्ध पुरुष भी विषयोंसे प्रायः खींचा जाता है ॥ १० ॥

अथैवमनारम्भे तव स्वाकारलाभोऽपि विफलः स्यादित्याशयेनाह—

श्रेयसीं तव संप्राप्ता गुणसंपदमाकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११ ॥

मल्लि०—श्रेयसीमिति । तवाकृतिर्मूर्तिः । रम्येति शेषः । श्रेयसीं श्रेष्ठां गुणसंपदं तपःसमारम्भरूपां संप्राप्ता । अतो न निष्फलेति भावः । न च स्वाकारा गुणाढ्याश्च कियन्तो न सन्तीति वाच्यमित्याह—लोक इति । लोके रम्यता रम्याकारता सुलभा हि, गुणार्जनं गुणसंपादनं दुर्लभम्, त्वयि तूभयं संपद्यत इति हेम्नः परमामोदः इति भावः ॥ ११ ॥

हिन्दी—( हे वत्स ! ) तुम्हारे आकारने श्रेष्ठ गुणसम्पत्तिको प्राप्त कर लिया है, क्योंकि लोकमें सुन्दर आकार सुलभ है, पर गुणका उपार्जन करना दुर्लभ है ॥ ११ ॥

यदुक्तम् 'त्वया साधु समारम्भि' ( श्लो० १० ) इति, तदेव साधुत्वं संसारनिःसारताख्यापनाय युग्मेनोपपादयति—

शरदम्बुधरच्छायागत्त्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ १२ ॥

**मल्लि—**शरदिति । यौवनश्रियस्तावत् शरदम्बुधरच्छाया इव गत्वर्यश्चञ्चलाः 'गत्वरश्च' इति क्वरबन्तो निपातः । 'टिड्ढाणञ्—'त्यादिना ङीप् । विषयाः शब्दादयस्तु आपातरम्यास्तत्कालरमणीयाः । 'तदात्वे पातः आपातः' इति वैजयन्ती । पर्यन्तेऽवसाने परितापयन्ति दुःखं कुर्वन्तीति तथोक्ताः ॥ १२ ॥

हिन्दी—( हे वत्स ! ) यौवनकी शोभा शरत् ऋतुके मेघकी छायाके समान चञ्चल हैं, विषय ( शब्द स्पर्श आदि ) उसी समय ( भोगकाल ) में ही रमणीक हैं परन्तु परिणाममें दुःख उत्पन्न करनेवाले हो जाते हैं ॥ १२ ॥

एकादशः सर्गः | २१९


अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ १३ ॥

मल्लि०— अन्तक इति । किंच, संतता अनवच्छिन्ना आपदः क्लेशा यस्य तस्य जन्मिनः प्राणिनः । 'प्राणी तु चेतनो जन्मी' इत्यमरः । व्रीह्यादित्वादिनिः । अन्तको मृत्युः पर्यवस्थाता प्रतिरोद्धा । प्रथमं तावज्जन्मिनो जन्मदुःखमेव दुस्तरम्, ततो जातस्य जीवनमपि सततं दुःखसंमिश्रतया विषयुक्तान्नप्रायम्, तदपि मृत्युग्रस्तमिति सोऽयम् 'काकमांसं शुनोच्छिष्टं [ दुर्गन्धं कृमिसंकुलम् । श्लेष्मपक्वं सुरासिक्तम् ] स्वल्पं तदपि दुर्लभम् ।' इति न्यायादिति भावः । इति उक्तहेतोः । त्याज्ये भवे संसारे । भवतीति भव्यो योग्यो जनः । भवादृश इति शेषः । 'भव्यं सुखे शुभे चापि भव्यवद्योग्यभाविनोः इति विश्वः । 'भव्यगेये-'त्यादिना कर्तरि निपातः । मुक्तौ मोक्ष उत्तिष्ठत उद्युक्तो भवति । 'उदोऽनूर्ध्वकर्मणि' इत्यात्मनेपदम् ॥ १३ ॥

हिन्दी— (हे वत्स !) निरन्तर आपत्तिवाले प्राणीका यमराज प्रतिरोध करनेवाला है, इस कारणसे त्यागके योग्य संसारमें तुम-सा योग्यजन मुक्तिके लिए उद्योग करता है ॥ १३ ॥

संप्रति प्रशंसापूर्वकं स्वाभिसन्धि दर्शयति —

चित्तवानसि कल्याणी यत्त्वां मतिरूपस्थिता ।
विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ १४ ॥

मल्लि०— चित्तवानिति । चित्तवान् प्रशस्तचित्तोऽसि । प्रशंसायां मतुप् । कुतः । यत् यतः, त्वां कल्याणी साध्वी । 'बह्वादिभ्यश्च' इति ङीष् । मतिरूपस्थिता संगता । किंतु केवलमेकं यथा तथा विरुद्धो वेषो मे मनः संदेहयति संशययुक्तं करोति । यद्वा—वेषः केवलम् । वेष एवेत्यर्थः । 'केवलः कृत्स्न एके च केवलं चावधारिते' । इत्युभयत्रापि शाश्वतः ॥ १४ ॥

हिन्दी— (हे वत्स !) तुम प्रशस्त चित्तवाले हो, जो कि तुमको कल्याणमयी बुद्धि उपस्थित हो गई है; परन्तु तुम्हारा ( परस्पर ) विरुद्ध वेष ही मेरे मनको सन्देहयुक्त कर रहा है ॥ १४ ॥

वेषविरोधमेवाह—

युयुत्सुरिव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥ १५ ॥

२२० | किरातार्जुनीयम्

मल्लि०—युयुत्सुनेति। युयुत्सुनेव योद्धुमिच्छुनेव त्वया। युधेः सन्नन्तादुः प्रत्ययः। किमिदं कवचं वर्म। आमुक्तमर्पितम्। तत्र को विरोध इत्यत्राह—यस्मात् तपस्विनः केवले एके। कवचाद्यसहचरिते इति यावत्। ते च ते अजिने वल्कले च। 'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः। वसत आच्छादयन्ति। अतस्तपस्विनस्ते कवचधारणं विरुद्धमित्यर्थः॥ १५॥

हिन्दी—(हे वत्स!) लड़नेकी इच्छा करनेवालेके समान तुमने इस कवचको क्यों धारण किया है? क्योंकि तपस्वी पुरुष तो केवल मृगचर्म और वल्कलको धारण करते हैं॥ १५॥

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः॥ १६॥

मल्लि०—प्रपित्सोरिति। किं च, मुक्तिं प्रपित्सोः प्राप्तुमिच्छोः। 'सनि मीमे—'त्यादिनेसादेशः। अत्र 'लोपोऽभ्यासस्य' इत्यभ्यासलोपः। अतो मुमुक्षुत्वादेव कलेवरे शरीरे गतस्पृहस्य निःस्पृहस्य। अतो नात्मरक्षार्थं धनुर्धारणं युक्तमित्यर्थः। नापि परहिंसार्थमित्याह—भूतानां जन्तूनाम्। 'क्ष्मादौ जन्तौ च भूतानि' इति वैजयन्ती। 'क्रुधद्रुहोरुपसृष्टयोः कर्म' इति कर्मसंज्ञायां 'कर्तृकर्मणोः कृति—' इति कर्तरि षष्ठी। अनभिद्रुहोऽहिंसकस्य। 'सत्सूद्विषे—'त्यादिना क्विप्। ते तव महेषुधी महानिषङ्गौ भीमं त्रासजनकं धनुश्च। न समर्थयते शममित्युत्तरेणान्वयः। 'समर्थयतः' इति वचनविपरिणामः कार्यः॥ १६॥

हिन्दी—(हे वत्स!) मुक्ति पानेकी इच्छा करनेवाले अतः शरीरमें निःस्पृह और प्राणियोंका द्रोह न करनेवाले तुम्हारे ये तरकश और भयंकर धनु (शान्तिका समर्थन नहीं करते हैं)॥ १६॥

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः।
असिस्तव तपःस्थस्य न समर्थयते शमम्॥ १७॥

मल्लि०—भयंकर इति। तथा, मृत्योरपरो भुज इव प्राणभृतां प्राणिनां भयं करोतीति भयंकरः। 'मेघर्तिभयेषु कृञः' इति खच्प्रत्ययः। 'अरुर्द्विष—'त्यादिना मुमागमः। असिः खड्गः। तपसि तिष्ठतीति तपःस्थः। तपश्चरन्नित्यर्थः। 'सुपि स्थः' इति कप्रत्ययः। तस्य, तव शमं शान्तिं न समर्थयते न संभावयति। किं शान्तस्य शस्त्रेणेति भावः॥ १७॥

एकादशः सर्गः २२१

हिन्दी—(हे वत्स !) मृत्युके दूसरे बाहुके समान प्राणियोंको भयंकर तुम्हारी तलवार शान्तिका समर्थन नहीं कर रही है ॥ १७ ॥

नन्वशान्तस्य किं तपसेत्याशङ्क्य जयार्थमित्याह—

जयमत्रभवान्नूनमरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ १८ ॥

मल्लि०—जयमिति । अत्रभवान् पूज्य इत्यर्थः । ‘इतरेभ्योऽपि दृश्यन्ते’ इति प्रथमार्थे प्राग्दिशीयस्त्रल्प्रत्ययः । सुप्सुपेति समासः । ‘त्रिषु तत्रभवान् पूज्यस्तथैवात्रभवानपि’ इति यादवः । अरातिषु शत्रुपु विषये जयमभिलाषुको जयमिच्छुः । ‘लषपते—’त्यादिनोकञ्प्रत्ययः । ‘न लोके--’त्यादिना षष्ठीप्रतिषेधः । नूनमिति निश्चये । ‘नूनं तर्केऽपि निश्चये’ इत्यमरः । क्रोधस्य लक्ष्म कोपस्य लिङ्गम् । आयुधं क्व । क्षमावन्तः शान्ताः तपोधनाः क्व । क्रोधशान्त्योविरोधात् तत्कार्ययोः शस्त्रतपसोरप्येकत्रासङ्गतेश्च शस्त्रिणस्ते तपो जयार्थं न तु मोक्षार्थमिति निश्चय इत्यर्थः ॥ १८ ॥

हिन्दी—(हे वत्स !) पूजनीय आप निश्चय ही शत्रुओंमें विजयका अभिलाष करते हैं, क्योंकि क्षमावाले तपस्वीलोग कहाँ और क्रोधका चिह्नस्वरूप हथियार कहाँ ? ॥ १८ ॥

तपसो जयार्थत्वे दोषमाह—

यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ १९ ॥

मल्लि०—य इति । यः पुमान् । निश्चितं श्रेयो निःश्रेयसं मुक्तिः । ‘अचतुरे—’त्यादिना समासान्तो निपातः । ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्’ इत्यमरः । निःश्रेयसं कुर्वन्तीति निःश्रेयस्करीः । निःश्रेयसहेतूनित्यर्थः । ‘कृञो हेतुताच्छील्यानुलोम्येषु’ इति हेत्वर्थे टप्रत्ययः । टित्त्वान्ङीप् । क्रियास्तपोदानादिकर्माणि वधोदर्का हिंसाफलकाः करोति । ‘उदर्कः फलमुत्तरम्’ इत्यमरः । अत एव मूढः स पुमान् । ग्लानिरेव दोषस्तं छिन्दन्तीति ग्लानिदोषच्छिदः पिपासाहारिणीः । क्विप् । स्वच्छा निर्मला अपः पङ्कयति पङ्कवतीः करोति । ‘णाविष्ठवद्भावे विन्मतोर्लुक्’ इति मतुपो लुक् । महाफलसाधनस्य तपसस्तुच्छफलैर्विनियोगः स्वच्छाम्बुनः पङ्कसङ्करवत् प्रेक्षावद्भिर्गर्हित इत्यर्थः । अत्र ‘यत्तपसो वधोदर्का—

२१२किरातार्जुनीयम्

करणं तन्निर्मलस्य पयसः पङ्कसंकरीकरणम्' इति वाक्यार्थे वाक्यान्तरसमारोप-प्रतिबिम्बकरणाक्षेपादसंभवद्वस्तुसंबन्धाद्वाक्यार्थवृत्तिनिदर्शनालंकारः ॥ १९ ॥

**हिन्दी—**जो पुरुष मोक्ष करनेवाली क्रियाओंको हिंसाका कारण बनाता है वह मूर्ख म्लानिरूप दोषको हटाने निर्मल जलको कीचड़वाला बना देता है ॥१९॥

नन्वर्थकामयोरपि मोक्षवत्पुरुषार्थत्वात्तत्पसतदर्थत्वे को दोषस्तत्राह—

मूलं दोषस्य हिंसादेरर्थकामो स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ २० ॥

**मल्लि०--**मूलमिति । हिंसादेरिति तद्गुणसंविज्ञानो बहुव्रीहिः । 'आदि'-शब्दात् अनृतस्तेयादीनां संग्रहः । दोषस्य अवगुणस्य मूलं कारणभूतौ । 'स्त्रीकामा धनकामाश्च किं न कुर्वन्ति पातकम्' । इति भावः । अर्थकामो मा स्म पुषो नोपचिनुष्व । 'स्मोत्तरे लङ् च' इति लङ् । 'पुषादी-'त्यादिना च्लेरङादेशः । हि यस्मात्, तौ अर्थकामो तत्त्वावबोधस्य तत्त्वज्ञानस्य । मोक्षसाधनस्येति शेषः । दुरुच्छेदौ दुर्वारौ उपप्लवौ हिंसादिप्रवर्त्तकत्वादन्तको । अतः पुरुषार्थपरिपन्थिनाच्चैतौ न पुरुषार्थावित्यर्थः ॥ २० ॥

हिन्दी—( हे वत्स ! ) हिंसा आदि दोषके कारणस्वरूप अर्थ और कामको मत बढ़ाओ, क्योंकि वे (अर्थ और काम) मोक्षके साधनस्वरूप तत्त्वज्ञानके दुःखसे हटाये जानेवाले नाशक हैं ॥ २० ॥

मुक्तिप्रतिबन्धकत्वादपुरुषार्थावर्थकामावित्युक्तम्, तत्रार्थस्य दुःखनिदानत्वादप्यपुरुषार्थत्वमिति पञ्चभिः प्रपञ्चयति—

अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः ।
उदन्वानिव सिंधूनामापदामेति पात्रताम् ॥ २१ ॥

**मल्लि०--**अभिद्रोहेणेत्यादि । भूतानामभिद्रोहेण हिंसया गत्वरीरस्थिराः श्रियः संपदोऽर्जयन् जनः । उदकमस्तीति उदन्वानुदधिः । 'उदन्वानुदधौ च' इति निपातनात्साधुः । सिंधूनां नदीनामिव आपदां विपदां पात्रतां मूलत्वम् एति । २१।

**हिन्दी—**जो पुरुष प्राणियोंकी हिंसासे अस्थिर सम्पत्तिका उपार्जन करता है वह जैसे नदियोंका आश्रय समुद्र होता है वैसे ही आपत्तियोंका आश्रय हो जाता है ॥ २१ ॥