सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

अष्टादशः सर्गः | ४०७

अष्टादशः सर्गः४०७

पार्थयोश्चरणपातः पादक्षेपैर्निपातितानि रोधांसि यासां ताः सरितो नद्यः स्थलीः
परितः स्थलीषु प्रसस्रुः प्रसृताः । 'अभितः परितः—' इत्यादिना द्वितीया ।
'जानपद-' इत्यादिनाऽकृत्रिमार्थे ङीप् । कूलपातक्षोभादुद्वेलसलिलाः सरितः
स्थलानि प्रभञ्जयन्तीत्यर्थः । एतेन तयोर्भार उक्तः ॥ ११ ॥

हिन्दी—हाथों और पैरोंके वन्धनसे छूटे हुए, नाल ठोककर सुन्दर रूपसे
उछलते हुए उन शिवजी और अर्जुनके चरणोंसे आहत तटवाली नदियाँ उस
स्थानके चारों ओर बहने लगीं ॥ ११ ॥

वियति वेगपरिप्लुतमन्तरा समभिसृत्य रयेण कपिध्वजः ।
चरणयोरचरणानमितक्षितिनिजगृहे तिसृणां जयिनं पुराम् ॥ १२ ॥

मल्लि०—वियतीति । वियत्यन्तरिक्षे वेगेन परिप्लुतमुत्पतितं तिसृणां पुरां
जयिनं त्रिपुरान्तकम् । 'जिदृक्षो—'त्यादिनेनिप्रत्ययः । कपिध्वजोऽर्जुनश्चरणा-
भ्यां पादाभ्यामानमितक्षितिः सन् । रयेण वेगेन समभिसृत्याभिद्रुत्य, अन्तरा मध्ये-
मार्गं चरणयोः पदयोर्निजगृहे निगृहीतवान् । उत्पतितस्य भगवतश्चरणौ स्वकरा-
भ्यां जग्राहेत्यर्थः ॥ १२ ॥

हिन्दी—अन्तरिक्षमें वेगसे उछले हुए त्रिपुरविजयी शिवजीके दोनों पैरोंको
जमीनको झुकाते हुए अर्जुनने वेगसे सम्मुख जाकर मार्गके बीचमें पकड़
लिया ॥ १२ ॥

विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकाममवनौ तमक्लमं निष्पिपेष परिरभ्य वक्षसा ॥ १३ ॥

मल्लि०—विस्मित इति । तेन कर्मणा चरणग्रहणरूपेण सपदि विस्मितः
सविस्मयः कर्मणां क्षयकरः । मोक्षप्रदः इत्यर्थः । परः पुमान् हरोऽवनौ क्षितौ
क्षेप्तुं कामो यस्य तम् । 'तुं काममनसोरपि' इति मकारलोपः । अक्लममक्लान्तं
तं पार्थं वक्षसा परिरभ्य निष्पिपेष । गाढमालिश्लिषेत्यर्थः । रथोद्धता वृत्तम् ॥ १३ ॥

हिन्दी—अर्जुनके चरणग्रहणरूप उस कर्मसे उस क्षणमें आश्चर्ययुक्त होकर
कर्मोंका क्षय करनेवाले अर्थात् मोक्ष देनेवाले परमपुरुष शिवजीने अर्जुनको जमीन-
पर पटकनेकी इच्छा करके और ग्लानिरहित उनको छातीसे आलिङ्गन कर पीस
डाला ॥ १३ ॥

४०८
किरातार्जुनीयम्

तपसा तथा न मुदमस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तमहो ! निजमेव सत्त्वमुपकारि सताम् ॥ १४॥

**मल्लि०—**तपसेति । भगवान् देवः । अस्यार्जुनस्य विपुलसत्त्वतया बहुसत्त्व-संपदा धैर्यसंपत्त्येति यावत् । यथा मुदं ययौ तथा तपसा मुदं न ययौ । तथा हि—सतां गुणसंहतेस्तपःसेवादिगुणसंघातात् समतिरिक्तम्‌अतिशयितं निजं सत्त्वमेवेष्टकार्यमुपकारकमहो ! प्रमिताक्षरा वृत्तम् ॥ १४ ॥

**हिन्दी—**भगवान् (शिवजी) अर्जुनके प्रचुर बल सम्पत्ति होनेसे जिस तरह प्रसन्न हुए उस तरह उनकी तपस्यासे प्रसन्न नहीं हुए, जैसे कि सज्जनोंका तपस्या और सेवा आदि गुणसमूहसे अतिरिक्त अपना बल ही उपकार करनेवाला होता है ॥ १४ ॥

अथ हिमशुचिभस्मभूषितं शिरसि विराजितमिन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतमुदीक्ष्य ननाम पाण्डवः ॥ १५ ॥

**मल्लि०—**अथेति । अथ हिमशुचिना हिमशुभ्रेण भस्मना भूषितं शिरसीन्दुलेखया विराजितं शोभितम् अतिमनोहरं सुन्दरं स्ववपुर्दधतं किरातरूपं विहाय निजविग्रहं दधानं हरमुदीक्ष्य पाण्डवो ननाम प्रणतवान् । अपरवक्त्रं वृत्तम्—'अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरौ' । इति लक्षणात् ॥ १५ ॥

**हिन्दी—**तब बर्फके समान सफेद भस्मसे भूषित, शिरपर चन्द्रकलासे शोभित अतिशय सुन्दर अपने शरीरको धारण करते हुए शिवजीका दर्शन कर पाण्डव-(अर्जुन) ने प्रणाम किया ॥ १५ ॥

सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् ।
निहितमपि तथैव पश्यन्नसि वृषभगतिरुपाययौ विस्मयम् ॥ १६ ॥

**मल्लि०—**सहेति । वृषभस्येव गतिर्यस्य सोऽर्जुनस्तस्मिन्समये सहशरधिभ्यां वर्तत इति सहशरधि सनिषङ्गम् । 'वोपसर्जनस्य' इति विकल्पात् 'सह' शब्दस्य न सभावः । निजं कार्मुकं गाण्डीवं तथैव पूर्ववदेव संवर्मितं सम्यक्कवचितमतनु महन्निजं वपुस्तथैव निहितं यथापूर्वं स्थापितमपि खड्गं च तथैव पश्यन् विस्मयमुपाययौ । क्वचित्तु 'वृषभगतिम्' इति पाठः । तत्र वृषभगतिं शिवं न पश्यन् विस्मयमुपाययावित्यर्थः । प्रमुदितवदना वृत्तम्—'प्रमुदितवदना भवेन्नौ ररौ' । इति लक्षणात् ॥ १६ ॥