किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
अष्टादशः सर्गः
अष्टादशः सर्गः
मल्लि०—शरणमिति। हे अजित अपराजित ! हे भव ! अतिकारुणिकमति-
दयालुम्। 'तदस्य प्रयोजनम्' इति ठक्। भक्तिगम्यं भक्तिमात्रसुलभं भवन्तं शरणं
रक्षकमधिगम्य जितमृत्यवो विगतमरणाः। अमरा भूत्वेत्यर्थः। जनाः ससुरासुरस्य
जगतो भय आपदि स्वयं रक्षितारो भवन्ति। 'शरणं गृहरक्षित्रोः' इति विश्वः।
प्रमिताक्षरा वृत्तम् ॥ २२ ॥
हिन्दी—किसीसे पराजित न होनेवाले हे शिवजी ! अत्यन्त दयालु भक्तिसे
सुलभ आपको रक्षक पाकर मृत्युको जीतकर भयके समयमें देवताओं और दैत्योंसे
युक्त लोकको शरण देनेवाले हो जाते हैं ॥ २२ ॥
विपदेति तावदवसादकरी न च कामसंपदभिकामयते ।
न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश ! न नतिः क्रियते ॥ २३ ॥
मल्लि०—विपदेति । हे ईश ! यावत्तव नतिः प्रणामो न क्रियते । पुरुषेणेति
शेषः। तावदेव एकं पुरुषमेकाकिनं सन्तमवसादकरी क्षयकरी विपदेति प्राप्नोति ।
कामसंपत् मनोरथसंपच्च नाभिकामयते नेच्छति पुरुषाश्चान्ये लोकास्तमेकं पुरुषं
तव स्तुतिमकुर्वाणं न नमन्ति न वशे वर्तन्ते । नानिष्ठनिवृत्तिर्नापीष्टप्राप्तिरित्यर्थः ।
यदा तु त्वां प्रणमन्ति तदैव सर्वं लभ्यते इति भावः ॥ २३ ॥
हिन्दी—हे ईश्वर ! पुरुष जबतक आपको प्रणाम नहीं करता है तबतक
सहायहीन उसको क्षय करनेवाली विपत्ति प्राप्त हो जाती है । मनोरथसम्पत्ति
भी उस पुरुषको नहीं चाहती है । अन्यपुरुष भी अपनी स्तुति न करनेवालेके वशमें
नहीं रहते हैं ॥ २३ ॥
संसेवन्ते दानशीला विमुक्त्यै संपश्यन्तो जन्मदुःखं पुमांसः ।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥२४॥
मल्लि०—संसेवन्त इति । दानं शीलं स्वभावो निजधर्मो येषां ते दानशीलाः ।
त्वामेवोद्दिश्य दानं कुर्वन्त इत्यर्थः । 'तस्माद्दानं परमं वदन्ति' इति श्रुतेरिति
भावः । कुतः । यतो जन्मदुःखं संपश्यन्तोऽनुभवन्तः पुमांसो विमुक्त्यै मोक्षाय
संसेवन्ते । भवन्तमिति शेषः । न च तच्चित्रम्, किंतु आनतेभ्यः प्रणम्रेभ्यो
निःसङ्गो निःस्पृहस्त्वं यत् फलसि फलं ददासि । तेषां फलार्थित्वादिति भावः ।
यत् केवलं निरुपाधिकं कारुण्यं करुणा । स्वार्थे ष्यञ् । 'कारुण्यं करुणा घृणा'
| ४१२ | किरातार्जुनीयम् |
|---|
इत्यमरः । न स्वकार्यम् । एतदेव चित्रम् । केवलं परार्थत्वादिति भावः । शालिनी-
वृत्तम् ॥ २४ ॥
**हिन्दी—**दान करनेके स्वभाववाले पुरुष और जन्मके दुःखको देखते हुए मोक्ष पानेके लिए आपकी सेवा करते हैं । प्रणाम करनेवालोंको निस्पृह होकर जो आप फल देते हैं वह केवल आपकी करुणा है, अपना कार्य नहीं है ॥ २४ ॥
प्राप्यते यदिह दूरमगत्वा यत्फलत्यपरलोकगताय ।
तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकमृते भवतस्तत् ॥ २५ ॥
**मल्लि०—**प्राप्यत इति । यत् तीर्थम् । इहाऽस्मिँल्लोके दूरमगत्वा प्राप्यते । स्मृतिमात्रसुलभमित्यर्थः । गङ्गादिकं तु न तथेति भावः । यत्तीर्थमपरलोकगताय फलति फलं प्रयच्छति । अत्रापि स्मरणमात्रादेवेति भावः । भवः संसारः स एव अर्णवस्ततो बाह्यं बहिर्भवं संसारातीतम् । मोक्षपदमित्यर्थः । 'बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्' इति ञ्यप्रत्ययः । सर्वे कामाः प्रयोजनमस्येति सार्वकामिकम् । 'तदस्य प्रयोजनम्' इति ठक् । तत् तादृक् । तरन्त्यनेनेति तीर्थं तारकं भवतस्त्वदृते । 'अन्यारात्—' इत्यादिना पञ्चमी । अन्यन्नास्ति । औपच्छन्दसिकं वृत्तम् ॥ २५ ॥
**हिन्दी—**जिस तीर्थको मनुष्य इस लोकमें दूर न जाकर पाता है जो तीर्थ परलोकमें गये हुए पुरुषको फल देता है, संसाररूप समुद्रसे बाह्य अर्थात् मोक्षपद जो कि सकल अभिलाषरूप प्रयोजनवाला तीर्थ है वह आपसे अतिरिक्त नहीं है ॥ २५ ॥
व्रजति शुचि पदं त्यवयि प्रीतिमान्प्रतिहतमतिरेति घोरां गतिम् ।
इयमनघ ! निमित्तशक्तिः परा तव वरद ! न चित्तभेदः क्वचित् ॥२६॥
**मल्लि०—**व्रजतीति । हे वरद ! त्वयि प्रीतिमान् नरः शुचि निर्मलं पदं कैवल्यं मुक्ति व्रजति । 'मुक्तिः कैवल्यनिर्वाण—' इत्यमरः । प्रतिहतमतिरुपहतबुद्धिः । त्वद्वेषीत्यर्थः । घोरां गतिं तीव्रं नरकम् । एति प्राप्नोति । न चैतावता तव रागद्वेषकलङ्कपङ्क इत्याह — इयमिति । हे अनघ निष्कलङ्क ! इयम् । भक्ताभक्तयोरिति शेषः । विधेयप्राधान्यात्स्त्रीलिङ्गता । परा दुस्तरा निमित्तशक्तिर्निमित्तभूता शक्तिः स्वचेष्टितमहिमा । तव क्वचिद्भक्ते द्वेषिणि वा कुत्रापि