किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६१
सर्गः १ ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ६१
हन्तुं यतते। एवम्भूते शत्रौ कालप्रतीक्षाकरणं महदनुचितम्, यदि कोऽपि दुर्बलो वैरिकृतापराधप्रतीकारेक्षमः शत्रुत: शङ्कितो भवेत् तस्योचितमेव, भवन्तस्तु तत्प्रतीकारकरणसमर्थाः सन्ति । ईदृशदशायां कपटिषु वैरिषु कपटमेव विधाय सहसा सन्धिर्भेद्व्यः। 'शठे शाठ्यं समाचरेत्' ॥४५॥
**भाषार्थः—**सदा कपट (दगा) करने वाले दुश्मनों से समय की प्रतीक्षा करते रहना ठीक नहीं; क्योंकि जय की इच्छा रखने वाले राजा लोग छल से दुश्मनों की सन्धि तोड़कर सत्यानाश करते हैं। आप तो निश्चिन्त हैं, यह ठीक नहीं है ॥४५॥
उक्तमर्थमाशीर्वादपूर्वकमुपसंहरति—
विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ।
रिपुतिमिरमुदस्योदीयमानंदिनादौ दिनकृत मिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये प्रथम सर्गः ॥१॥
**--**
विधीति । विधिर्दैवम् । 'विधिर्विधाने दैवेच' इत्यमरः। समयः कालस्तयोर्नि-
योगात्रियमनाद्धेतोः। तयोर्दुरतिक्रमत्वादिति भावः। अगाधे दुस्तरे । आपत्पयोधिरिवेत्यु-
पमितसमासः। दिनकृतमिवेति । वक्ष्यमाणानुसारात्तस्मिन्नापत्पयोधौ भग्नम्। सूर्योऽपि
सायं सागरे मज्जति परेद्युरुन्मज्जतीत्यागमः। दीप्तिः प्रताप आतपश्च तस्याः संहारेण
जिह्ममप्रसन्नम् । शिथिलवसुं शिथिलधनमन्यत्र शिथिलरश्मिम् । 'वसुर्देवेऽग्रौ रश्मौ
न वसु तोये धने मणौ' इति वैजयन्ती । 'शिथिलबलम्' इति पाठे तूभयत्रापि शिथिल-
शक्तिकमित्यर्थः। रिपुस्तिमिरमिवेति रिपुतिमिरमुदस्य निरस्योदीयमानमुद्यन्तम् । 'इण्
गतौ' इति धातो दैवादिकात्कर्तरिशानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीर्भूयः
समभ्येतु भजतु । 'आशिषि लिङ्लोटौ' इति लाट् । चमत्कारकारितया मङ्गलाचरण-
रूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः। यथाह—
भगवान्भाष्यकारः—'मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि
प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति' इति
पूर्णोपमेयम् । मालिनी वृत्तम् । सर्गान्तत्वाद्वृत्तभेदः। यथाह दण्डी 'सर्गैरनतिविस्तीर्णैः
श्रव्यवृत्तैः सुसन्धिभिः । सर्वत्र भिन्नवृत्तान्तरुपेतं लोकरञ्जनम् ॥' इति ।
अथ कविः काव्यवर्णनीयाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति-इतीत्यादि ।
| ७० | किरातार्जुनीयम् | [प्रथमः |
|---|
इतिशब्दः परिसमाप्तौ । भारविकृताविति कविनामाकथनम् । महाकाव्य इति महच्छब्देन लक्षणसम्पत्तिः सूचिता । किरातार्जुनीयः इति काव्यवर्णनीययोः कथनम् ।
प्रथमः सर्गः समाप्त इति शेषः। एवमुत्तरत्रापि द्रष्टव्यम् । किराताजुनावधिकृत्य कृतोग्रन्थः किरातार्जुनीयम् । 'शिशुक्रन्दयमसभाद्वन्द्वेन्द्रजननादिभ्यश्छः' इति द्वन्द्वाच्छ-प्रत्ययः। राघवपाण्डवीयमितिवत् । तथा ह्यर्जुन एवात्र नायकः। किरातास्तु तदुत्कर्षाय प्रतिभटतया वर्णितः। यथाह दण्डी 'वंशवीर्यप्रतापादि वर्णयित्वा रिपोरपि तज्जयान्नय-कोत्कर्ष कथनं च धिनोति नः' इति । अथात्र सङ्ग्रहः। 'नेतामध्यमपाण्डवो भगवतो नारायणस्यांशजस्तस्योत्कर्षकृते त्ववर्णयततरां दिव्यः किरातः पुनः। शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः। फलम्' इति ।।४६।।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय काव्य-व्याख्यायां घण्टापथसमाख्यायां प्रथमः सर्गः समाप्तः॥१॥
अन्वयः-लक्ष्मी (कर्त्री) विधिसमयनियोगात् दीप्तिसंहारजिह्मम्, शिथिलवसुम्, अगाधे, आपत्पयोधौ, मग्नम्, दिनादौ रिपुतिमिरम्, उदस्य उदीयमानं, दिनकृतम्, इव, त्वाम्, भूयः समभ्येतु ।।४६।।
सुधा-लक्ष्मीः = राजलक्ष्मीः, पक्षान्तरे, तेजः श्री विधिसमयनियोगात् = दैवकालानुरोधात् दुर्भाग्यदुःसमयप्रभावादित्यर्थः। वा दैवसमयानतिक्रमणात्, दीप्तिसंहारजिह्मम्=कान्तिहानिखिन्नम् पक्षान्तरे तेजोविनाशशिथिलम् । शिथिलवसुम्=मन्दतेजसम् । पक्षान्तरे क्षीणधनम्, अगाधे=अतलस्पर्शे, दुस्तरे इत्यर्थः। पक्षान्तरे अपरिमेये, आपत्पयोधौ = विपत्समुदे, पक्षान्तरे विपद्रूपकेऽर्णवे, मग्नम् = निमज्जमानम् दिनादौ = प्रभाते, पक्षान्तरे शुभसमयसमागमे, रिपुतिमिरम् = वैरीरूपान्धकारम्, उदस्य = निरस्य, संहृत्येत्यर्थः। उदीयमानम् = उद्यन्तम्, पक्षान्तरे उन्नत्यभिमुख- गमनशीलम् दिनकृतम् = सूर्यम्, इव त्वाम् = भवन्तम् युधिष्ठिरम्, भूयः = पुनः, समभ्येतु = भजतु, गच्छतु इति भावः॥४६॥
समासः--विधिश्च समयश्च विधिसमयौ, तयोः विधिसमयोनियोगः, विधिसमयनियोगस्तस्माद्विधिसमयनियोगात् । वा विधेः समयः (सिद्धान्तः) विधिसमयस्तस्य नियोगस्तस्मात् । दीप्तेः संहारो दीप्तिसंहारस्तेन जिह्म इति दीप्तिसंहारजिह्मस्तं दीप्तिसंहारजिह्मम् । शिथिलं वसु यस्य सः शिथिलवसुस्तं शिथिलवसुम् । आपत्