सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५१

सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५१

यद्वा नृपेति पृथक्पदः। तस्मात्पौरुषं कर्तव्यमेवेत्यर्थः। अत्र पूर्वपूर्वस्यातिक्रमसद्भावे-
रुत्तरोत्तरविपदादिकं प्रति कारणत्वात्कारणमालाख्योऽलङ्कारः तथा च सूत्रम्—
'पूर्वपूर्वस्योत्तरेहेतुत्वे कारणमाला ॥ १४ ॥'

अन्वयः—विपदः, अविक्रमम्, अभिभवन्ति, आपदुपेतम्, आयतिः, रहयति ।
निरायतेः लघुता नियता, अगरीयान्, नृपश्रियः, पदं, न ( भवति ) ॥ १४ ॥

सुधा—विपदः = आपदः नानाविधाः क्लेशा इत्यर्थः । अविक्रमं = निरुद्योगम्,
पौरुषहीनमलसमिति यावत्, अभिभवन्ति = आक्रामन्ति, अथ चाविक्रमत्वेनापदा-
ऽन्वितो भवति, तदा किं तदाह—आपदुपेतम् = विपद्युक्तम्, आयतिः = उत्तर-
कालः, भाविसमय इति यावत् । रहयति = त्यजति, अर्थाद्धिरुद्योगिनो विपद्ग्रस्त-
तया भाविसुभोदयोपि दूरीभवति । निरायतेः = अनागामिशुभस्य, अदृष्टेष्टार्थः ।
लघुता = क्षुद्रता, अवमानना, नियता = निश्चिता सा च महती न भवति । अतः,
अगरीयान् = लघीयान्, नीचो जन इति शेषः । नृपश्रियः = राजलक्ष्म्याः, पदम् =
स्थानम्, न भवति, अतो वसन्ते सर्वासामवनतीनां मूलं तु अनुद्योग एव, अतो
भवता यत्नपरेण भाव्यमित्यर्थः ॥ १४ ॥

समासः—न विक्रमः यस्य असौ अविक्रमस्तमविक्रमम् । आपदा उपेत आप-
दुपेतस्तमापदुपेतम् । निर्गता आयतिर्यस्मात्सः निरायतिः । अतिशयेन गुरुर्गरी-
यान्, न गरीयान् अगरीयान् । नृपस्य श्रीः नृपश्रीः, तस्याः नृपश्रियाः ॥ १४ ॥

व्याकरणम्—अभिभवन्ति=अभि + भू + लट् । रहयति=रह + णिच् + लट् ॥ १४ ॥
वाक्यान्तरम्—अविक्रमो जनः विपद्भिः अभिभूयते । आपदुपैतो जनः आयत्या
रह्यते । निरायतेर्लघुता नियता भूयते । अगरीयसा नृपश्रियः पदेन न भूयते ॥ १४ ॥
कोषः—'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिसक्तिता' इत्यमरः । 'विपत्त्यां
विपदापदौ' इत्यमरः । 'उत्तरः काल आयतिः' इत्यमरः । 'पदं व्यवसितत्राणस्थान-
लक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १४ ॥

सारार्थः—य उद्योगं न कुरुते, स विपदधीनो भवति । तथा च विगतायत्याश्च
अमान्यो जनो राज्यकरणयोग्यो नहि भवतीति । अतो भवता सम्यग्लोकः सुखः
करणीयः ॥ १४ ॥

भाषार्थः—आलसी को विपत्तियाँ घेरती हैं, विपत्ति से ग्रसित को होनहार
भी छोड़ देता है । बिना होनहार वाले की नीचता आ जाती है और नीच लोग
राजपद के लायक नहीं रहते ॥ १४ ॥

फलितमाह—

सबलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायमक्षताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ १५ ॥

१ कि० सं० टि०

८२ | किरातार्जुनीयम्। | [ द्वितीय

तदिति। तत्तस्माद् उपेक्षायां दोषसम्भवादित्यर्थः। उन्नतेरभ्युदयस्य प्रतिपक्ष-
मन्तरायं व्यवसायबन्ध्यतामुद्योगशून्यतामवलम्ब्यालम्। अवलम्बनेनालमित्यर्थः।
'अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वा प्रत्ययः। तस्य ल्यबादेशः।
तथाहि पराक्रम आश्रयः कारणं यासां तास्तथोक्ताः समृद्धयः सम्षदो विषादेन
सममनुत्साहेन निवसन्ति। पौरुषसाध्याः। सम्पदो नानुत्साहसाध्याः, उभयोः
सहावस्थानविरोधादित्यर्थः। वैधर्म्येण कार्यकारणरूपोऽर्थान्तरन्यासः॥ १५॥

अन्वयः—तत्, उन्नतेः प्रतिपक्षम्, व्यवसायबन्ध्यताम्, अवलम्ब्य, अलम्,
(यतः) पराक्रमाश्रयाः, विषादेन, समं, न, निवसन्ति ॥ १५ ॥

सुधा—तत् = तस्मात्कारणात्, उन्नतेः = अभ्युदयस्य, प्रतिपक्षम् = बाधकम्,
व्यवसायबन्ध्यताम् = उद्योगशून्यताम्, आलस्यमित्यर्थः। अवलम्ब्य = स्वीकृत्य
अलम् = व्यर्थम्। नहि किमपि शुभफलमनशो भवतः प्रकृत्या वर्त्तमानयेति भावः।
यतो यस्मात् कारणादिति शेषः। पराक्रमाश्रयः = विक्रमाधीनाः, उद्योगाश्रया
इत्यर्थः। समृद्धयः = सम्पदः, ऐश्वर्याणीत्यर्थः। विषादेन = अनुत्साहेन, समं=सह,
न निवसन्ति = न तिष्ठन्ति, अर्थादुत्साहेन सहैवैश्वर्याणि वर्त्तन्तेऽत उत्साहामयो
भवतु भवान्, जहातु हानिमूलमालस्यम्। तथोक्तं भारते—
'आलस्यं यदि न भवेज्जगत्यनर्थः को न स्याद्बहुधनवान् बहुश्रुतश्च।
आलस्यादियमवनी च सागराम्ता सङ्कीर्णा नरपशुभिश्च निर्धनैश्च ॥' इति ॥१५॥

समासः—व्यवसायस्य बन्ध्यता व्यवसायबन्ध्यता, तां व्यवसायबन्ध्यताम्।
पराक्रम एवाश्रयो यासां ताः पराक्रमाश्रयाः ॥ १५ ॥

व्याकरणम्—अवलम्ब्य = अव + लबि + क्त्वा + ल्यप् । निवसन्ति = नि +
वस् + लट् ॥ १५ ॥

वाच्यान्तरम्—पराक्रमाश्रयाभिः समृद्धिभिः विषादेन समं न न्युष्यते ॥ १५॥

कोषः—'अलम्भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः। 'उद्योगो व्यवसायश्च
पौरुषम्' इति कोषः। 'पराक्रमो विक्रमश्च साहसः पौरुषम्' इति कोषः। 'खेदो
विषादो दुःखञ्च क्लेश इत्यपि कथ्यते' इति ॥ १५ ॥

सारार्थः—यतो हि उद्योगहीनानां न कदाप्युन्नतिर्भवति, अतो भवद्भिः सत्वर-
मुद्योगशीलैर्भाव्यम्। सम्पदस्तु तत्रैव तिष्ठन्ति, यत्रैव पराक्रमः, यत्राऽनुत्साहो
वर्तते, तत्र वर्तमाना अपि सम्षदोऽपययन्ति। तेन भवद्भिः समयोचित-
माचरणमाचरितव्यमिति ॥ १५ ॥

भाषार्थः—क्योंकि बिना उद्योग के सब विपत्तियाँ घेरती हैं, इसलिए आप
जान-बूझकर भी ऐसे चुपचाप बैठे हैं, यह ठीक नहीं है। सम्पत्तियाँ तो पराक्रमियों
के यहाँ ठहरती हैं न कि उद्योगहीन अनुत्साहियों के यहाँ ॥ १५॥