किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पञ्चमः सर्गः ५९
पञ्चमः सर्गः ५९
**अर्थः—**प्रियार्हे = प्रिययोग्ये। राजराजभृत्ये = यक्षराजसेवके। इति = पूर्वोक्तम्। प्रियं = मधुरम्। हितं = हितकरम्। उक्त्वा = कथयित्वा। सपदि = द्रुतम्। स्वं = स्वकीयम्। धाम = स्थानं। गतवति = गते सति। पृथासुतः = अर्जुनः। सोत्कण्ठम् = सोत्सुकम्। किमपि प्रदध्यौ = चिन्तयामास। हि = यतः। सद्वियोगः = सतां वियोगः। भृशम् = अत्यन्तम्। अरतिम् = व्यथाम्। सन्धत्ते = करोति। अत्र अर्थान्तरन्यासः।
कोषः—‘भृत्ये दासेरदासेयदासगोप्यकचेटकाः’ इत्यमरः।
**हिन्दी—**इस प्रकार प्रिय एवं हितकर वाक्य कहकर प्रिय यक्ष के अपने लोक (स्थान) को चले जाने पर पृथासुत अर्जुन उत्कण्ठित होकर कुछ सोचने लगे। वास्तव मे प्रिय लोगों का वियोग व्यथित कर देता है॥ ५१ ॥
तमर्नतिशयनीयं सर्वतः सारयोगा-
दांवरहितमनेकेनाङ्गभाजा फलेन।
अकृशमकृशलक्ष्मीश्चेतसाशंसितं स
स्वमिव पुरुषकारं शैलमभ्याससाद ॥ ५२ ॥
**अन्वयः—**अकृशलक्ष्मीः सः सर्वतः सारयोगात् अनतिशयनीयम् अनेकेन अङ्गभाजा फलेन अविरहितम् अकृशं चेतसाशंसितं तं शैलम् अभि स्वं पुरुषकारम् इव आससाद।
**विग्रहः—**अकृशाः लक्ष्म्यः यस्य सः = अकृशलक्ष्मीः। सारस्य योगस्तस्मात् = सारयोगात्। न अतिशयनीयम् = अनतिशयनीयम्। अङ्गं भजतीति अङ्गभाक्, तेनाङ्गभाजा। नास्ति । विरहितम् = अविरहितम्। पुरुषस्य कारस्तं = पुरुषकारम्।
**अर्थः—**अकृशलक्ष्मीः = विशाललक्ष्मीः। सः = अर्जुनः। सर्वतः = सर्वत्र। सारयोगात् = बलप्रयोगात्। अनतिशयनीयम् = अनतिक्रमणीयम्। अनेकेन = बहुना। अङ्गभाजा = समीप गतेन। फलेन = कार्यसिद्ध्या। अविरहितम् = अशून्यम्। अकृशम् = अतनुं। चेतसाशंसितं = प्राप्तुम् इष्टम्। तं = पूर्वोक्तम्। शैलम् अभि = नीलमणिपर्वतम् प्रति। स्वं = निजम्। पुरुषकारम् = भाग्यम् इव। आससाद = प्राप्तवान्। अत्रोपमालङ्कारः। मालिनीवृत्तम्।
६० | किरातार्जुनीयम्
कोष:--'सारो बले स्थिरांशे च न्यासे क्लीबं वरे त्रिषु' इत्यमरः ।
**हिन्दी--**जिस प्रकार अर्जुन का भाग्य सर्वथा अनतिक्रमणीय, शीघ्र होने-वाला तथा अनेक फलों से युक्त महान् था उसी प्रकार नीलमणिपर्वत भी था। पूर्ण बल लगाकर भी उसे कोई पार नहीं कर सकता था। बहुत समय से अर्जुन इस विशाल पर्वत पर आने के लिए इच्छुक थे। इस प्रकार इन्द्रनील पर्वत पर अर्जुन पहुँच गये ॥ ५२ ॥
इति भारविकृतो सुधाटीका-संबलित-किरातार्जुनीये पञ्चमः सर्गः ।
षष्ठः सर्गः
रुचिराकृतिः कनकसानुमयो परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥ १ ॥
अन्वयः—अथो रुचिराकृतिः धृतसत्पथः सः पुरुहूतसुतः कनकसानुं तम् परमः पुमान् पतताम् पतिम् इव त्रिपथगाम् अभितः आरुरोह ।
विग्रहः—रुचिरा आकृतिर्यस्य सः=रुचिराकृतिः । धृतः सतां पन्था येन सः=धृतसत्पथः । पुरुहूतस्य सुतः = पुरुहूतसुतः । कनकस्य सानवो यस्य तम्=कनकसानुम् । त्रिभिः पथिभिर्गच्छतीति त्रिपथगा, ताम्=त्रिपथगाम् ।
अर्थः—अथो = इन्द्रनीलासादनानन्तरम् । रुचिराकृतिः = सौम्यरूपः । धृतसत्पथः = गृहीतसन्मार्गः । सः = अर्जुनः । पुरुहूतसुतः = इन्द्रपुत्रः । कनकसानुं = सुवर्णशेखरम् । तम् = इन्द्रनीलाद्रिम् । परमः पुमान् = विष्णुः । पततां = पक्षिणाम् । पतिं = स्वामिनं, गरुडम् इव । त्रिपथगाम् = भागीरथीम् । अभितः = अभिमुखम् । आरुरोह = आरोहणं कृतवान् । अत्र प्रमिताक्षरावृत्तम् ।
कोषः—‘समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः’ इत्यमरः ।
हिन्दी—इन्द्रकील पर्वत पर पहुँचने के पश्चात् सुन्दर शरीरवाले, सन्मार्ग पर चलनेवाले इन्द्रपुत्र अर्जुन ने भागीरथी के सम्मुख से सुवर्ण-शिखरों वाले उस इन्द्रनील पर्वत पर इस प्रकार चढ़ना आरम्भ किया जैसे पुराणपुरुष (विष्णु) गरुड़ पर चढ़ते हैं ॥ १ ॥
अथास्य कार्यसिद्धिनिमित्तानि सूचयन् मार्गं वर्णयति :—
तमनिन्द्यवन्दिन इवेन्द्रसुतं विहितालिनिक्कणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥ २ ॥
अन्वयः—विहितालिनिक्कणजयध्वनयः पवनेरिताकुलविजिह्मशिखाः जगतीरुह अनिन्द्यवन्दिनः इव तम् इन्द्रसुतं कुसुमैः अवचकरुः ।
विग्रहः—विहिताः अलिनिक्कणा जयध्वनय इव यैस्ते=विहितालिनिक्कणजयध्वनयः । पवनेन ईरिताः अतएव, आकुलाः विजिह्माः शिखाः येषां ते=
६२ किरातार्जुनीयम्
पवनेरिताकुलविजिह्यशिखाः । अनिन्द्याः ये वन्दिनस्ते = अनिन्द्यवन्दिनः ।
इन्द्रस्य सुतस्तम् = इन्द्रसुतम् ।
अर्थः—विहितालि निक्कणजयध्वनयः = कृतभ्रमर विजयध्वनयः । पवनेरिता-
कुलविजिह्यशिखाः = वायुप्रेरितलोलवक्रशाखाग्राः । जगतीरुहः = भूरुहः । अनिन्द्य-
वन्दिन इव = अनवद्यस्तुतिपाठका इव । तम् = उपर्युक्तम् । इन्द्रसुतम् =
पुरुहूतपुत्रम् (अर्जुनम्) । कुसुमैः = पुष्पैः । अवचकरुः = अभिववृषुः । अत्र
सङ्करालङ्कारः ।
कोषः—'शिखा ज्वाला केकिमौलोः शिखाशाखाप्रगौलिषु' इति वैजयन्ती ।
हिन्दी—जयध्वनि के रूप में भौंरों के मधुर गुञ्जन से युक्त, वायु के द्वारा
झुकी हुई सुन्दर शाखाओं वाले वृक्षों ने प्रशस्त वन्दीजनों की भाँति इन्द्रसुत
अर्जुन का पुष्पों के द्वारा अभिषेक किया अर्थात् अर्जुन के स्वागत में वृक्षों ने
पुष्पवृष्टि की ॥ २ ॥
अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः ।
परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः ॥ ३ ॥
अन्वयः — अवधूतपङ्कजपरागकणाः तनुजाह्नवीसलिलवीचिभिदः सुखाः
मरुतः सुहृदः सखायम् इव तम् अभिमुखम् एत्य परिरेभिरे ।
विग्रहः—पङ्कजानां परागः पङ्कजपरागस्तस्य कणाः, अवधूताः पंकजपराग-
कणाः यैस्ते—अवधूतपङ्कजपरागकणाः । तनुजाह्नव्याः सलिलम्, तस्य वीचय-
स्ताः भिन्दन्तीति = तनुजाह्नवीसलिलवीचिभिदः । सुखयन्तीति सुखाः ।
अर्थः—अवधूतपङ्कजपरागकणाः = उद्धृतकमलकेसरकणाः । तनुजाह्नवी-
सलिलवीचिभिदः = क्षीणगङ्गाजलतरङ्गभिदः । सुखाः = सुखकराः । मरुतः =
पवनाः । सुहृदः = मित्ररूपाः । सखायम् = मित्रम्, इव, तम् = अर्जुनम् ।
अभिमुखम् = सम्मुखम् । एत्य = गत्वा । परिरेभिरे = आलिङ्गितवन्तः ।
कोषः—'भंगस्तरंग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु' इत्यमरः ।
हिन्दीः—पङ्कजपराग को बिखेरते हुए, छोटी-छोटी गंगाजल की लहरों को
भेदते हुए चलनेवाले सुखदायी मित्र पवन ने उसी प्रकार अर्जुन का आलिंगन
किया जैसे कोई मित्र अपने प्रियमित्र के मिलने पर करता है ॥ ३ ॥
उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।
मुदमस्य मङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥ ४ ॥
षष्ठः सर्गः । ६३
**अन्वयः—**उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः अनुवप्रम् अपाम् ध्वनयः अस्य माङ्गलिकतूर्यकृताम् मुदम् प्रतेनुः ।
**विग्रहः—**उदितानि उपलानि = उदितोपलानि, तेषु, स्खलनम्, तेन संवलिताः = उदितोपलस्खलनसंवलिताः । हंसानां सारसानाञ्च विरावाः हंस-सारसविरावास्तैः । स्फुटैः हंससारसविरावैः युज्यन्ते इति स्फुटितहंससारस-विरावयुजः । मङ्गलं प्रयोजनं येषां तं = माङ्गलिकास्तै । तूर्यैः कृताम् = माङ्ग-लिकतूर्यकृताम् ।
**अर्थः—**उदितोपलस्खलनसंवलिताः = उन्नतपाषाणप्रतिघातचूर्णिताः । स्फुट-हंससारसविरावयुजः = हंससारसपक्षिकूजनयुक्ताः । अनुवप्रम् = उच्चस्थानात्पत-ताम् । अपाम् = जलानाम् । ध्वनयः = स्वराः । अस्य = अर्जुनस्य । माङ्गलिक-तूर्यकृताम् = मङ्गलकाले तूर्यवाद्यकृताम्, मुदम् = मोदम् । प्रतेनुः = विस्तार-यामासुः । अत्र निदर्शनालङ्कारः ।
कोषः—‘पुष्कराह्वस्तु सारसः’ इत्यमरः ।
**हिन्दी—**उन्नत पाषाणों से टकराकर छिन्न-भिन्न हुई, स्पष्ट हंसों और सारसों के कूजन से युक्त ऊँचे से नीचे की ओर गिरने वाले जल की कलकल ध्वनियों ने अर्जुन के माङ्गलिक काल में होनेवाले मृदङ्गादि वाद्य घोषों से जनित मोद की अभिवृद्धि की ॥ ४ ॥
अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।
स ददर्श वेतसवनाचरितां प्रणति बलीयसि समृद्धिकरोम् ॥ ५ ॥
**अन्वयः—**सः पुरः अवरुग्णतुङ्गसुरदारुतरौ बलीयसि सुरसरित्पयसां निचये वेतसवनाचरितां समृद्धिकरीं प्रणति ददर्श ।
**विग्रहः—**तुङ्गश्चासौ सुरदारुस्तस्मिन्, अवरुग्णे तुङ्गसुरदारुतरो इति = अवरुग्णतुङ्गसुरदारुतरौ । सुरसरितः पयांसि = सुरसरित्पयांसि, तेषां = सुरसरि-त्पयसाम् । वेतसवनेन आचरिता, ताम् = वेतसवनाचरिताम् । समृद्धिं करोतीति समृद्धिकरी ताम् = समृद्धिकरीम् ।
**अर्थः—**सः = अर्जुनः । पुरः = अग्रे । अवरुग्णतुङ्गसुरदारुतरौ = भग्नोन्नत-देवदारुवृक्षे । बलीयसि = बलवत्तरे । सुरसरित्पयसां = गङ्गाजलानाम् । निचये = राशौ । वेतसवनाचरिताम् = वानीरवनाचरिताम् । समृद्धिकरीम् = श्रेयस्करीम् । प्रणति = नतिम् । ददर्श अवलोकयामास ।
६४ किरातार्जुनीयम्
कोषः—'रथ्याभ्रपुष्पविदुलशीतवानीरवञ्जुलाः' इत्यमरः।
हिन्दी—अर्जुन ने सामने ही गङ्गाजल में ऊँचे-ऊँचे देवदारु वृक्षों की टूटी [हुई शाखाओं को इस प्रकार उछलते-डूबते देखा जैसे कि वे झुकी हुई बेंतप्रताओं की भाँति कल्याणकारिणी प्रणतियाँ हों ॥ ५ ॥
प्रबभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् ।
सरिदुत्तरीयमिव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् ॥ ६ ॥
अन्वयः—सः परितः सरोजरजसा अरुणितम् संहतिमत् तरङ्गरङ्गि सरिदुत्तरीयम् इव कलहंसकुलम् अवलोकयितुम् अलम् न प्रबभूव ।
विग्रहः—सरोजानां रजस्तेन = सरोजरजसा । तरङ्गैः रङ्गि = तरङ्गरङ्गि । कलहंसानां कुलम् = कलहंसकुलम् ।
अर्थः—सः = अर्जुनः । परितः = अभितः । सरोजरजसा = कमलपरागेण । अरुणितम् = पाटलितम् । संहतिमत् = नीरन्ध्रम् । तरङ्गरङ्गि = ऊर्मिशोभि । सरिदुत्तरीयम् इव = नदीस्तनांशुकसदृशम् । कलहंसकुलम् = कादम्बकुलम् । अवलोकयितुम् = द्रष्टुम् । अलम् = अत्यर्थम् । न प्रबभूव = न शशाक ।
कोष—'कादम्बः कलहंसः स्यात्' इत्यमरः ।
हिन्दी—वह (अर्जुन) चारों ओर कमलरज से रंगे हुए, अभिन्न तथा जलतरंगों से शोभित, गङ्गा के उत्तरीय के समान बने हुए हंससमूह को अधिक समय तक देखने में समर्थ नहीं हो सके ।
दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥ ७ ॥
अन्वयः—सः क्षतीः दधति परिणतद्विरदे मदस्रुतिभिः मुदितालियोषिति रोधसि अधिकां धृतिं बबन्ध । महान् रुजन् अपि महते गुणाय ।
विग्रहः—परिणताः द्विरदाः यस्मिंस्तस्मिन् = परिणतद्विरदे । मदानां स्रुतयः ताभिः = मदस्रुतिभिः । मुदिताः अलियोषितः यस्मिंस्तस्मिन् मुदितालियोषिति ।
अर्थः—सः = अर्जुनः । क्षतीः = क्षतानि । दधति = धारयति । परिणतद्विरदे = तिर्यग्दन्तप्रहारिद्विरदे । मदस्रुतिभिः = मदस्रवणैः । मुदितालियोषिति = प्रसन्नभ्रमरस्त्रीजने । रोधसि = तटे । अधिकाम् = महतीं । धृतिम् = प्रीतिम् ।
षष्ठः सर्गः ६५
बबन्ध = बद्धवान् । महान् = साधुः । रुजन् = पीडितो भवन् । अपि । महतेगुणाय = महोत्कर्षाय । भवति । अत्र अर्थान्तरन्यासालङ्कारः ।
कोषः— 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः ।
**हिन्दी—**अर्जुन के लिए गङ्गा का तट अधिक प्रियकर बन गया । यह तट हाथियों की तिरछी दांतों की चोटों से क्षत-विक्षत था । हाथियों के मदक्षरण से प्रसन्न भौंरे उसमें व्याप्त थे । महान् पुरुष पीड़ित होकर भी महान् उत्कर्ष के लिए प्रयत्नशील रहते हैं ॥ ७ ॥
अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीमभिननन्द रुतैः ॥ ८ ॥
**अन्वयः—**सः अनुहेमवप्रम् अरुणैः पृथुभिः ऊर्मिभिः समतां गतम् सहचरं करुणैः रुतैः अनुबध्नतीं रथाङ्गनामवनिताम् अभिननन्द ।
**विग्रहः—**अनु ( पश्चात् ) हेमवप्रस्य समीपे = अनुहेमवप्रम् । सह भूतं चरं = सहचरम् । रथाङ्गनाम्नां वनिता, ताम् = रथाङ्गवनिताम् ।
**अर्थः—**सः = अर्जुन । अनुहेमवप्रम् = हेमसानुसमीपे । अरुणैः = पाटलैः । पृथुभिः = विस्तृतैः । ऊर्मिभिः = तरङ्गैः । समतां = समत्वम् । गतम् = प्राप्तम् । सहचरं = प्रियम् । करुणैः = दीनैः । रुतैः = कूजितैः । अनुबध्नतीम् = अन्विष्यन्तीम् । रथाङ्गनामवनिताम् = चक्रवाकीम् । अभिननन्द = अभिनन्दनंचकार । अत्र तद्गुणालंकारः ।
कोषः—'सुवर्णं विस्तो हेम्नोऽक्षे' इत्यमरः । 'हिरण्यं हेम हाटकम्' इत्यमरः ।
**हिन्दी—**अर्जुन ने स्वर्ण-शिखर के निकट अरुण तथा विस्तृत तरङ्गों के द्वारा समता करनेवाले प्रिय सहचर (चक्रवाक) को करुण स्वर से कूजन करके ढूँढती हुई चक्रवाकी को अभिनन्दित किया ॥ ८ ॥
सितवाजिने निजगदू रुचायश्चलवीचिरागरचनापटवः ।
मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥ ९ ॥
**अन्वयः—**चलवीचिरागरचनापटवः रुचयः अम्भसि निमग्नम् अपि मणिजालम् मनोगतम् स्फुरितम् आकृतयः इव सितवाजिने निजग्दुः ।
**विग्रहः—**चलवीचीनां रागः = चलवीचिरागः, तस्य रचना = चलवीचिराग०
५ कि०
६६ | किरातार्जुनीयम्
रचना, तस्यां पटवः = चलवीचिरागरचनापटवः । मणीनां जालम् = मणिजालम् ।
मनसि गतम् = मनोगतम् । सिताः वाजिनः यस्य, तस्मै = सितवाजिने ।
अर्थः—चलवीचिरागरचनापटवः = चञ्चलतरङ्गरञ्जनरचनासमर्थाः । इनयः = प्रभाः । अम्भसि = जले । निमग्नम् = निमज्जतम् । अपि मणिजालम् = मणिसमूहम् । मनोगतम् = चेतोगतम् । स्फुरितम् = रोषादिविकारम् । आकृतय इव = भ्रूभङ्गादिबाह्यविकारा इव । सितवाजिने = अर्जुनाय । निजग्दुः = ज्ञापयामासुः ।
कोषः—‘मणिर्द्वयोरत्नजातौ रत्ने मुक्तादिकेऽपि च ।’ इत्यमरः ।
हिन्दी—चञ्चल तरङ्गों के रंगों की रचना करने में कुशल, रत्नों की प्रभायें जल में डूबो हुई थीं, उन प्रभाओं ने जल में छिपे मणि-समूह की सूचना अर्जुन को उसी प्रकार दी जैसे कि मनोगत रोषादि विकार आकृतियों से ही प्रकाश (ज्ञात) हो जाते हैं ॥ ९ ॥
उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता ।
स ददर्श केतकशिखाविशदं सरितः प्रहासमिव फेनमपाम् ॥१०॥
अन्वयः—उपलाहतोद्धततरङ्गधृतम् जविना मरुता विधूतविततं केतकशिखाविशदम् अपां फेन सरितः प्रहासम् इव सः ददर्श ।
विग्रहः—उपलैः आहताः उद्धताः तरङ्गाः = उपलाहतोद्धततरङ्गाः = तैः धृतम् = उपलाहतोद्धततरङ्गधृतम् । विधूतं च विततं च = विधूतविततम् । केतकस्य शिखः = केतकशिखा = तद्वद् विशदं = केतकशिखाविशदम् ।
अर्थः—उपलाहतोद्धततरङ्गधृतम् = प्रस्तरताडनोद्धतवीचिधृतम् । जविना = वेगवता । मरुता = वायुना । विधूतविततम् = उद्धतविस्तृतम् । केतकशिखाविशदम् = केतकशाखाग्रधवलम् । अपाम् = अम्भसां फेनम् = अब्धिकफम् । सरितः = नद्यः । प्रहासम् = अट्टहासम् । इव = सदृशम् । सः = अर्जुनः । ददर्श = अवलोकयामास ।
अत्रोत्प्रेक्षालंकारः ।
कोषः—‘डिण्डीरोऽब्धिकफः फेन’ इत्यमरः ।
हिन्दी—अर्जुन ने केतकी पुष्प के समान श्वेत जल-फेन को नदी के अट्टहास के समान देखा । यह फेन पत्थरों से ताड़ित होकर उत्पन्न हुई तरंगों से युक्त था तथा तीव्र वायु उसे उछालकर फैला रही थी ॥ १० ॥
षष्ठः सर्गः ६७
बहु बर्हिचन्द्रकनिभं विदधे धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिभेभपतिं विकसद्विलोचनशतं सरितः ॥ ११ ॥
अन्वयः—बर्हिचन्द्रकनिभं बहु दानपयसां पटलम् अवगाढम् इभपतिम् ईक्षितुम् विकसत् सरितः विलोचनशतम्, अस्य धृतिम् विदधे ।
विग्रहः—बर्हिणः चन्द्रकनिभम् = बर्हिचन्द्रकनिभम् ; दानस्य पयस्तेषाम् = दानपयसाम् । इभानां पतिः, तम् = इभपतिम् । विलोचनानि च तानि शतानि तेषां समाहार इति विलोचनशतम् ।
अर्थः—बर्हिचन्द्रकनिभं = मयूरमेचकसदृशम् । बहु = अनेकधा । दानमदजलानाम् । पटलम् = बिन्दुसमूहम् । अवगाढम् = अन्तःप्रविष्टम् इभपतिम् = गजराजम् । ईक्षितुम् = द्रष्टुम् । विकसत् = उन्मिषत् । सरितः = नद्यः । विलोचनशतम् = नेत्रशतम् इव । अस्य = अर्जुनस्य । धृतिम् = प्रीतिम् । विदधे = चकार । अत्रोत्प्रेक्षालंकारः ।
कोषः—‘समो चन्द्रकमेचकौ’ इत्यमरः
हिन्दी—मयूरपिच्छ के समान, प्रचुर मदजलबिन्दु जल में प्रविष्ट गजराज को देखने के लिए नदी के खुले हुए सैकड़ों नेत्रों के समान अर्जुन के प्रेम को बढाने में सहायक हुए ॥ ११ ॥
प्रतिबोधजृम्भणविभिन्नमुखी पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ १२ ॥
अन्वयः—प्रतिबोधजृम्भणविभिन्नमुखो पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दु इव शुक्तिवधूः पुलिने सरोरुहदृशा ददृशे ।
विग्रहः—प्रतिबोधे जृम्भणम् = प्रतिबोधजृम्भणम्, तेन विभिन्नम् मुखम् यस्याः सा = प्रतिबोधजृम्भणविभिन्नमुखी। पतन् अच्छमौक्तिकमणीनां प्रकरः यस्याः सा = पतदच्छमौक्तिकमणिप्रकरा । गलन्तः अश्रुबिन्दवः यस्याः सा = गलदश्रुबिन्दुः । शुक्तिः वधुः इव सा = शुक्तिवधूः । सरोरुहम् इव दृक् यस्य तेन = सरोरुहदृशा ।
अर्थः—प्रतिबोधजृम्भणविभिन्नमुखी = उद्बोधोच्छूनविवृतास्या । पतदच्छमौक्तिकमणिप्रकरा=प्रसरदच्छमौक्तिकमणितोमा । गलदश्रुबिन्दुः = पतदश्रुबिन्दुः ।
६८
किरातार्जुनीयम्
इव शुक्तिवधूः = शुक्तिकावधूः । पुलिने = सैकते । सरोरुहदृशा = कमलनेत्रेणार्जुनेन : ददृशे = दृष्टा । अत्र सन्देहालङ्कारः ।
कोषः—'पुलिनं सैकतं सिकतामयम्' इत्यमरः ।
**हिन्दी:—**कमल के समान नेत्रों वाले अर्जुन ने पुलिन-प्रदेश में झाँसुओं की झड़ीसी लगाती हुई रमणी के समान शुक्तिका (सीपी) को देखा। यह सीपी इस प्रकार खुली हुई थी जैसे जगकर जम्भाई लेते हुए मुख खोले हुए रमणी होती है । इस सीप से मौक्तिक कांति फैल रही थी ॥ १२ ॥
शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः ।
स्मरदायिनः स्मरयतिस्म भृशं दयिताधरस्य दशनांशुभृतः ॥ १३ ॥
**अन्वयः—**अप्सु शुचिः तनुसान्द्रफेनलवसंवलितः विद्रुमलताविटपः स्मरदायिनः दशनांशुभृतः दयिताधरस्य भृशं स्मरयतिस्म ।
**विग्रहः—**तनुना सान्द्रेण च फेनस्य लवेन संवलितः = तनुसान्द्रफेनलवसंवलितः । विद्रुमलतायाः विटपः = विद्रुमलताविटपः । स्मरं दातुं शीलमस्य सः- स्मरदायी, तस्य = स्मरदायिनः । दशनांशु बिभर्तीति तस्य = दशनांशुभृतः । दयितायाः अधरस्तस्य = दयिताधरस्य ।
**अर्थः—**अप्सु = जलेषु । शुचिः = स्वच्छः । तनुसान्द्रफेनलवसंवलितः = क्षीणसघनफेनशीकरसङ्गतः । विद्रुमलताविटपः = विद्रुमलतापल्लवः । स्मरदायिनः = कामोद्दीपकस्य । दशनांशुभृतः = दन्तकान्तिकलिउस्य । दयिताधरस्य = प्रियाधरस्य । भृशम् = अत्यन्तम् । स्मरयतिस्म = स्मरणं कारयति स्म । अत्र स्मरणालङ्कारः ।
कोषः—'विटपः पल्लवे विड्गे विस्तारे स्तम्बशाखयोः' इति विश्वः ।
**हिन्दी:—**जल में स्वच्छ तथा छोटे व घने फेन-कणों (बिन्दुओं) से युक्त विद्रुमलता का पल्लव, कामोद्दीपक, दशनकान्तिककलित प्रियतमा के अधर का स्मरण करा देता था ॥ १३ ॥
उपलभ्य चञ्चलतरङ्गधूतं मदगन्धमुत्थितवतां पयसः ।
प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान्करिणः ॥ १४ ॥
**अन्वयः—**सः चञ्चलतरङ्गधूतं मदगन्धम् उपलभ्य पयसः उत्थितवतां करियादसां प्रतिदन्तिनाम् इव अभिमुखान् करिणः सम्बुबुधे ।