किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
नवमः सर्गः १५५
नवमः सर्गः १५५
जुगुप्सायाम्' इत्यमरः । मुक्तं त्यक्तप्रायं मूलमाश्रयभूतो रविः । अन्यत्र, स्वामी, येन सोऽत एव लघुरतएवञ्च मुक्तमूललघुरुज्झितपूर्वस्त्यक्तपूर्वदिक्कः । अन्यत्र-त्यक्तपूर्वजनः । पश्चिमे नभसि नभोभागम् । अन्यत्र-क्वचिन्नीचस्थले । संभृतः संहतः सन् । अत एव सान्द्रश्च रश्मिसमूहः आश्रितजनश्च ध्वन्यते । खिन्नश्चासौ जिह्यश्च, खिन्नेन दुःखेन जिह्यो वा, दीन इव न विरेजे । अत्र मुक्तमूलत्वादिप्रस्तुतविशेषणसाम्यादप्रस्तुताश्रितजनप्रतीतेः समासोक्तिः । तत्र वाच्यस्य रश्मिसमूहस्याचेतनस्यापि प्रतीयमानेन चेतनेनाभेदाभिधानाद् दुःखित्वायुत्प्रेक्षेति तयोरङ्गाङ्गिभावेन संकरः ।
हिन्दी—सूर्यविम्बके आधे भागका अस्त होनेपर मूल (आश्रयभूत सूर्य) का अथवा स्वामीका परित्याग किया हुआ लघु और पूर्वदिशाका परित्याग किया हुआ अथवा पहलेके जनका त्याग किया हुआ आकाशके पश्चिम भागमें अथवा किसी नीचे स्थलमें इकट्ठा होता हुआ गाढ किरणसमूह वा आश्रितजन दुःखसे दीन सा होता हुआ शोभित नहीं हुआ ॥ ५ ॥
कान्तदूत्य इव कुङ्कुमताम्राः सांयमण्डलमभित्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ॥ ६ ॥
मल्लि०—कान्तेति ॥ कुङ्कुमवत् कुङ्कुमेन वा ताम्राः । सायस्य सायंकालस्य । 'सायं साये प्रगे प्रातः' इत्यमरः । यन्मण्डलं तत् अभि तदुद्दिश्य त्वरयन्त्यस्त्वरां कारयन्त्यः सौधाना जालैर्गवाक्षैः पतिताः प्रविष्टाः । 'जाल गवाक्ष आनाये' इति वैजयन्ती । रविभासः सूर्यरश्मयः कान्तानां प्रेयसां दूत्य इव वनिताभिः सादरं यथा तथा ददृशिरे दृष्टाः । सायंतनार्कभासां प्रियसमागमसूचकत्वादेव तासु स्त्रीणामादरोऽभवदित्यर्थः ।
हिन्दी—कुङ्कुमके सदृश लाल सायंकालके सूर्यमण्डलको उद्देश्य कर शीघ्रता कराती हुई महलोंकी खिडकियोंमे प्रविष्ट सूर्यकी किरणोंको स्त्रियोंने प्रियकी दूतियोंके समान आदरसे देख लिया ॥ ६ ॥
अग्रसानुषु नितान्तपिशङ्गेर्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैल गहनं नु विवस्वानाविवेश जलधि नु महीं नु ॥ ७ ॥
मल्लि०—अग्रेति ॥ विवस्वान् सूर्योऽग्रेऽस्तशैलशिखरे ये सानवस्तेषु ये भूरुहास्तान्नितान्तपिशङ्गैरत्यन्तारुणैर्मृदुभिः करैरिव करैरंशुभिस्तैरिति श्लिष्टरूपकम् ।
१५६ | किरातार्जुनीयम्
'बलिहस्तांशवः कराः' इत्यमरः। यद्वा—करैर्मृदुलैरयमवलम्ब्य। अस्त इति शैलोऽस्तशैलः। 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः। तस्य गहनं नु जलधिं नु महीं न्वाविवेश। तपनस्य पतनसंदेह एव दृष्टः। पतनं तु क्व चास्य तन्न ज्ञायते। शीघ्रभावादिति भावः। अत्र तपने पतनस्यारोप्यमाणस्य गहनाद्यनेरुविषयत्वेन संदेहात्संदेहालंकारः।
हिन्दी—सूर्य अस्तपर्वतके शिखरोंमें समथर जमोनमें वृक्षोंको बहुत हो पोले कोमल करोंसे हाथोंके समान किरणोंसे शिथिलरूपसे अवलम्बन कर अस्तपर्वतके वनमें वा समुद्रमें अथवा पृथ्वीमें घुस गया॥ ७ ॥
आकुलश्चलत्पत्रिकुलानामारवैरनुदितोषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ ८ ॥
मल्लि०—आकुल इति ॥ चलाता कुलायेभ्यः कुलान्प्रति चलतां पतत्रिकुलानां पक्षिसमूहानामारवैः शब्दैराकुलो व्याप्तः। 'अनुदित' शब्देनाभावमात्रम्, 'उपः' शब्देन संध्यामात्रं च विवक्ष्यते। उषसि भव ओषसः 'संधिवेला-' इत्यादिना योगविभागादण्प्रत्ययः। अन्यथा कालादुञ्स्यात्। तथा च अनुदितौषसरागोऽविद्यमानसंधीयाराग इत्यर्थः। एकत्रोपगमादन्यत्रानुदयाच्चेति भावः। अहरिदश्वोऽविद्यमानसूर्यः। एकत्रानुदयात्, अन्यत्रास्तमयाच्चेति भावः। अत एव विपाण्डुः। तिमिरानुदयादिति शेषः। दिनान्तः सायंकालो दिनमुखेन प्रातःकालेन तुल्यतामाययौ। तद्वद्बभूवेत्यर्थः। अत एवोपमालङ्कारः।
हिन्दी—घोंसलेसे घोंसलोंमें चलते हुए पक्षियोंके शब्दोंसे व्याप्त सुबह सन्ध्याकालकी लालियोंसे रहित और सन्ध्यामें सूर्यकी स्थितिसे रहित अतएव पाण्डुतासे रहित सायंकाल प्रातःकालके समान हो गया॥ ८ ॥
आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥ ९ ॥
मल्लि०—आस्थित इति ॥ स्थगितवारिदपङ्क्त्या पिहितमेघवृत्या संध्ययाऽऽस्थित आक्रान्तो व्याप्तो गगनपश्चिमभागः। सोर्मिः। उर्मिसंक्रान्त इत्यर्थः। तया विद्रुमवितानविभासा प्रवालप्रकरकान्त्या रञ्जितस्य स्वसावर्ण्यमापादितस्य जलधेः श्रियमूहे। संध्यया रक्तवर्णत्वादिति भावः। वहतेः कर्तरि लिट्। तत्सदृशीं श्रियमुवाहेत्यर्थः। अत एव निदर्शनालङ्कारः।
नवमः सर्गः १५७
हिन्दी- मेघसमूहको आच्छादित करनेवाली सन्ध्यासे व्याप्त आकाशके पश्चिम भागने तरंगोंमें संक्रान्त होकर प्रवालसमूहकी कान्तिसे रञ्जित समुद्रकी शोभाको धारण किया ॥ ९ ॥
प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।
संध्ययाऽनुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ १० ॥
मल्लि०- प्राञ्जलाविति ॥ प्रबद्धोऽञ्जलिर्येन तस्मिन् प्राञ्जलौ बद्धाञ्जलौ । 'तौ युतावञ्जलिः पुमान्' इत्यमरः । 'प्रादिभ्यो धातुजस्य बहुव्रीहिर्वाच्यो वोत्तर-पदलोपश्च ।' नतमूर्ध्नि नमस्कुर्व्वाणे तत्प्रवणं तत्र संध्यायामेवाहितं चेतो यस्य तस्मिन्नेवंविधेऽपि जने विषये प्रेम हित्वा विहाय विरमन्त्या निवर्त्तमानया । 'व्याङ्-परिभ्यो रमः' इति परस्मैपदम् । संध्यया चापलेनास्थैर्य्येण । युवादिद्वादण्प्रत्ययः । सुजनादितरो दुर्जनस्तस्य मैत्री सख्यमनुविदधेऽनुचक्रे । कर्मणि लिट् । यथा दुर्जन-मैत्री स्निह्यन्तमपि जहाति तद्वत् संध्यापि सेवमानं जनमहासीदित्यर्थः । मित्रस्य कर्म मैत्री । ष्यञन्तान्ङीप् । अत्र संध्यादुर्जनमैत्र्योश्चापलं समानधर्मोऽनुविधानम् । अत एवार्थरूपेणेयमुपमा ।
हिन्दी- हाथ जोड़नेवाले, नमस्कार करनेवाले और सन्ध्यामें चित्त देने-वाले जनमें भी प्रेम छोड़कर लोटती हुई संध्याने अस्थिरतासे दुर्जनकी मैत्रीका अनुकरण कर लिया ॥ १० ॥
औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
संनिपत्य शनकैरथ निम्नादन्धकारमुदवाप समानि ॥ ११ ॥
मल्लि०- औषतेति ॥ औषमात् प्राभातिकादातपाद्भवं तस्मादिवेत्युत्प्रेक्षा । अपलीनं क्वचिद्गूढं वासरच्छवेरातपस्य विरामाद्धेतोः पटीयः प्रभविष्णुतरम् । अन्धं करोतीत्यन्धकारं ध्वान्तम् । 'अन्धकारोऽस्त्रियां ध्वान्तम्' इत्यमरः । अथ संध्यापगमनानन्तरं शनकैर्मन्दमन्दं निम्नात् सन्निपत्यागत्य समानि समस्थलानि । उदवाप व्यानशे । अत्र प्रस्तुतान्धकारविशेषणसाम्यादप्रस्तुतार्यप्रतीतेः समासोक्तिर-लङ्कारः । उत्प्रेक्षा त्वङ्गतः स्यात् ।
हिन्दी- प्रातःकालकी धूपकी डरसे कहीं छिपे और धूपके दूर होनेसे जबर्दस्त होकर अन्धकारने सन्ध्या बीतनेके बाद धीरे-धीरे नीचेकी ओरसे आकर समस्थलों-को व्याप्त कर डाला ॥ ११ ॥
१५८ | किरातार्जुनीयम्
एकतामिव गतस्य विवेकः कस्यचित्न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानामात्मनोव पतितेन विशेषाः ॥ १२ ॥
मल्लि०—एकतामिति ॥ एकतामभेदं गतस्येव । तमोव्याप्त्या तथा प्रतीतेरियमुत्प्रेक्षा । महतः शैलादेरपि कस्यचित् कस्यापि पदार्थस्य विवेको भेदो नोपलेभे न गृहीतः । अत एवोत्प्रेक्षते—पतितेनास्तमितेन भास्वता सूर्येण । 'भास्वद्विवस्वत्सप्ताश्व—' इत्यमरः । भुवनानाम् । भुवनस्थपदार्थानामित्यर्थः । विशेषा भूधरादिभेदा आत्मनि स्वस्मिन्नेव निदधिर इव निहिता इव । कथमम्यथा नोपलभ्येरन्नित्यर्थः । अत्रोत्प्रेक्षयोः सजातीययोः सापेक्षित्वादङ्गाङ्गिभावेन सङ्करः ।
हिन्दी—अन्धकार व्याप्त होनेके कारण मानों अभेदको प्राप्त कर विशाल पदार्थका भी भेद नहीं लिया गया । अस्त होनेवाले भगवान् सूर्यने भुवनस्थ पर्वत आदिके भेदोंको भी मानों अपनेमें रख दिया ॥ १२ ॥
इच्छतां सह वधूर्भिरभेदं यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥ १३ ॥
मल्लि०—इच्छतामिति ॥ वधूभिः स्वकामिनीभिः सह । अभेदमवियोगमिच्छताम् । तथा संकल्पवतामपीत्यर्थः । यामिनीषु विरहिणाम् । नियतवियोगानामित्यर्थः । रह्नेतेरावश्यकेऽर्थे णिनिः । यद्वा—निन्दायामिनिः । तेषां विहगानां चक्रवाकाणां मिथुनानि वियोगमापुरेव । न तु नापुरित्ययोगव्यवच्छेदः । तथा हि—कालनियोगो दैवाज्ञा न लङ्घ्यते खलु । दुर्वार इत्यर्थः ।
हिन्दी—अपनी भार्यासे वियोगकी इच्छा न करनेवाले रातमें सदा बिछुड़नेवाले चकवोंके जोड़ेने बिछोहको पा ही लिया । दैवकी आज्ञाका कोई लङ्घन कर सकता है ? ॥ १३ ॥
यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नैतिमुज्झितहर्षं पङ्कजं मुखमिवाम्बुरुहिण्या ॥ १४ ॥
मल्लि०—यच्छतीति ॥ शकुन्तौ चक्रवाकपक्षिणि । सामान्यस्य प्राकरणिकविशेषपर्यवसानात् । 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । अन्तिकगते समीपस्थेऽपि दयितायै चक्रवाक्यै प्रतिमुखमभिमुखं यथा तथा वाचं यच्छति वाचमेव ददाने । न तु संगच्छमाने सतीत्यर्थः । 'पाघ्राध्मा-' इत्यादिना दाणो यच्छादेशः ।