किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
दशमः सर्गः २११
दशमः सर्गः २११
दयो मानोऽभिमानो लज्जा च यया तया । कयाचित् । असौ मुनिः । उरसि स्वयं
स्वहस्तेनैव श्रवणोत्पलेन जघ्ने हतः ॥ ५६ ॥
हिन्दी--इस प्रकार ईर्ष्यासे ओष्ठको स्फुरितकर ऐसा कहकर कुटिल बनाई
गई दृष्टिसे आचार्य आदि, अभिमान और लज्जाको परवाह न कर किसो अप्सराने
मुनि ( अर्जुन ) को कानमें रखे गये कमलसे ताडन किया ॥ ५६ ॥
सविनयमपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मोः ।
श्रवणनियमितेन तं निदध्यौ सकलमिवासकलेन लोचनेन ॥ ५७ ॥
मल्लि०—सविनयमिति । अपरा सविनयमनौद्धत्येन । साचि तिर्यक् । अभि-
सृत्य समीपं गत्वा स्मितेन मन्दहासेन सुभगा एकस्य लसतः कपोलस्य लक्ष्म्यो
यस्याः सेति बहुवचनपदोत्तरो बहुव्रीहिः । अन्यथा कप्रत्ययः स्यादित्युकं प्राक् ।
श्रवणनियमितेन कर्णान्तप्रापितेन श्रोत्ररुद्धप्रसरेण । तावदायतेनेत्यर्थः । असकलेनाऽ-
संपूर्णेन, कटाक्षेणेति यावत् । लोचनेन तं मुनिं धनंजयं सकलमिव समग्रप्रायं यथा
तथा निदध्यौ पश्यति स्म । कटाक्षेणैव गाढमद्राक्षीदित्यर्थः । एषु श्लोकेषु भावा-
भासनिबन्धादूर्जस्वदलंकारः । औत्सुक्यमत्र भावः । आभासत्वं चास्य विरक्त-
मुनाव नौचित्यादित्युक्तं प्रागेवेति ॥ ५७ ॥
हिन्दी—अन्य अप्सराने नम्रताके साथ तिरछे भागसे पास जाकर मन्दहास्यसे
सुन्दर शोभित कपोलकान्तिसे युक्त होकर कानतक पहुंचाये गये असंपूर्ण नेत्र-
( कटाक्ष ) से मुनि ( अर्जुन ) को पूर्णरूपसे देख लिया ॥ ५७ ॥
अथ तासां मुनिविलोमनमुपसंहरति—
करुणमभिहितं, त्रपा निरस्ता, तदभिमुखं च विमुक्तमश्रु ताभिः ।
प्रकुपितमभिसारगेष्वनुनेतुं प्रियमियतो ह्यबलाजनस्य भूमिः ॥ ५८ ॥
मल्लि०—करुणमिति । ताभिः स्त्रीभिः । तदभिमुखं मुनिप्रत्यक्षं करुण दीन-
मभिहितमुक्तम् । त्रपा निरस्ता लज्जा त्यक्ता । किंबहुना, अश्रु च विमुक्तम् । ततः
परं न किंचिदभिधेयमासीदिति भावः । कुतः । हि यस्मात्, अबलाजनस्याभिसारणे
समागमविषये प्रकुपितमननुकूलं प्रियमनुनेतुमनुकूलयितुम् । इयतो भूमिरित्येतावतो
सीमा । साधनानां परमावधिरिति भावः । अर्थान्तरन्यासोऽलङ्कारः ॥ ५८ ॥
हिन्दी--उन अप्सराओंने अर्जुनके सम्मुख दोनतापूर्वक कहा—लज्जा छोड़
| २१२ | किरातार्जुनीयम् |
|---|
दी, कि बहुना आंसू भी छोड़ दिया, क्योंकि स्त्रीके अभिसारके विषयमें कुपित प्रियको अनुनय करनेके लिए इतनी ही सीमा (हद) है ॥ ५८ ॥
अथासामनुरागदाढर्थं निगमयति—
असकलनेत्रेक्षितानि, लज्जा, गतमलसं, परिपाण्डुता, विषादः ।
इति विविधमियाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ॥ ५९ ॥
मल्लि०— असकलेति। असकलनेत्रेक्षितानि नयनार्धविलोकित्तानि लज्जालसं गतं मन्दगमनं परिपाण्डुता पाण्डुरवर्णत्वं विषाद इष्टानवाप्तिनिमित्तश्चेतोभङ्गः। इति एवं प्रकारं विविधं नानाविधेष्टितम् । 'नपुंसकमनपुंसकेने'त्यादिना नपुंसकैकशेषत्वम् । तासु भूषामियायेति भावप्राधान्येन योज्यम् । तथा हि—अनङ्गो मदनो वधूर्म्मण्डयितुं प्रभवति । सर्वास्ववस्थास्विति शेषः । अतस्तासामनङ्गभूषितानामखिलं भूषणमेवेति भावः ॥ ५९ ॥
हिन्दी— नेत्रके आधे भागसे देखना, लज्जासे मन्द गति, पीला वर्ण, विषाद (खिन्नता) इस प्रकारसे अनेक प्रकारकी चेष्टाने अप्सराओमें आभूषणके भावको प्राप्त किया ॥ ५९ ॥
इदानीं तासां त्रिभिर्मुर्निविलोभने प्रयासवैकल्यमाह—
अलसपदमनोरमं प्रवृत्त्या जितकलहंसवधूगति प्रयातम् ।
स्थितमुरुजघनस्थलातिभारादुदितपरिश्रमजिह्वितेक्षणं वा ॥ ६० ॥
भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनां युगपदुन्नमितभ्रु वीक्षितं च ॥ ६१ ॥
मल्लि०— अलसेति। वधूनां संबन्धि प्रकृत्यालसैः पदैर्मनोरमं मनोज्ञमत एव जिता कलहंसवधूनां गतिर्येन तत् । प्रयातं गमनम् । भावे क्तः । तथा उरुणोऽतिविपुलस्य जघनस्थलस्यातिभारादतिगौरवात् । उदितपरिश्रमेणोद्गतश्रमेण जिह्विते घूर्णिते ईक्षणे यस्मिन्, स्थितं वा स्थितिश्च । सर्वत्र 'वा' शब्द समुच्चये ॥ ६० ॥
मल्लि०— भृशेति। तथा भृशेन गाढेन कुसुमशरस्य कामस्य इषोर्निपातेन यो मोहो मूर्च्छा तस्माद्धेतोः, अनवसितार्थैरस्फुतोच्चारणानवधारिताभिधेयैः पदैः सुप्तिङन्तादिभिः क्षुभितशब्दैराकुलः संकीर्णोऽभिलापो वाक्यप्रयोगश्च । अधिकं वितते विस्तृते लोचने यस्मिंस्तद्युगपत् । पर्ययेण । उन्नमिते भ्रुवौ । यस्मिंस्तत्तथोक्तम् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वः । वीक्षितं वीक्षणं च ॥ ६१ ॥
दशमः सर्गः २१३
हिन्दी — अप्सराओंके स्वभावसे आलस्यपूर्ण चरणन्यासोसे मनोहर अतएव हंसवधुओंकी गतिके जीतनेवाला गमन तथा अति स्थूल जघनस्थलके अधिक भारसे उत्पन्न परिश्रमसे कुटिल दृष्टिवालो स्थिति तथा कामबाणके गाढ प्रहारसे उत्पन्न मूर्च्छाके कारण अस्पष्ट उच्चारणसे अनिश्चितपदोंसे आकुल वाक्यप्रयोग, अधिक विस्तृत नेत्रोंवाले बारीबारीसे ऊँची की गई भौंहोंवाला दर्शन ॥ ६०–६१ ॥
रुचिकरमपि नार्थवद् बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ॥ ६२ ॥
मल्लि०—रुचिकरमिति । पूर्वोक्तं रुचिकरं स्पृह्ाजनकमपि । 'रुचिः कान्त्य-भिक्षोर्भक्ति स्त्रियां शोभास्पृहार्ययोः' इति वैजयन्ती । स्तिमितेन स्थिरेण समाधिना तपोयोगेन शुचौ शुद्धे । निर्विकारचेतसीत्यर्थः । पृथातनूजेऽर्जुनविषये । अर्थवत् सप्रयोजनं न बभूव । तथा हि—महतां धीराणां मनांस्यमर्षे क्रोधे ज्वलयति सति सुखाभिलाषोऽवसरमवकाशं न लभते । रौद्रस्य शृङ्गारविरोधित्वादिति भावः । अत्र विशेषेणार्थान्तरन्यासोऽलङ्कारः ॥ ६२ ॥
हिन्दी—पूर्वोक्त विषय रुचि करनेवाला होकर भी निश्चल समाधिसे शुद्ध (निर्विकार) अर्जुनके विषयमें सफल नहीं हुआ, क्योंकि धीर पुरुषके मनके क्रोधसे प्रज्वलित होनेपर सुखका अभिलाष अवकाश (स्थान) को नहीं पाता है ॥ ६२ ॥
स्वयं संराध्येवं शतमखमखण्डेन तपसा
परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहतिध्वस्तरचयः
सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ ६३ ॥
इति भारविकृतौ महाकाव्ये किरातार्जुनीये दशमः सर्गः ।
●
मल्लि०—स्वयमिति । एवं हरिसुतेऽर्जुने स्वयमखण्डेनाविलुप्तेन तपसा शतमखमिन्द्रं संराध्य प्रीणयित्वा परोच्छित्त्या शत्रुवधेन लभ्यां साध्यां लक्ष्मीं राज्यलक्ष्मीम् । अभिलषति सति सोद्वेगैः कार्यसिद्धयभावाज्जनितैरुद्वेगैर्मनोभिर्वालक्ष्यैः । किञ्च, प्रणयविहृत्या प्रार्थनाभङ्गेन ध्वस्तरुचयो नष्टकान्तयः सगन्धर्वा गन्धर्वसहिता-
२१४ | किरातार्जुनीयम्
त्रिदशवनिताः स्वं धाम स्वस्थानं प्रतिययुः । शिखरिणीवृत्तमेतत्—'रसै रुद्रै-श्छिन्ना यमनसभलागः शिखरिणी'ति लक्षणात् ॥ ६३ ॥
इति किरातार्जुनीयकाव्यव्याख्यायां घण्टापथसमाख्यायां दशमः सर्गः समाप्तः ।
●
हिन्दी—इस प्रकार कठोर तपस्यासे इन्द्रकी आराधना करके शत्रुओंके वधसे प्राप्त होनेको योग्य राजलक्ष्मीका अभिलाष करनेपर उद्वेगयुक्त अर्जुनके मनसे उपलक्षित और प्रार्थनाके भङ्गसे नष्ट कान्तिवाली अप्सराएँ गन्धर्वोंके साथ अपने स्थान (स्वर्ग) को चली गईं ॥ ६३ ॥
इति किरातार्जुनीये महाकाव्ये दशमः सर्गः ।
●
एकादशः सर्गः
अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ १ ॥
मल्लि०—अथेति । अथ अप्सरसां प्रतिप्रयाणानन्तरम् । पाको नाम कश्चिद्राक्षसस्तस्य शासन इन्द्रः । नन्द्यादित्वाल्ल्युप्रत्ययः । तयाऽप्सरोम्लाधुकतया अमर्षाद् द्विषद्द्वेषात्निसर्गाच्च या जितेन्द्रियता तयाऽऽगन्तुकानागन्तुकोभयविधहेतुकया प्रतीतो हृष्टः सन् । 'ख्याते हृष्टे प्रतीतः' इत्यमरः । जिष्णोरर्जुनस्य । 'जिष्णुः शक्रे धनंजये' इत्यमरः । आश्रममाजगाम । अत्रामर्षनिसर्गयोजितेंद्रियताहेतुकं काव्यलिङ्गं स्फुटमवगम्यते ॥ १ ॥
हिन्दी—तब गन्धर्व और अप्सराओंके लौटकर आनेके बाद इन्द्रदेव शत्रुओंके प्रति विद्वेषसे और स्वभावसे भी अर्जुन जितेन्द्रिय होनेसे प्रसन्न होकर अर्जुनके आश्रममें आये ॥ १ ॥
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तं किराध्वना ॥ २ ॥