किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
त्रयोदशः सर्गः | २९९
| त्रयोदशः सर्गः | २९९ |
|---|
विनां ग्रहणं कारयति। यद्वा,–निरत्ययमपराधेष्वविकारि निर्वाधं प्रेम कर्तुं स्वयं-
ग्रहं कारयति। प्रबलः प्रियो वा परस्य धनं स्वयं गृह्णातीत्यर्थः। अन्यथा दोष-
माह-इदं पूर्वोक्तं कारणद्वयं निरस्यतस्त्यजतः। पुंस इति शेषः। अधिकबले प्रबले
विषये प्रार्थना तद्धनजिघृक्षा विपत्फलानर्थफलका। अशक्तस्याप्रियस्य सतः प्रबल-
धनग्रहणाशा फणिशिरोमणिग्रहणसाहसवदनर्थाय कल्पत इत्यर्थः॥ ६१॥
हिन्दी — धनियोंमें सामर्थ्य स्वामीकी आज्ञाके बिना ही धनका ग्रहण कराता
है अथवा अपराधमें विकार-रहित बाधारहित प्रेम धनका ग्रहण कराता है, इन
दो कारणोंको त्याग करनेवाले पुरुषके धन ग्रहणकी इच्छा विपत्तिरूप फलवाली
होती है॥ ६१॥
ननु शास्त्रार्थसंपत्त्या शक्तत्वाभिमानः, तत्राह--
अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः।
जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुधम्॥ ६२॥
मल्लि०—अस्त्रवेदमिति। इह जगति तापसेषु तपस्विनां मध्ये। 'यतश्च
निर्धारणम्' इति सप्तमी। जमदग्नेरपत्यं पुमान् जामदग्न्यः। गर्गादिभ्यो यञ्।
तम्, अपहाय। परशुरामं विनेत्यर्थः। अस्त्रवेदं तत्त्वतोऽधिगम्य। भुजवीर्येण
शालन्त इति भुजवीर्यशालिनः। उभयसंपन्नस्येत्यर्थः। शालनक्रियापेक्षया समान-
कर्तृकत्वात् क्त्वानिर्देशः। कस्य चायुधं चरितः प्राप्तोऽर्थो येन तत् चरितार्थं सार्थकं
गीयते। न कस्यापीत्यर्थः। अतस्त्वमपि तापसत्वादकिंचित्करस्य तेन सह सख्य-
मेव मुख्यमिति भावः॥ ६२॥
हिन्दी—(हे महोदय!) इस लोकमें तपस्वियोंके मध्यमें परशुरामको छोड़-
कर धनुर्विद्याको तत्त्वके साथ पाकर बाहुपराक्रमसे शोभित किस पुरुषका आयुध
चरितार्थ होकर गाया जाता है?॥ ६२॥
ननु युष्मन्मृगवधशरहरणाभ्यां द्रोहिणो मम तेन कथं सख्यं स्यादित्याशङ्क्य
सत्यं तथापि तावन्मृगवधापराधः क्षमिष्यत इत्याह--
अभ्यधायि मुनिचापलात्त्वया यन्मृगः क्षितिगतेः परिग्रहः।
अक्षमिष्ट सदयं प्रमाद्यतां संवृणोति खलु दोषमज्ञता॥ ६३॥
मल्लि०—अभ्यधायीति। त्वया मुनिचापलात्। ब्राह्मणचापल्यादित्यर्थः।
क्षितिपतेरस्मत्स्वामिनः। परिगृह्यत इति परिग्रहः। तेन स्वीकृत इत्यर्थः। 'परि-
| २९६ | किरातार्जुनीयम् |
|---|
ग्रहः परिजने पत्न्यां स्वीकारमूलयोः ।' इति विश्वः । यन्मृगोऽभ्यघानि अभिहत इति । हन्तेः कर्मणि लुङ् । तद् हननम् । अयमस्मत्स्वामी । अक्षमिष्ट सोढवानेव । तथा हि—प्रमाद्यताम्, अविमृश्यकारिणामित्यर्थः । दोषमपराधम् । अज्ञताऽज्ञानिता संवृणोति आच्छादयति । नाऽस्यापराधो गण्यत इत्यर्थः ॥ ६३ ॥
हिन्दी—( हे महोदय ! ) आपने ब्राह्मणजातिकी चञ्चलतासे हमारे स्वामीसे स्वीकृत जिस जानवर ( वराह ) को मार डाला है, उस हत्याको हमारे स्वामीने सहन कर लिया है, क्योंकि प्रमाद करनेवालोंके अपराधको अज्ञता छिपा देती है ॥ ६३ ॥
अथ सुहृद्भावेन हितमुपदिशति—
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूमपक्रियाम् ।
आपदेत्युभयलोकदूषणी वर्तमानमपथे हि दुर्मतिम् ॥ ६४ ॥
**मल्लि०—**जन्मेति । जन्म सत्कुलप्रसूतिः, वेषो जटावल्कलादिः, तपो नियमः, तेषां विरोधिनीं विरुद्धाम् । अमूमेवंविधाम् । अपक्रियामपकारम् । पुनः । इतः परमित्यर्थः । मा कृथाः मा कुरु । करोतेः कर्तरि माङि लुङ् । 'वयोवृद्धधर्मवाग्वेषश्रुताभिनयकर्मणाम् । आचरेत्सदृशीं वृत्तिमजिह्यामशठां तथा ॥' इति स्मरणात् । उक्तवैपरीत्ये दोषमाह—आपदिति । हि यस्मात् अपथे वर्तमानं दुर्मतिम् । पुरुषमिति शेषः । उभौ लोकौ दूषयति हन्तीति उभयलोकदूषणी । 'तद्धितार्थ-'त्यादिनोत्तरपदसमासः । आपत् । एति प्राप्नोति । समासविषय 'उभ' शब्दस्थाने 'उभय' शब्दप्रयोग एव साधुः । यदाह कैयटः—'उभादुदात्तो नित्य'मिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषय 'उभ' शब्दस्य प्रयोगो मा भूत, 'उभय' शब्दस्यैव रूपं यथा स्यादित्युभयत्रेत्यादि भवति' इति ॥ ६४ ॥
**हिन्दी—**उत्तमवंशमें उत्पत्ति, जटावल्कल आदि वेष और तपस्या इनके विरुद्ध इस प्रकारके अपकारको अबसे मत कीजिए, क्योंकि अमार्गमें वर्तमान दुर्बुद्धिवाले पुरुषको यह लोक और परलोक दोनों लोकोंको दूषित करनेवाली आपत्ति प्राप्त होती है ॥ ६४ ॥
यदुक्तम् 'अभ्यघानि' ( श्लो० ६३ ) इति, तदेव स्फुटयति—
यष्टुमिच्छसि पितॄन् सांप्रतं संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुमेव पदवीमपि क्षमः किं मृगेऽङ्ग ! विशिखं न्यदीविशः ? ॥ ६५ ॥