सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

त्रयोदशः सर्गः | २८५

त्रयोदशः सर्गः२८५

वमैन्द्रम् । 'तस्येदम्' इत्यणप्रत्ययः । 'शतमन्युर्दिवस्पतिः' इत्यमरः । अधिपतेः कर्म आधिपत्यं त्रैलोक्यरक्षाधिकारम् । ब्राह्मणादित्वात्ष्यञ्प्रत्ययः । कारयन्निव, इन्द्रेणेति शेषः । राजसे तस्याप्युपजीव्य इति प्रतीयसे । स्वमहिम्नेत्यर्थः ॥ ३८ ॥

हिन्दी-( हे महोदय ! ) आप मुनि होकर भी प्रभावके उत्कर्षसे प्रकाशित होकर गौरवसे राजाओंको भी लघु ( हल्का ) करते हुए इन्द्रको आधिपत्यको कराते हुए-से प्रतीत हो रहे हैं ॥ ३८ ॥

तापसोऽपि विभुतामुपेयिवानास्पदं त्वमसि सर्वसंपदाम् ।
दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ॥ ३९ ॥

**मल्लि०-**तमसा इति । विभुतां प्रभावम् । उपेयिवानुपगतः । अत एव तापसोऽपि त्वं सर्वसंपदामास्पदं स्थानमसि । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । विभुतामेव समर्थयते—हि यस्मात्, भवतस्तव जनैर्विनापि । एकाकिनोऽपीत्यर्थः । सचिवैरन्वितस्येव अमात्यादियुक्तस्येव द्युतिस्तेजो दृश्यते । अतः सर्वसंपदास्पदत्वं युक्तमित्यर्थः ॥ ३९ ॥

हिन्दी-( हे महोदय ! ) प्रभावको प्राप्त कर तपस्वी होते हुए भी आप समस्त सम्पत्तियोंके स्थान हो रहे हैं, क्योंकि आपका सहायक जनोंके न होने पर भी मन्त्रियोंसे युक्त ( राजा ) के समान तेज देखा जा रहा है ॥ ३९ ॥

विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥ ४० ॥

**मल्लि०-**विस्मय इति । किच, जयश्रिया हेतुना । प्राप्तयारीति शेषः । क इव वा विस्मयः किमाश्चर्यम् । न कश्चिदित्यर्थः । 'विस्मयोऽद्भुतमाश्चर्यं चित्रम्' इत्यमरः । अतो मुक्तिरपि ते तव दवीयसो दूरतरा दुर्लभा न भवत्येव । 'स्थूलदूरे' त्यादितो यणादिपरलोपः पूर्वगुणश्च । तथा हि—निर्जितो रजस्तमसी एव गुणौ येन स भवत्सदृशः पुरुषः कस्येप्सितस्य वाञ्छितस्य । उपाश्रय आस्पदं न भवेदित्यर्थः ॥ ४० ॥

**हिन्दी--**आपको विजयलक्ष्मी प्राप्त होनेपर भी क्या आश्चर्य है ? आपको मुक्ति भी दुर्लभ नहीं है, रजोगुण और तमोगुण जीतनेवाले आप किस अभीष्ट फलके आश्रय न होंगे ? ॥ ४० ॥

अथागमनप्रयोजनमुपालम्भमुखेनाह—

२८६किरातार्जुनीयम्

ह्रेपयन्नहिमतेजसं त्विषा स त्वमित्थमुपपन्नपौरुषः ।
हर्तुमर्हसि वराहभेदिनं नैनमस्मदधिपस्य सायकम् ॥ ४१ ॥

**मल्लि०—**ह्रेपयन्निति । त्विषा तेजसा । अधिमतेजसमुष्णतेजसं ह्रेपयन् लज्जयन् उपपन्नपौरुषः संभावितपराक्रमः स प्रसिद्धस्त्वं वराहभेदिनं । कृतोपकारमित्यर्थः । एनं स्वत्करगतम् । अस्मदधिपस्य सायकं शरम् । इत्थं साहसेन हर्तुं नार्हसि ॥ ४१ ॥

हिन्दी—(हे महोदय !) अपने तेजसे सूर्यको लज्जित करते हुए पराक्रम-वाले प्रख्यात आप वराहको विद्ध करनेवाले हमारे स्वामीके इस बाणको साहस-पूर्वक हरण करनेके लिए योग्य नहीं हैं ॥ ४१ ॥

अनर्हत्वमेवाह—
स्मर्यते तनुभृतां सनातनं न्याय्यमाचरितमुत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ? ॥ ४२ ॥

**मल्लि०—**स्मर्यत इति । उत्तमैर्नृभिः सत्पुरुषैर्मन्वादिभिः । तनुभृतां शरीरिणां सनातनं नित्यं न्याय्यं न्यायादनपेतम्, आचरितमाचारः स्मर्यते । कर्तव्यतयेति शेषः । न त्वनाचार इत्यर्थः । अथाप्यनाचारेण दोषमाह—ध्वंसत इति । भवानिव दृश्यन्त इति भवादृशस्ततः सदाचारात् ध्वंसते भ्रश्यते यदि तया तेन वर्त्मना न्याय्यमार्गेण कः प्रयातु गच्छतु वद कथय । न कोऽपीत्यर्थः । तथा च सन्मार्ग एव शीलं कुर्या-दिति भावः ॥ ४२ ॥

हिन्दी—(हे महोदय !) सत्पुरुषोंने शरीर धारण करनेवाले मनुष्योंके लिए सनातन (नित्य) और न्यायपूर्ण आचरणका स्मरण किया है, आप-सरीखे पुरुष उस आचरणसे भ्रष्ट होंगे तो उस न्यायमार्गसे कौन चलेगा? कहिए ॥ ४२ ॥

आकुमारमुपदेष्टुमिच्छवः सन्निवृत्तिमपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥ ४३ ॥

**मल्लि०—**आकुमारमिति । किंच, योगशक्त्याऽऽत्मज्ञानमहिम्ना जितौ जन्म-मृत्यू यैस्ते यतयो योगिनः । आकुमारेभ्य आकुमारम् । कुमारादारभ्येत्यर्थः । 'आङ् मर्यादाभिविध्योः' इत्यव्ययीभावः । महत्य आपदो यस्मिंस्तस्माद् महापद्ः । महा-नर्थहेतोरित्यर्थः । अपथात् अमार्गात् । 'पथो विभाषा' इति निषेधविकल्पात्समासा-न्तः । 'अपथं नपुंसकम्' । संनिवृत्तिमपगमम्, उपदेष्टुमिच्छवः । सन्तः सुशीलतां