किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
चतुर्दशः सर्गः ३०१
चतुर्दशः सर्गः ३०१
सलेशमुल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे।
अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः॥ २ ॥
मल्लि०—सलेशमिति । सह लेशैः सलेशं सकलं यथा, उल्लिङ्गितमुद्भूत-लिङ्गं कृतम् । लिङ्गैस्तद्वाक्यभङ्गिभिरेव सम्यगवगतमित्यर्थः । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययः । तस्य इङ्गितमभिप्रायस्तदुल्लिङ्गितं येन सः । गिरां वाचां सम्बन्धिनि विस्तरे तत्त्वसंग्रहेऽर्थसंक्षेपे । वैभाषिको द्वन्द्वैकवद्भावः । कृती कुशलः प्रमाणीकृतं प्रधानीकृतं काल एव साधनं येन सः । अवसरोचितं विवक्षुरित्यर्थः । अयं पाण्डवः प्रशान्तसंरम्भः क्षोभरहित इव वच आददे । उवाचेत्यर्थः ॥ २ ॥
हिन्दी—समस्तरूपसे वाक्यभङ्गिसे शत्रुके अभिप्रायको जानकर वचनसमूहके अर्थसंक्षेपमें कुशल होकर समय रूप साधनको प्रधान मानते हुए अर्जुन क्षोभरहितसे होकर बोलने लगे ॥ २ ॥
सान्त्वपूर्वकमेवाह—
विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥ ३ ॥
मल्लि०—विविक्तेति । विविक्ताः संयोगादिना अश्लिष्टाः स्फुटोच्चारिता वर्णा अक्षराण्येव आभरणानि यस्याः सा । अन्यत्र तु,—विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्याः सा । 'वर्णो द्विजादौ शुक्लादौ' 'स्तुतौ वर्णे तु चाक्षरे' इत्युभयत्राप्यमरः । सुखा श्रुतिः श्रवणं यस्याः सा सुखश्रुतिः । श्राव्येत्यर्थः । अन्यत्र,—श्रूयत इति श्रुतिर्वाक् । सा सुखा यस्याः सा । मञ्जुभाषिणीत्यर्थः । द्विषामपि हृदयानि प्रसादयन्ती । किं पुनः सुहृदामिति भावः । प्रसन्नानि वाचकानि गम्भीराणि अर्थगुरूणि च पदानि सुप्तिङन्तरूपाणि यस्याः सा । अन्यत्र तु,—प्रसन्ना विमला गम्भीरपदाऽलसचराणा सरस्वती वाक्, स्त्रीरत्नं च । तथा चोक्तम्—'सरस्वती सरिद्भेदे गोवाग्देवतयोरपि । स्त्रीरत्ने च' इति । न कृतं पुण्यकर्म यैस्तेषां न प्रवर्तते न प्रसरति । किं तु सुकृतिनामेवेत्यर्थः । भवद्वाणी चैवंविधेति धन्यो भवानिति भावः । अत्र काचिन्नायिका वाग्देवता च प्रतीयते । तत्रादौ समासोक्तिरलंकारः । विशेषणमात्रसाम्येनाप्रस्तुतप्रतीतेः । अत एव न श्लेषः ॥ ३ ॥
हिन्दी—संयोग आदिसे अश्लिष्ट स्पष्ट उच्चारण किये गये अक्षररूप भूषण-वाली, दूसरे पक्षमें—शुद्ध रूप और आभरणवाली, सुननेके योग्य, दूसरे पक्षमें—
३०२ किरातार्जुनीयम्
मधुरभाषिणी, शत्रुओंके हृदयको भी प्रसन्न करनेवाली दूसरे पक्षमें—प्रसाद्युक्त और गम्भीर (अर्थगौरवयुक्त) पदोंवाली वाणी, दूसरे पक्षमें—स्त्रीरत्न पुष्यद्वयं का अनुष्ठान न करनेवालोंकी प्रकट नहीं होती है ॥ ३ ॥
भवन्ति ते सभ्यतमा विपश्चितां, मनोगतं वाचि निवेशयन्ति ये।
नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ॥ ४ ॥
मल्लि०—भवन्तीति। ते पुरुषा विपश्चितां विदुषाम्। 'विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः। मध्ये सभ्यतमाः सभायां साधुतमा निपुणतमाः। 'साधुः समर्थो निपुणश्च' इति कारिकायाम्। भवन्ति। ये मनोगतं मनसा गृहीतं अर्थं वाचि निवेशयन्ति। वाचोद्गिरन्तीत्यर्थः। तेषु वक्तृष्वप्युपपन्ननैपुणाः सम्भावितकौशलाः कतिचिदेव गभीरं निगूढमर्थं प्रकाशतां स्फुटतां नयन्ति। लोके तावज्ज्ञातार एव दुर्लभाः, तत्रापि वक्तारः, तत्रापि निगूढार्थप्रकाशकाः। त्वयि सर्वमस्तीति स्तुतिः। वनेचरवाक्यरहस्यं ज्ञातमिति स्वयमपि तादृश एवेति हृदयम् ॥ ४ ॥
हिन्दी—जो मनसे ग्रहण किये गये अर्थको वचनसे प्रतिपादन करते हैं वे विद्वानोंमें अत्यन्त निपुण होते हैं। ऐसे वक्ताओंमें भी नैपुण्ययुक्त कुछ ही विद्वान् गम्भीर अर्थको स्फुटरूपसे प्रकाशित कर देते हैं ॥ ४ ॥
स्तुवन्ति गुर्वीमभिधेयसम्पदं, विशुद्धिमूक्तेरपरे विपश्चितः।
इति स्थितायां प्रतिपूरुषं रुचौ, सुदुर्लभाः सर्वमनोरमा गिरः ॥ ५ ॥
मल्लि०—स्तुवन्तीति। किं च, केचिद्गुर्वीं महतीमभिधेयसंपदमर्थसंपत्तिं स्तुवन्ति। अपरे विपश्चित उक्तेः शब्दस्य विशुद्धिं सामर्थ्यं स्तुवन्ति। इति प्रतिपूरुषं रुचौ प्रीतौ स्थितायां अवस्थितायां सर्वमनोरमाः सर्वेषां शब्दार्थरुचीनां पुंसां मनोरमा गिरः सुदुर्लभाः। त्वद्गिरस्तु सर्वमनोरमा उक्तसर्वगुणसम्पत्तेरिति भावः।
हिन्दी—कुछ विद्वान् गौरवपूर्ण अर्थ-सम्पत्तिकी स्तुति (तारीफ) करते हैं तो अन्य विद्वान् शब्द सामर्थ्यकी प्रशंसा करते हैं इस तरह प्रत्येक पुरुषमें रुचिकी भिन्नता होनेपर सबके मनमें मधुर प्रिय वाणी अतिशय दुर्लभ है ॥ ५ ॥
समस्य संपादयता गुणैरिमां त्वया समारोपितभार, भारतीम्।
प्रगल्भमात्मा धुरि धुर्यं वाग्मिनां वनेचरेणापि सताधिरोपितः ॥ ६ ॥
मल्लि०—समस्येति। धुरं वहतीति धुर्यस्तत्संबोधने हे धुर्य! हे कार्यनिर्वाहक! 'धुरो यड्ढकौ' इति यत्प्रत्ययः। अत एव समारोपितभार हे स्वामिना