किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
एकादशः सर्गः २२५
एकादशः सर्गः २२५
नाह – अप्रियैरनिष्टवस्तुभिः संयोग इव प्रियैरिष्टवस्तुभिः सह विप्रयोगो विरहोऽन्यदेहेषु स्वस्यैव देहान्तरेषु अतीतानागतेष्विति शेषः । मनो विधुरं दुःखितं कृतवान् कर्ता करिष्यति च । भविष्ये लुट् । तद्वर्तमाने चानुभूयत इति शेषः । इष्टनाशो दुःखहेतुरिति सर्वत्रापि त्रैकालिकसिद्धमिति श्लोकार्थः ॥ २६ ॥
**हिन्दी—**अप्रियों (अनिष्ट वस्तुओं) से संयोगके समान प्रियों (इष्ट वस्तुओं) से वियोगने अपने अन्य शरीरोंमें मनको दुःखित किया है और करेगा भी ॥ २६ ॥
संप्रतीष्टसमागमस्य सुखहेतुत्वमाह—
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ २७ ॥
**मल्लि०—**शून्यमिति । प्रियसमागम इष्टजनसंयोगे सति शून्यं रिक्तमपि आकीर्णतां संपूर्णताम्, एति । समृद्धिमिव ? प्रतीयत इत्यर्थः । व्यसनं विपदपि उत्सवैस्तुल्यम् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । विप्रलम्भो वञ्चना । प्रतारणमिति यावत् । सोऽपि लाभाय । किं बहुना, प्रियसङ्गस्य सर्वावस्थास्वपि सुखमेवेत्यर्थः ॥ २७ ॥
**हिन्दी—**प्रियजनके समागममें शून्य भी परिपूर्ण हो जाता है और विपत्ति भी उत्सवोंके समान प्रतीत होती है प्रतारण भी लाभके लिए हो जाती है ॥२७॥
पुनः प्रकारान्तरेण विप्रयोगस्य दुःखहेतुत्वमाह—
तदा रम्याप्यरम्याणि, प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ २८ ॥
**मल्लि०—**तदेति । तदा रम्याण्यपि अमनोहराणि भवन्ति । किं बहुना, प्रिया असवः प्राणा अपि शल्यम् । शल्यवदसह्या भवन्तीत्यर्थः । किंच, तदा सबन्धुः सन्नपि, एकाकी असहाय एव । 'एकादाकिनिच्चासहाये' इत्याकिनिच्प्रत्ययः । यदा इष्टेन रहितो भवति तदा सर्वमसह्यमिति ॥ २८ ॥
**हिन्दी—**इसके विपरीत जब प्रियसे रहित (वियुक्त) होता है तब सुन्दर पदार्थ भी असुन्दर हो जाते हैं। प्रीतिके विषय प्राण भी कण्टक-सा हो जाता है, उस समय बन्धुओंके साथ रहता हुआ भी अकेला-सा हो जाता है ॥ २८ ॥
१५ कि०
२२६ | किरातार्जुनीयम्
युक्तः प्रमाद्यसि, हितादपेतः परितप्यसे ।
यदि नेच्छात्मनः पीडा मा सञ्जि भवता जने ॥ २९ ॥
**मल्लि०—**युक्त इति । किंच, युक्तः, हितेनेति शेषः । हितेनेष्टेन युक्तः सन् प्रमाद्यसि प्रकर्षेण माद्यसि हृष्यसि । हितादपेतः परितप्यसे परितप्तो भवसि । तपेर्दैवादिकात्कर्तरि लट् । सत्यमेवं ततः किमत आह—यदीति । पीडा बाधः स्वस्य च नेष्टा यदि तर्हि भवता जने परस्मिन्नपि मा सञ्जि न सञ्ज्यताम् । सञ्जतेर्ण्यन्तात्कर्मणि लुङ् । आत्मदृष्टान्तेन परपीडातो निवर्त्तितव्यमित्यर्थः । पीडायाः परात्मनोः समत्वात् ॥ २९ ॥
हिन्दी—( हे वत्स ! ) हितसे युक्त होकर बहुत ही प्रसन्न होते हो, परन्तु हितसे रहित होकर सन्तप्त हो जाते हो, इसलिए तुम दुःख भोगना नहीं चाहते हो तो अन्य जनमें आसक्त मत बनो ॥ २९ ॥
अथ देहास्थैर्याश्रद्धया च परपीडा न कार्येत्याह—
जन्मिनोऽस्य स्थितिं विद्वाँल्लक्ष्मीमिव चलाचलाम् ।
भवान्मा स्म वधीन्न्याय्यं, न्यायाधारा हि साधवः ॥ ३० ॥
**मल्लि०--**जन्मिन इति । अस्य जन्मिन उत्पत्तिधर्मकस्य शरीरिणः । व्रीह्यादित्वादिनिः । स्थितिं लक्ष्मीमिव चलाचलां चञ्चलां जन्मधर्मत्वादेव चञ्चलामनित्यामित्यर्थः । चलतेः पचाद्यच् । ‘चरिचलिपत्तिवदीनां वा द्वित्वमभ्यासस्यात्वं सद्येति वक्तव्यम्’ इति द्वित्वः । अभ्यासस्यागागमश्च । विद्वान् । जानन्नित्यर्थः । ‘विदेः शतुर्वसुः’ इति वैकल्पिको वसुरादेशः । भवान् । न्यायादनपेतं न्याय्यम् । ‘धर्मपथ्यर्थन्यायादनपेते’ इति यत्प्रत्ययः । मा स्म वधीत् । मा नाशयदित्यर्थः । ‘स्मोत्तरे लङ् च’ इति लङ् । ‘लुङि च’ इति हनो वधादेशः । ‘शेषे प्रथमः’ इति प्रथमपुरुषः । हि यस्मात् साधवो न्यायाधारा न्यायावलम्बाः । बहुव्रीहिस्तत्पुरुषो वा । न्यायत्यागे साधुत्वमेव न स्यादिति भावः । ‘न्यायाचाराः’ इति पाठे न्यायमाचरन्तीति तथोक्ताः । कर्मण्यण् ॥ ३० ॥
**हिन्दी—**इस जन्मवाले ( प्राणी ) की स्थितिको लक्ष्मीकी तरह चञ्चल ( अस्थिर ) जानते हुए तुम न्याय्य ( न्यायसे युक्त ) विषयका नाश मत करो, क्योंकि सज्जनलोग न्यायका अवलम्बन करनेवाले होते हैं ॥ ३० ॥
एकादशः सर्गः। २२७
तर्हि किं मे कर्तव्यं तत्राह—
विजहीहि रणोत्साहं, मा तपः साधु नीनशः।
उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ! ॥ ३१ ॥
मल्लि०—विजहीहीति। हे तपोधन ! रणोत्साहं रणोद्योगम्। लोकोत्तरेषु कार्येषु स्थेयान्प्रयत्न उत्साहस्तं विजहीहि त्यज। 'आ च हौ' इतीकारः। साधु समीचीनम्। निःश्रेयसकरत्वादिति भावः। तपो मा नीनशो न नाशय। नश्यतेर्ण्यन्तान्माङ्योगेदाशिषि लुङ् अडागमनिषेधश्च किन्तु जन्मन उच्छेदं साधयितुमित्यर्थः। शान्त एधि। विजिगीषानिवृत्तो भवेत्यर्थः। 'हुश्झल्भ्यो हेर्धिः' धिः। 'ध्वसोरेद्धावभ्यासलोपश्च' इत्येकार इति ॥ ३१ ॥
हिन्दी—(हे तपस्विन् !) युद्धमें उत्साहको छोड़ दो, उत्तम तपस्या नष्ट मत करो, जन्मका उच्छेद (नाश) करनेके लिए अर्थात् मोक्षको प्राप्त करनेके लिए शान्त बनो ॥ ३१ ॥
अथ सर्वथा मे विषयकण्डूतिर्न निवर्तत इत्याशङ्क्य तर्ह्यन्तःशत्रुविजयेन विधीयतां तदपनोद इत्याह—
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ३२ ॥
मल्लि०—जीयन्तामिति। दुर्जया अजय्याः। चक्षुरादयो देहे वर्तमाना रिपवो जीयन्ताम्। यस्मात् तेषु अन्तःशत्रुषु जितेषु सत्सु त्वयाऽयं कृत्स्नो लोको जितो ननु। किमुतान्ये शत्रवस्तदन्तर्गता इत्यर्थः। जितेन्द्रियस्येन्द्रियार्थानिःस्पृहस्य निर्भरवैरानुदयाद्विजयव्यपदेशः ॥ ३२ ॥
हिन्दी—(हे वत्स !) नहीं जीते जानेवाले शरीरमें वर्तमान नेत्र आदि शत्रुओंको जीत लो, क्योंकि उन शत्रुओंको जीतनेपर समस्त लोकको तुम जीत जाओगे ॥ ३२ ॥
अजितेन्द्रियस्यानिष्टमाचष्टे—
परवानर्थसंसिद्धौ, नीचवृत्तिरपत्रपः।
अविधेयेन्द्रियः पुंसां गौरिवेति विधेयताम् ॥ ३३ ॥
मल्लि०—परवानिति। अर्थसंसिद्धौ भव्यवहारार्दिस्वार्थसाधके परवान् पराधीनः। 'परतन्त्रः पराधीनः परवान्' इत्यमरः। नीचवृत्तिः कर्षणावहनादि-
| २२८ | किरातार्जुनीयम् |
|---|
कृष्टकर्मा । अपत्रपो निर्लज्जोऽविधेयेन्द्रियोऽजितेन्द्रियः पुमान् गोर्बलीवर्द इव पुंसां विधेयतां यथोक्तकारिताम् । प्रेष्यतामिति यावत् । 'विधेयो विनयग्राही वचने स्थित आश्रवः' । इत्यमरः । एति प्राप्नोति । उपमालंकारोऽयम्—'प्रकृतयोरैक-साधर्म्यात् श्लेषे तु शब्दमात्रसाधर्म्यम्' इति ॥ ३३ ॥
हिन्दी—प्रयोजनकी सिद्धिके लिए पराऽधीन, नीच कर्म करनेवाला, लज्जासे रहित और इन्द्रियोंको वशमें नहीं करनेवाला पुरुष बैलके समान अन्य पुरुषोंका वशवर्ती हो जाता है ॥ ३३ ॥
न केवलं हिंसादिदोषमूलत्वाद्विषयाणां हेयत्वम्, किन्तु अपारमार्थिकत्वादपीत्याह—
श्वस्त्वया सुखसंवित्तिः स्मरणीयाऽधुनातनी ।
इति स्वप्नोपमान् मत्वा कामान् मा गास्तदङ्गताम् ॥ ३४ ॥
मल्लि०—श्व इति । अधुना भवा अधुनातनी इदानींतनी । 'सायंचिर-'मित्यादिना ट्युप्रत्ययः । सुखसंवित्तिः सुखानुभवः श्वः परेऽहनि त्वया स्मरणीया । न त्वनुभवनीया । इति हेतोः । काम्यन्त इति कामा विषयास्तान् स्वप्नोपमान् स्वप्नतुल्यान् । मत्वाऽवास्तविकान्निश्चित्य तदङ्गतां तच्छेषत्वं मा गा न गच्छ । 'इणो गा लुङि' इति गादेशः ॥ ३४ ॥
हिन्दी—(हे वत्स ! ) इस समय हुए सुखके अनुभवको दूसरे दिन तुम्हें स्मरण (याद) करना चाहिए, इस कारणसे शब्द स्पर्श आदि विषयोंको स्वप्नके समान निश्चय करके विषयोके अधीन मत बनो ॥ ३४ ॥
अतो हेयाः कामा इत्याह—
श्रद्धेया विप्रलब्धारः, प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ ३५ ॥
मल्लि०—श्रद्धेया इति । श्रद्धातुमर्हा श्रद्धेया विश्वसनीयतया विप्रलब्धारः प्रतारकाः । विश्वासघातका इत्यर्थः । तथा, प्रीणयन्तीति प्रियाः प्रीतिजनकाः । 'इगुपधे-'त्यादिना कप्रत्ययः । तथापि विप्रियकारिणो दुःखजननशीलाः । किञ्च, त्यजन्तोऽपि पुरुषं विहाय गच्छन्तोऽपि सुदुस्त्यजाः स्वयत्नेन त्यक्तुमशक्याः कामा विषयाः कष्टाः कुत्सिताः शत्रवो हि प्रसिद्धशत्रवः । वैधर्म्यादिति भावः । यत्र श्रद्धेयत्वादीनां विप्रलम्भकत्वादीनां चैकत्र विरोधो विषयस्वाभाव्येन समाधीयत
एकादशः सर्गः
२२९
इति विरोधाभासोऽलंकारः । तेन च कामानां प्रसिद्धशत्रुवैधर्म्यं व्यतिरेकेण व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ३५ ॥
हिन्दी — शब्द स्पर्श आदि विषय विश्वसनीय होकर भी प्रतारक (ठगनेवाले) होते हैं, प्रीतिजनक होकर भी अप्रिय करनेवाले होते हैं, पुरुषको छोड़कर जाते हुए भी दुखसे छोड़े जानेवाले होते हैं, अतः ये (विषय) कष्टजनक शत्रु (दुश्मन) हैं ॥ ३५ ॥
तर्हि किं कर्तव्यमित्याशङ्क्योपसंहरन्नाह —
विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ३६ ॥
मल्लि० — विविक्त इति । विविक्ते विजने । 'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' । इत्यमरः । जह्नुकन्यया गङ्गया भूयो भूयिष्ठं पुनः पुनर्वा । 'भूयः पुनः पुनः ख्यातं भूतार्थे पुनरव्ययम्' इति विश्वः । प्लाविते सिक्ते । 'पाविते' इति पाठे पवित्रीकृत इत्यर्थः । अस्मिन्नगे इन्द्रकीले त्वां मुक्तिः पुरा निकटे प्रत्यासीदति । संनिकृष्टा भविष्यतीत्यर्थः । 'पुरा पुराणे निकटप्रबन्धातीतभाविषु' । इति विश्वः । उदायुधो गृहीतशस्त्रो मा भूः । शस्त्रं विमुञ्चेत्यर्थः ॥ ३६ ॥
हिन्दी — एकान्त अथवा पवित्र गङ्गाजीसे वारंवार सेचन किये गये इस इन्द्रकील पर्वतमें तुम्हें मुक्ति समीप आयेगी शस्त्र लेनेवाले मत बनो ॥ ३६ ॥
व्याहृत्य मरुतां पत्याविति वाचमवस्थिते ।
वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः ॥ ३७ ॥
मल्लि० — व्याहृत्येति । मरुतां पत्यौ देवेन्द्रे, इति वाचं व्याहृत्य उक्त्वा, अवस्थिते सति तूष्णीं स्थिते सति । अथ कपिध्वजोऽर्जुनः प्रश्रयगम्भीरं विनयमधुरम् । 'विनयप्रश्रयौ समौ' इति यादवः । वच उवाच उक्तवान् ॥ ३७ ॥
हिन्दी — ऐसा वाक्य कह कर देवराज इन्द्रके मौन धारण करने पर अर्जुनने विनयसे गम्भीर ऐसा वचन कहा ॥ ३७ ॥
किमुवाचेत्यपेक्षायां चतुर्भिरिन्द्रवाक्यमुपश्लोकयन्नाह —
प्रसादरम्यमौजस्वि गरीयो लाघवान्वितम् ।
साकाङ्क्षमनुपस्कारं विश्र्वद्गति निराकुलम् ॥ ३८ ॥
मल्लि० — प्रसादेति । प्रसादोऽत्र प्रसिद्धार्थपदत्वं तेन रम्यम् । 'प्रसिद्धार्थ-
२३० | किरातार्जुनियम्
पदत्वं यत्स प्रसादो निगद्यते' । इति लक्षणात् । ओजस्वि समासभूयिष्ठम् । 'ओजः समासभूयस्त्वम्' इति शासनात् । गरीयोऽर्थभूयस्त्वपरिगतम् । न तु शब्दाडम्बरमात्रमित्यर्थः । लाघवान्वितं विस्तरदोषरहितम् । साकाङ्क्षम् आकाङ्क्षावतां कदम्बात्मकम् । न तु दशदाडिमादिवाक्यवदनाकाङ्क्षितमित्यर्थः । अनुपस्कारं अध्याहारदोषरहितम् । विष्वग्गति कृत्स्नार्थप्रतिपादकम् । न तु सावशेषार्थम् । अत एव निराकुलमसंकीर्णार्थम् ॥ ३८ ॥
हिन्दी—( हे महोदय ! ) प्रसिद्ध अर्थवाले पदोंसे रमणीय, प्रचुर समासोंयुक्त, प्रचुर अर्थोंवाला, विस्तर दोषसे रहित, आकाङ्क्षावाले पदोंसे सहित, अध्याहार दोषसे रहित और समस्त अर्थोंका प्रतिपादक ॥ ३८ ॥
न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयाऽन्येषामाम्नायवचनोपमम् ॥ ३९ ॥
**मल्लि०—**न्यायेति । पुनः, न्यायेन युक्त्या निर्णीतसारत्वान्निर्णीततत्त्वार्थत्वाद्धेतोः, आगमे शास्त्रे विषये निरपेक्षं स्वतन्त्रमिव । युक्तिदाढर्यादेवं प्रतीयते वस्तुतस्तु शास्त्रसिद्धार्थमेवेति 'इव' शब्दार्थः । किञ्च, अन्येषां प्रतिवादिनाम् । अप्रकम्प्यतया अनुमानादिभिरबाध्यत्वात्प्रत्याख्याततया आम्नायवचनोपमम् । वेदवाक्यसदृशमित्यर्थः ॥ ३९ ॥
**हिन्दी—**युक्तिसे सारका निर्णय करनेसे शास्त्रके विषयमें अपेक्षा न रखनेवाला (स्वतन्त्रके समान ), अनुमान आदिसे बाध्य न होनेसे वेदवाक्यके समान। ३९॥
अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूजितम् ।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ॥ ४० ॥
**मल्लि०—**अलङ्घ्यत्वादिति । अन्यैर्जनैरलङ्घ्यत्वाद् अनुल्लङ्घनीयत्वात् । क्षुभितोदन्वदूजितम् उद्वेलार्णवोद्गम्भीरम् । औदार्याद्युक्तिविशेषत्वात् । श्लाघ्यविशेषणत्वाद्वा । तदुक्तं दण्डिना—'उत्कर्षवान्गुणः कश्चिदुक्ते यस्मिन्प्रतीयते । तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः । श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते ॥' इति अग्राम्यार्थत्वात्' इति केचित् । अन्यत्र—त्यागित्वादित्यर्थः । अर्थसंपत्तेः प्रयोजनसंपत्तेः अन्यत्र—अणिमादिसमृद्धेः ऋषेर्मुनेश्चित्तमिव शान्तं सौम्यम् ॥ ४० ॥
**हिन्दी—**अन्य जनोंसे लंघनीय न होनेसे क्षुब्ध समुद्रके समान गम्भीर, युक्ति विशेष और प्रयोजन सम्पत्तिके कारण ऋषिके चित्तके समान सौम्य ॥ ४० ॥