किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
अष्टादशः सर्गः । ४०९
अष्टादशः सर्गः । ४०९
हिन्दी—वृषभके समान गतिवाले अर्जुन उस समय तरकशोंसे युक्त अपने धनु (गाण्डीव) को तथा पहलेकी तरह कवचधारी विशाल अपने शरीरको और पहलेके समान स्थापित अपने खड्गको देखते हुए आश्चर्ययुक्त हो गये ॥ १६ ॥
सिषिचुरवनिमम्बुवाहाः शनैः सुरकुसुममियाय चित्रं दिवः ।
विमलरुचिभृशं नभो दुन्दुभेर्ध्वनिरखिलमनाहतस्यानशे ॥ १७ ॥
मल्लि०—सिषिचुरिति । अम्बुवाहाः शनैरवनिं सिषिचुरुक्षांचक्रुः । दिवोऽन्तरिक्षाच्चित्रं विचित्रं सुरकुसुमं मन्दारकुसुमानि । जातावेकवचनम् । इयायाजगाम । अनाहतस्याताडितस्य दुन्दुभेः । जातावेकवचनम् । ध्वनिः विमलरुचि प्रसन्नमखिलं नभो भृशमानशे व्याप । अताडिता एव दुन्दुभयो नेदुरित्यर्थः । सर्वमिदमस्य सर्वलोकहितार्थित्वादिति वेदितव्यम् ॥ १७ ॥
हिन्दी—मेघ धीरे-धीरे पृथिवीको सेचन करने लगे, अन्तरिक्षसे विचित्र मन्दारपुष्प गिरने लगे, ताडन किये बिना भेरीकी आवाजने निर्मल कान्तिवाले समूचे आकाशको व्याप्त कर डाला ॥ १७ ॥
आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैद्यौराचिता तारकितेव रेजे ॥ १८ ॥
मल्लि०—आसेदुषामिति । गोत्रभिद इन्द्रस्य । अनुवृत्त्याऽनुसरणेन । आसेदुषामासन्नानां भुवनत्रयस्य गोपायकानां रक्षकाणां लोकपालादीनाम् । 'गुपूधूपे-' त्यादिनाऽऽयप्रत्ययः । तदन्ताण्ण्वुल् । रोचिष्णवः प्रकाशनशीला रत्नावलयो येषां तैः । 'अलंकृञि-'त्यादिनेष्णुच्प्रत्ययः । विमानैः पुष्पकैराचिता व्याप्ता द्यौस्तारकिता संजाततारकेव रेजे । उत्प्रेक्षालंकारः ॥ १८ ॥
हिन्दी—इन्द्रका अनुसरण कर रहनेवाले, तीनों लोकोंकी रक्षा करनेवाले लोकपाल आदियोंके चमकनेवाली रत्न पंक्तियोंसे युक्त विमानोंसे व्याप्त आकाश उदित ताराओंसे युक्तके समान शोभित हुआ ॥ १८ ॥
हंसा बृहन्तः सुरसद्मवाहाः संह्लादिकण्ठाभरणाः पतन्तः ।
चक्रुः प्रयत्नेन विकीर्यमाणेव्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥ १९ ॥
मल्लि०—हंसा इति । बृहन्तो महान्तः सुरसद्मानि विमानानि वहन्तीति सुरसद्मवाहाः । कर्मण्यण् । संह्लादीनि निह्लादीनि मुखराणि कण्ठाभरणानि
| ४१० | किरातार्जुनीयम् |
|---|
किङ्किण्यो येषां ते । पतन्तो धावन्तो हंसाः प्रयत्नेन विकीर्यमाणविक्षिप्यमाणैः अग्रपक्षैः पक्षाग्रैः । व्योम्नः परिष्वङ्गमलिङ्गनं चक्रुरिवेत्युत्प्रेक्षा ॥ १९ ॥
हिन्दी--विमानोंको ढोनेवाले, आवाज करनेवाली किङ्किणियोंसे युक्त बड़े-बड़े हंस उड़ते हुए हंस प्रयत्नसे फैलाये जानेवाले पंखोंके अग्रभागोंसे आकाशका आलिङ्गन कर रहे हैं क्या ? ऐसी प्रतीति हो रही थी ॥ १९ ॥
मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य संतानिकीः ।
जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥ २० ॥
मल्लि०--मुदितेति । अथ मरुद्वायुः जलदे मेघ इव वृषे निषेदिवांसमुपविष्टमीश्वरं मुदिता मधुलिहो भृङ्गा याभिस्ता वितानीकृता उल्लोचाकाराः कृताः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । सांतनिकीः संतानकुसुमविकाराः स्रजः मन्दारमाला इत्यर्थः । 'संतान' शब्दाद्विकारार्थे ठक् । 'संतानः कल्पवृक्षश्च' इत्यमरः । उपरि वितत्य विस्तार्य । उपसुखयांबभूव प्रह्लादयामास ॥ २० ॥
हिन्दी--तब वायुने मेघके समान बैलपर चढ़े हुए शिवजीको भौरोंको प्रसन्न करनेवाली, चंदर्वाके समान की गई, सन्तान वृक्षके फूलोंकी मालाओंको फैलाकर प्रसन्न किया ॥ २० ॥
कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः ।
तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥ २१ ॥
मल्लि०-कृतधृतीति । अभिन्नरोमोद्गमैरविरलरोमाञ्चैर्गणपतिभिः प्रमथमुख्यैरुच्चकैः परिवन्दितेन साधु साधु इति संस्तुतेन । 'वदि अभिवादनस्तुत्योः' । कर्मणि क्तः । हरेः सूनुनाऽर्जुनेन तपसि कृतं फलं भगवत्साक्षात्कारलक्षणं येन तस्मिन् । कृतफले सतीत्यर्थः । कृतधृति कृतसंतोषं यथा तथा फलज्यायसी फलाधिकेति वक्ष्यमाणा स्तुतिर्जगदे कथिता ॥ २१ ॥
हिन्दी-अविरल रोमाञ्चोंसे युक्त मुख्य प्रमथोंसे उच्च स्वरसे स्तुति किये गये अर्जुन तपस्यामें फलके उत्पन्न होनेपर सन्तोषकर फलसे अधिक स्तुति करने लगे ॥ २१ ॥
शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः ।
जितमृत्यवोऽजित ! भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥२२॥