किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
अष्टमः सर्गः १४३
अष्टमः सर्गः १४३
अन्वयः—विलासिनीजनः पूर्वं प्रियानुरागेण कृतभूषणादरः विपक्षयोषिताम् दृष्टीः तथा न ददाह यथा जलाद्र्रः नखमण्डनश्रिया ददाह।
विग्रहः—प्रियस्यातुरागेण = प्रियानुरागेण । कृतः भूषणेषु आदरः येन सः= कृतभूषणादरः । विपक्षाः याः योषितस्तासाम् = विपक्षयोषिताम् । जलेन आर्द्रः = जलाद्र्रः । नखान्येव मंडनं, तस्य श्रिया = नखमण्डनश्रिया ।
अर्थं—विलासिनीजनः = अश्मप्रोजनः । पूर्वम् = जलविहारात् प्राक् । प्रियानुरागेण = प्रियतमप्रेम्णा । कृतभूषणादरः = कृताभूषणासक्तिः । विपक्षयोषिताम् = सपत्नीनाम् । दृष्टिः = चक्षूंषि । तथा न ददाह = तादृशं न दुःखीचकार । यथा = यादृशं जलाद्र्रः = जलसिक्तः सन् । नखमण्डनश्रिया = नखक्षतशोभया, ददाह = तापयामास । अत्र विषमालङ्कारः ।
कोषः—'पुनर्भवः कररुहो नखोऽस्त्रि नखरोऽस्त्रियाम्' इत्यमरः ।
हिन्दी—प्रियानुराग से रमणियों के आभूषणों को प्रियतमों ने सुधार दिया था परन्तु आभूषणों का सुधारना सपत्नियों को उतना नहीं खला जितना कि सौतों के शरीर पर नखक्षत (नाखून के चिह्न) जल से भीगा हुआ परिताप करने लगा ॥ ४१ ॥
शुभाननाः साम्बुरुहेषु भोरवो विलोलहाराश्चलफेनपंक्तिषु ।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूमिषु ॥ ४२ ॥
अन्वयः—शुभाननाः विलोलहारा नितान्तगौर्यः भीरवः ताः साम्बुरुहेषु चलफेनपङ्क्तिषु हृतकुङ्कुमेषु ऊर्मिषु अलम् परभागम् न लेभिरे ।
विग्रहः—शुभानि आननानि यासां ताः = शुभाननाः । विलोलाः हाराः यासां ताः = विलोलहाराः । नितान्तं गौर्यः=नितान्तगौर्यः । अम्बुरुहैः सहितेषु= साम्बुरुहेषु । चलाः फेनपंक्तयः येषु तेषु = चलफेनपंक्तिषु । हृतानि कुङ्कुमानि यैस्तेषु = हृतकुंकुमेषु ।
अर्थः—शुभानना = वराननाः । विलोलहाराः=लोलमालाः । नितान्तगौर्यः= अत्यन्तमरुणाः । भीरवः=भीताः । ताः = स्त्रियः साम्बुरुहेषु = सकमलेषु । चलफेनपंक्तिषु = चंचलफेन राजिषु, हृतकुंकुमेषु = दूरीकृतपरागेषु । ऊर्मिषु = तरङ्गेषु । अलम् = अत्यर्थम् । परभागम् = गुणोत्कर्षम् । न लेभिरे = न प्रापुः । अत्र सामान्ययथासंख्ययोरङ्गाङ्गिभावेन संकरः ।
१४४ | किरातार्जुनीयम्
कोषः—'गोरोऽरुणे सिते पीते' इति वैजयन्ती । 'परभागो गुणोत्कर्षः' इति यादवः ।
हिन्दी—सुन्दर मुखों वाली डरी हुई वे अप्सरायें जिनके वक्षःस्थल पर हार लहरा रहे थे और जो अत्यन्त गौर वर्ण की थीं, कमल-युक्त चपल तरंगित तथा कुंकुमरज को धोने वाली ल्हरा म पर्याप्त गुणोत्कर्ष प्राप्त नही कर सकी ॥४२॥
ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरमुज्झति ।
मुहुः स्तनैस्तालसमं समाददे मनोरमं नृत्यमिव प्रवेपितम् ॥ ४३ ॥
अन्वयः—व्यस्तवधूकराहते ह्रदाम्भसि मृदङ्गध्वनिधीरम् रवम् उज्झति मुहुः स्तनैः तालसमम् मनोरमं नृत्यम् इव प्रवेपितं समाददे ।
विग्रहः—व्यस्ताभ्या वधूकरभ्याम् आहते = व्यस्तवधूकराहते । ह्रदस्याम्भः स्तस्मिन् = ह्रदाम्भसि । मृदङ्गस्य ध्वनिः = मृदंगध्वनिः तद्वद्धीरम् = मृदगध्वनिधीरम् । तालस्य समम् = तालसमम् ।
अर्थः—व्यस्तवधूकराहते=विक्षारितवधूहस्तताडिते । ह्रदाम्भसि = ह्रदजले । मृदङ्गध्वनिधीरम् = मृदङ्गवाद्यवद्गभीरम् । रवम् = ध्वनिम् । उज्झति = मुञ्चति ध्वनिते सति । मुहुः=पुनः पुनः । स्तनैः=पयोधरैः, तालसमम् = तालसदृशम् ! मनोरमम् = मनोहारि । नृत्यम् इव = नृत्यसमम् । प्रवेपितम् = प्रकम्पः, समाददे=स्वीकृतम् । अत्रोपमालङ्कारः ।
कोषः—'तालः कालक्रियामानम्' इत्यमरः ।
हिन्दी—जलविहार करते समय अप्सरायें अपने व्यस्त (हथेली नीचे करके) हाथों से जल पर अभिघात (चोट) करती थी, जिससे जल से मृदङ्ग के समान गम्भीर ध्वनि उत्पन्न हो रही थी, इस ध्वनि से तालसाम्य करते हुए उन अप्सराओं के स्तन बारम्बार मनोरम नाच करते हुए से हिल रहे थे ॥ ४३ ॥
श्रिया हसद्भिः कमलानि सस्मितैरलङ्कृताम्बुः प्रतिमागतेर्मुखैः ।
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यमवाप जाह्नवी ॥ ४४ ॥
अन्वयः—श्रिया कमलानि हसद्भिः सस्मितैः प्रतिमागतेः मुखैः अलंकृताम्बुः सुरराजयोषितां कृतानुकूल्या जाह्नवी प्रसादसाफल्यम् अवाप ।