सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

अष्टमः सर्गः १४१

अष्टमः सर्गः १४१

हुई भी उस माला को सखी ने नहीं निकाला, पहने ही रही। गुण वास्तव में प्रेम में रहते हैं किसी वस्तु में नहीं ॥ ३७ ॥

असंशयं न्यस्तमपान्तरक्तां
यदेव रोद्धुं मणीभिरञ्जनम् ।
हृतेऽपि तस्मिन् सलिलेन शुक्लतां
निरास रागो नयनेषु न श्रियम् ॥ ३८ ॥

अन्वयः —रमणीभियंद अञ्जनं न्यस्तम् उपान्तरक्तां रोद्धुम् एव असंशयं तस्मिन् सलिलेन हृते अपि रागः नयनेषु शुक्लतां निरास श्रियम् न ( निरास ) ।

विग्रहः — उपान्तयोः रक्तता, ताम् = उपान्तरक्ताम् ।

अर्थः—रमणीभिः = मुग्धवधूभिः । यद् अंजनम् = चक्षुःशोभार्थं यत् कज्जलं न्यस्तम् = धृतम् । तदञ्जनम् । उपान्तरक्ताम् = नेत्रप्रान्तयोः अरुणत्वम् । रोद्धुम् = प्रसिद्धुम् एव न्यस्तम् । न तु शोभार्थमित्यर्थः । असंशयम् = नात्र संशयः । तस्मिन् = अञ्जने । सलिलेन = अम्भसा । हृते = क्षालिते । अपि । रागः = रक्तत्वम् । नयनेषु = नेत्रेषु । शुक्लतां = श्वेतत्वम् । निरास = निरस्तवान् । श्रियम् = शोभाम् । न निरस्तवान् इति ।

कोषः--'सुन्दरी रमणी रामा' इत्यमरः ।

हिन्दी — जलविहार से पूर्व अप्सराओं ने अपनी आंखों में जो काजल लगा रखा था वह नेत्रों के निचले भागों की रक्तता बनाये रखने के लिए था, इसमें कोई सन्देह नहीं है क्योंकि जलावगाहन से काजल के छूट जाने पर भी नेत्र भागों की अरुणिमा ने नेत्रों की सफेदी को ही मिटाया, उसकी रमणीयता को नहीं दूर किया ॥ ३८ ॥

द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः ।
उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥ ३९ ॥

अन्वयः--द्युति वहन्तः वेगिभिः जलैः प्रलोभात् हृताः उपप्लुताः वनितावतंसकाः च्युताधिकाराः सचिवा इव तत्क्षणशोचनीयताम् ययुः ।

विग्रहः—वनितानाम् अवतंसकाः = वनितावतंसकाः । च्युताः अधिकाराः यैस्ते = च्युताधिकाराः । तत्क्षणं शोचनीयतामिति तत्तथोक्ताम् ।

१४२ | किरातार्जुनीयम्

**अर्थ:—**द्युतिम् = शोभां तेजश्च । वहन्तः = धारयन्तः । वेगिभिः = जविभिः जलैः = पयोभि., अजस्रश्च । प्रलोभात् = मोहात् । हृताः = गृहीताः उपप्लुताः = मृदिताः, पीडिता वा । वनितावतंसकाः = देवाङ्गनापुष्पभूषणानि । च्युताधिकाराः = अधिकारभ्रंशाः सचिवाः = मन्त्रिण इव । तत्क्षणम् = च्युतकाले । शोचनीयताम् शोक्तव्यम् । ययुः = प्रापुः ।
कोष:—'जलं गोकवलं नीरे होवेरे च जडोऽन्यवत्' इति विश्वः ।
**हिन्दी—**अप्सराओं के द्वारा जूड़ों पर बांधे गये पुष्पाभरण जो कि देदीप्यमान थे, जल के वेग ने उन्हें दूर फेंक दिया । इस प्रकार फेंके गये उन पुष्पभरणों की ऐसी दयनीय दशा हो गई थी जैसे कि अधिकार छिन जाने पर मन्त्रियों की हो जाती है ॥ ३९ ॥

विपत्रलेखा निरक्तकाधरा निरञ्जनाक्षोरपि बिभ्रतीः श्रियम् ।
निरीक्ष्य रामा बुबुधे नभश्चरैरलङ्कृतं तद्वपुषैव मण्डनम् ॥ ४० ॥

**अन्वयः—**विपत्रलेखाः निरक्तकाधराः निरञ्जनाक्षोः अपि श्रियं बिभ्रतीः रामाः निरीक्ष्य नभश्चरैः तद्वपुषा एव मण्डनम् अलङ्कृतम् बुबुधे ।
**विग्रहः—**विगताः पत्रलेखाः यासां ताः = विपत्रलेखाः । निगलक्तकाः अधराः यासां ताः = निरक्तकाधराः । निर्गतानि अञ्जनानि = निरञ्जनानि । निरञ्जनानि अक्षीणि यासा ताः = निरञ्जनाक्षीः । तासां वपुषा = तद्वपुषा ।
**अर्थः—**विपत्रलेखाः = तिलकरहिताः । निगलक्तकाधराः = क्षालितरागाः । निरञ्जनाक्षीः = कज्जलरहितनेत्राः । अपि श्रियं = शोभाम् । बिभ्रतीः = धारयतीः । रामाः = सुरङ्गना । निरीक्ष्य = दृष्ट्वा । नभश्चरैः = गन्धर्वैः । तद्वपुषैव = सुराङ्गनादेहेनैव । मण्डनम् अलङ्कृतम् = अलंकरणमलङ्कृतम् । इति बुबुधे = ज्ञातम् ।
कोष:—'गात्रं वपुः संहननं शरीरं वर्म विग्रहः' । इत्यमरः ।
**हिन्दी—**गन्धर्वों ने देखा—जलावगाहन से अप्सराओं के तिलक घुल गये हैं, उनके ओठों की लाली भी मिट गई है और आँखों में काजल नहीं रह गया है फिर भी वे सुन्दर लग रही हैं । इससे गन्धर्वों को ज्ञात हुआ कि भूषण उन्हें शोभित नहीं कर रहे हैं बल्कि उनसे भूषण ही शोभित होता है ॥ ४० ॥

तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः ।
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टेश्च विपक्षयोषिताम् ॥ ४१ ॥