सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

८६ दशकुमारचरितम् । [ पूर्वपीठिकायां

८६ दशकुमारचरितम् । [ पूर्वपीठिकायां
चापयष्टिश्रिया भ्रूलते, प्रथमसुहृदः सुधाकरस्यापनीतकलङ्कया कान्त्या
वदनम् , ( लीलामयूरबर्हभङ्गया केशपाशं ) च विधाय समस्तमकरन्द-
कस्तूरिकासम्मितेन मलयजरसेन प्रक्षाल्य कर्पूरपरागेण सम्मृज्य निर्मि-
तेव रराज ।
( ६) सा मूर्त्तिमतीव लक्ष्मीर्मालवेशकन्यका स्वेनैवाराध्यमानं सङ्क-
ल्पितवरप्रदानायाविर्भूतं मूर्त्तिमन्तं मन्मथमिव तमालोक्य मन्दमारुता-
न्दोलिता लतेव मदनावेशवती चकम्पे । तदनु क्रीडाविश्रम्भात्निवृत्ता
जयध्वजस्तथाभूतो यो मीनो मत्स्यस्तस्य दर्पेणाहङ्कारेण । मीनाकारं नयनयुगमिति
भावः । चापयष्टिर्धनुर्लता तस्याः श्रिया कान्त्या । वक्रे भ्रूलते इत्यर्थः । प्रथमसुहृदः
प्रधानमित्रस्य कामस्येति शेषः । अपनीतो दूरीकृतः कलङ्को लाञ्छनं यस्यास्तया ।
निष्कलङ्कसुधाकरसदृशं वदनमिति भावः । लीलार्थो मयूरः लीलामयूरः क्रीडामयूरः
कामस्येति शेषः । तस्य बर्हं पिच्छं तस्य भङ्गया रचनया-तत्सदृशमिति भावः ।
केशपाशं केशकलापम् । विधाय कृत्वा । समस्ताभ्यामेकीकृताभ्यां मकरन्द-कस्तूरि-
काभ्यां पुष्परसमृगमदाभ्यां संमितेन युक्तेन मिलितेनेत्यर्थः । मलयजरसेन चन्दन-
द्रवेण । प्रक्षाल्य आर्दीकृत्य । कर्पूरपरागेण कर्पूरचूर्णेन । संमृज्य सर्वतः समीकृत्य ।
निर्मितेव रचितेव कामेनेति शेषः ।
(६) मूर्त्तिमतीव शरीरिणीव, साक्षादित्यर्थः । स्वेनैव स्वयमेव । आराध्यमान-
मुपास्यमानम्, अत एव सङ्कल्पितवरप्रदानाय सङ्कल्पितस्य अभिलषितस्य अवन्ति-
सुन्दर्येति शेषः । वरस्य प्रदानाय प्रदानार्थमाविर्भूतमुपस्थितम् । तं राजवाहनम् ।
मन्दमारुतेन धीरसमीरेणान्दोलिता कम्पिता । मदनस्य कामस्यावेश आविर्भाज-
स्तद्वती । चकम्पे यथा समीरसम्पर्केण लता कम्पिता भवति तथा सापि कामावेश-
वशात् कम्पिताऽभवत् । एतेन तस्या राजवाहने रतिरुत्पन्नेति ज्ञायते, सात्त्विकभा-
वस्य कम्पनस्यानुभावरूपत्वात् । तदनु एतदवस्थाप्राप्त्यनन्तरम् । क्रीडायां विश्रम्भो
उसकी दोनों आँखें निर्मित कीं । उसकी भृकुटियाँ अपने धनुषके समान तिरछी तथा अपने
मित्र चन्द्रमाकी निष्कलंक छविके समान उसका सुन्दर मुख और क्रीड़ा करनेवाले अपने
मयूरके समान उसके केशपाश रचकर एवं सभी तरहकी सुगन्धियोंसे-कस्तूरी-कर्पूर-चन्दन
आदिसे मिश्रित जलसे उसे नहला-धुलाकर पुनः कर्पूरके चूर्णसे ( सुगन्धित पाउडर से )
उसकी देह सजा दी-ऐसी सुन्दरी वह, उस समय दीख रही थी ।
( ६ ) मानो साक्षात् मूर्त्तिमती लक्ष्मी, सुन्दरीके समान मालवनाथकी पुत्री अपने
ही द्वारा उपास्यमान तथा पूर्वसंकल्पित वरप्रदानार्थ आए हुए साक्षात् मूर्त्तिमान कामदेव
के समान सुन्दर राजवाहनको देखकर कामवशीभूता होकर मन्द-मन्द बहती हवासे काँपती
Nepal Sanskrit University, Balmeeki Campus, Kathmandu

लज्जया कानि कान्यपि भावान्तराणि व्यधत्त ।
(७) 'ललनाजनं सृजता विधात्रा नूनमेषा घुणाक्षरन्यायेन निर्मि-
ता । नो चेदब्जभूरेवंविधो निर्माणनिपुणो यदि स्यात्तर्हि तत्समानलाव-
ण्यामन्या तरुणीं किं न करोति' इति सविस्मयानुरागं विलोकयतस्तस्य
समक्षं स्थातुं लज्जिता सती किञ्चित्सखीजनान्तरितगात्रा तन्नयनाभिमुखैः
किञ्चिदाकुञ्चितैरञ्चितभ्रूलतैरापाङ्गवीक्षितैरात्मनः कुरङ्गस्यानायमानलावण्यं

विश्वासोऽनुरागविशेषस्तस्मात् । कानि कान्यपि अनिर्वचनीयानीत्यर्थः । भावान्त-
राणि तदवस्थासमुचितान् नानाभावान् ।
(७) ललनाजनमित्यादि न करोतीत्यन्तं विलोकयतः इत्यस्याः क्रियायाः कर्म ।
न करोतीत्येतत्पर्यन्ता राजवाहनस्य चिन्ता । एषा अवन्तिसुन्दरी । घुणाक्षरन्यायेन
काकतालीयसंयोगन्यायेन । घुणः प्रसिद्धः काष्ठकीटो यदृच्छया काष्ठं भिन्दन् सञ्च-
रति—तथा तस्य सञ्चारेण काष्ठे कदाचिदक्षराकाराणि चिह्नानि जायन्ते । अयमेव
घुणाक्षरन्यायः । यथा घुणः अविद्वित्वैव अक्षराणि निर्माति तथैव इयमपि अविदि-
त्त्वैव विधातृहस्तान्निर्गता । नो चेत्—अन्यथा । अब्जाद्भवतीति अब्जभूब्ब्रह्मा । एवं-
विधाय। अवन्तिसुन्दरीसदृश्या निर्मागे सृष्टौ निपुणः कुशलः । तस्याः समानं तुल्यं
लावण्यं सौन्दर्य यस्यास्ताम् । अन्यामपराम् । किं कथम् । सविस्मयानुरागं विलो-
कयत इति क्रियाया विशेषणम् । विस्मयेनानुरागेण चेत्यर्थः । तस्य राजवाहनस्य ।
समक्षं पुरस्तात् । किञ्चिददीषत् सखीजनेन सहचर्य्या अन्तरितं व्यवहितं गात्रं शरीरं
यस्याः सा तथाभूता । तस्य राजवाहनस्य नयनयोर्न्नेत्रयोरभिमुखैः सम्मुखवर्त्तिभिः
किञ्चिदाकुञ्चितैर्रीषत्संक्षिप्तैः । अञ्चिते शोभिते भ्रूलते यैस्तैः । अपाङ्गवीक्षितैः कटा-
क्षैः । आत्मनः कुरङ्गस्य कुरङ्गभूतस्य आत्मनः इत्यर्थः । आनयो जालं तदिबाचर-
तीति आनायमानं लावण्यं यस्येति विग्रहः । यथा कश्चिद् आनाये कुरङ्गं बध्नाति

हुई लताके सदृश कांपने लगी । फिर लज्जाके कारण उसने अपनी सखियोंके साथ-खेला
बन्द कर दिया तथा न मालूम एक ओर बैठकर क्या क्या सोच-विचार करने लगी ।
(७) उसकी ऐसी प्रतिमा देखकर ऐसा ज्ञात हुआ कि, जब ब्रह्मदेव, सृष्टिमें स्त्रियोंकी रचना
करने लगे तब घुणाक्षरन्यायसे यह सुन्दरी बन गयी, अन्यथा इसके समान और स्त्रियां क्यों
नहीं उन्होंने रचीं । यदि वे ऐसी रचना कर सकनेमें प्रवीण होते, तब न करते ! यह तो
धोखेसे बन गयी, ब्रह्माजीने जानकर नहीं रची । नहीं तो और तरुणियां वे अवश्य बनाते ।
आश्चर्य और प्रीतिपूर्वक बार-बार राजवाहनको अवलोकित करनेवाली वह राजकुमारी वहां-
पर अधिक न बैठ सकी । बल्कि कुछ दूर हटकर अपनी सखियोंके पीछे आड़में होकर राज-
वाहनकी भुकुटियोंको देखती हुई बैठी । उस समय उसे ऐसा मालूम होता था कि राजवा-

राजवाहनं विलोकयन्त्यतिष्ठत् ।
(८) सोऽपि तस्यास्तदोत्पादितभावरसानां सामग्र्या लब्धबलस्येव
विषमशरस्य शरव्यायमाणमानसो बभूव ।
(६) सा मनसीत्थमचिन्तयत्—'अनन्यसाधारणसौन्दर्येणानेन क-
स्यां पुरि भाग्यवतीनां तरुणीनां लोचनोत्सवः क्रियते । पुत्ररत्नेनामुना पु-
रन्ध्रीणां पुत्रवतीनां सीमन्तिनीनां का नाम सीमन्तमौक्तिकीक्रियते । कास्य
देवी । किमत्रागमनकारणमस्य । मन्मथो मामपहसितनिजलावण्यमेनं
विलोकयन्तीमसूययेवातिमात्रं मथ्नन्निजनाम सान्वयं करोति । किं करोमि
तथा राजवाहनः स्वलावण्येन अवन्तिसुन्दरीं समाचकर्षेति इति भावः ।
(८) सोऽपि राजवाहनोऽपि । तस्या अवन्तिसुन्दर्याः । तदा तस्मिन् काले
उत्पादिता जनिता ये भावा विकारास्त एव रसास्तेषां सामग्र्या समग्रतया पूर्णतये-
त्यर्थः लब्धं प्राप्तं बलं सामर्थ्यं येन तस्य । अन्योऽपि रसायनोपयोगाल्लब्धबलो
भवतीति प्रसिद्धमेव । विषमा अयुग्मसंख्यकाः पञ्च शरा बाणा यस्य तस्य, कामस्ये
त्यर्थः । शरव्यं लक्ष्यं तदिवाचरत् शरव्यायमाणं मानसं यस्य सः । सोऽपि तदा मद-
नबाणवेध्यो बभूवेत्यर्थः ।
(९) अनन्यसाधारणम् अद्वितीयं सौन्दर्यं यस्य तेन । पुरि नगर्याम् । लोच-
नोत्सवो नयनानन्दः । कुत्रायं निवसतीति भावः । पुत्रेषु रत्नमिव, पुत्रश्रेष्ठ इत्यर्थ-
स्तेन । सीमन्तिनीनां कामिनीनां मध्ये सीमन्तमौक्तिकीक्रियते शिरोभूषणीक्रियते ।
या खल्वस्य जननी सा तु सर्वसीमन्तिनीनां शिरोमणिरिति भावः । देवी महिषी ।
अपहसितं उपहासविषयं कृतं निजं स्वकीयं लावण्यं सौन्दर्यं कामस्येति शेषः येन
तम् । एनमित्यस्य विशेषणम् । असूयया अक्षमया। मथ्नन् पीडयन् । निजनाम
इनके कटाक्ष विक्षेप उस हिरणी (अवन्तिसुन्दरी) को फंसानेके लिये जाल बिछा रहे हैं
और उसी मोहजालमें वह फंस गयी—अर्थात् राजवाहनकी शोभा खूब देखने लगी ।
(८) कुमार राजवाहनका चित्त भी अवन्तिसुन्दरीके भावमय रसोंसे-कटाक्षविक्षेपों
से-वर्द्धित होकर कामदेवके बाणोंसे विद्ध हो गया ।
(९) वह अपने मनमें सोचने लगी—ये अनन्यसाधारण शोभाशाली राजकुमार
किस पुरकी सौभाग्यवती नारीके होंगे जो इन्हें देखकर प्रमुदित होगी । वे रमणियां धन्य
होंगी जो इन्हें देखकर नेत्र सफल करती होंगी । वह धन्य-धन्य पुत्रवती है जिसने इन्हें
पुत्ररूपमें प्राप्त किया है । अवश्य ही वह अंगना सर्वश्रेष्ठ होगी जो इन्हें पुत्र कहकर आनन्दित
होती होगी । न जाने इनकी वल्लभा कौन है ? ये इस उपवनमें क्यों आए ? हा, वह
मन्मथ भी इनके सौन्दर्यसे निर्जित ईर्ष्याके साथ देखनेवाली मुझ कुमारीको मथता है तथा

पञ्चमोच्छ्वासः ] व्याख्याद्वयोपेतम् । ८६
कथमयं ज्ञातव्य' इति ।
(१०) ततो बालचन्द्रिका तयोरन्तरङ्गवृत्ति भावविवेकैर्ज्ञात्वा का-
न्तासमाजसन्निधौ राजनन्दनोदन्तस्य सम्यगाख्यानमनुचितमिति लोक-
साधारणैर्वाक्यैरभाषत—'भर्तृदारिके, अयं सकलकलाप्रवीणो देवतासा-
न्निध्यकरण आहवनिपुणो भूसुरकुमारो मणिमन्त्रौषधिज्ञः परिचर्यार्हो
भवत्या पूज्यताम्' इति ।
(११) तदाकर्ण्य निजमनोरथमवदन्त्या [अनु] बालचन्द्रिकया सन्तुष्टा-
न्तरङ्गा तरंगावली मन्दानिलेनेव सङ्कल्पजेनाकुलीकृता राजकन्या जितमारं
कुमारं समुचितासनासीनं विधाय सखीहस्तेन शस्तेन गन्धकुसुमाक्षतघन-

सन्मथेति स्वनाम सान्वयं सार्थकम् ।
(१०) तयोरवन्तिसुन्दरीराजवाहनयोः । अन्तरङ्गवृत्ति मनोवृत्तिम् । भावानां
मानसविकाराणां विवेकैर्र्विज्ञानैः । राजनन्दनोदन्तस्य राजवाहनवृत्तान्तस्य । सम्य-
गाख्यानं विशेषेण कथनम् । लोकसाधारणैः लौकिकैः । भर्तृदारिके ! प्रभुपुत्रि !
राजनन्दिनोत्यर्थः, सकलासु कलासु नृत्यगीतादिषु प्रवीणः कुशलः । देवतानां सा-
न्निध्यं साक्षात्कारं करोतीति तथा मन्त्रादिसाधनज्ञ इत्यर्थः । आहवनिपुणो युद्ध-
कुशलः । परिचर्यार्हः सत्कारयोग्यः ।
(११) निजमनोरथमनुवदन्त्या स्वाभिलाषानुरूपं कथयन्त्या । तरङ्गावली
कल्लोलमाला । सङ्कल्पजेन मनोभवेन । जितोः विजितो मारः कन्दर्पो येन तम् ।
शस्तेन प्रशस्तेन मनोहारिणा वस्तुनिचयेनेत्यस्य विशेषणम् । नूनं निश्चयेन । एषा

अपना मन्मथ नाम सार्थक करता है, क्या करूँ, कैसे जान सकूँ कि ये कौन व्यक्ति हैं ।
(१०) उस कुमारी बालचन्द्रिकाने उन दोनों की अङ्गवृत्तियोंसे यह जान लिया कि
उनके मनमें अनुराग उत्पन्न हो गया है । परन्तु स्त्रीसमुदायमें यह बात उसने प्रकट न की
क्योंकि, ऐसा करना उसे योग्य न मालूम पड़ा कि वह उन सबके समक्ष उनका परिचय
देती । अर्थात् राजवाहनको राजकुमार-रूपमें भी कहना उसने वहाँ ठीक न समझा ।
वार्तालापके प्रसंगमें उसने बताया कि, हे अवन्तिसुन्दरी ! ये (राजवाहन) मणि-मन्त्र-औषधके
परिज्ञाता हैं तथा समस्त कलाओंमें प्रवीण हैं और देवताओं से साक्षात्कार करनेमें अति दक्ष
हैं साथ ही विप्रसुत भी हैं । अतः आप इनकी पूजा करें-क्योंकि ये आपसे पूजार्ह हैं ।
(११) राजकुमारी अवन्तिसुन्दरी इस बातपर अति हर्षित हुई तथा अपनी मनोऽनुकूल
बातको बालचन्द्रिकासे सुनकर जैसे वायु के मन्द पड़नेसे जलाशयोंकी तरंगें क्षीण हो जाती हैं
वैसे ही उसकी बातोंको सुननेसे कामतरंगोंसे व्यथित राजकुमारीका अन्तःकरण क्षीण (सन्तुष्ट)