दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२२२ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
२२२ दशकुमारचरितम् । [ उत्तरपीठिकायां
तव्या । प्रत्यहं च यद्यत्तत्र वृत्तं तदस्मि त्वयैव बोध्यः, मदुक्ता पुनरियमु-
दर्कस्वादुनोऽस्मात्कर्मणः प्रसाधनाय च्छायेवानपायिनी कल्पसुन्दरीमनुव-
र्त्तताम्' इति । ते च तमर्थं तथैवान्वतिष्ठताम् ।
(११) केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा 'वत्स, माधवीव पिचु-
मन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य स्थापिता । किं
भूयः कृत्यम्' इति । पुनरहमभिलिख्यात्मनः प्रतिकृतिम् 'इयममुष्यै नेया ।
विलसितानि विहारादीनि । अन्विष्य अनुसन्धानेन आविष्कृत्य । मानं कोपम् ।
अनन्येति-नास्ति अन्यो व्यापारो यस्यास्तया परित्यक्तान्यकार्याया । उपस्थातव्या
सेव्या । वृत्तं सञ्जातम् । बोध्यः ज्ञापनीयः । इयं पुष्करिका । उदर्को भाविफलं
स्वादु मधुरं यस्य तस्य-शुभपरिणामस्येत्यर्थः । प्रसाधनाय सम्पादनाय । अन-
पायिनी अविच्छिन्ना । अनुवर्ततामनुसरतु । ते वृद्धा-पुष्करिके । तथैव यथा
मयोक्तं तेनैव प्रकारेण ।
(११) गतेषु व्यतीतेषु । मामुपहारवर्माणम् । माधवी वासन्तीलता ।
पिचुमन्दाश्लेषिणी-निम्बवृक्षाश्रिता । पिचुमन्दं निम्बवृक्षमश्लिष्यतीति तथोक्ता ।
असौ कल्पसुन्दरी । शोच्य शोचनीयम् । निम्बवृक्षाश्रयणेन माधवीलताया यथा
शोचनीयता भवति तथा कल्पसुन्दर्या अपि विकटवर्मपत्नीत्वस्वीकारेणेति भावः ।
उपपाद्य सम्पाद्य भूयः पुनः अग्रे इति यावत् । कृत्यं कर्तव्यम् । अभिलिख्य चित्र-
यित्वा। प्रतिकृतिं प्रतिमूर्त्तिम् । इयं प्रतिकृतिः । अमुष्यै-कल्पसुन्दर्यै-तदर्थ-
मित्यर्थः । नेया प्रापणीया । नीतां प्रापिताम् । एनां प्रतिकृतिम् । निर्वर्ण्य दृष्ट्वा ।
यह कहा-'हे मातः ! आप भा सभी दूसरे कर्मोंको त्याग करके केवल कल्पसुन्दरी
रानीकी सेवा करें। प्रत्येक दिवस वहाँपर जो भी समाचार मिले उसे आप स्वयं मुझसे
आ करके कहें। इस पुष्करिकाको मेरे कहे वचनोंपर छायाके समान सदा रानी कल्प-
सुन्दरीकी सेवामें अविच्छिन्नरूपेण आरूढ़ रहना चाहिये। क्योंकि इस कार्यसे अन्तमें
सुन्दर परिणाम होनेवाला है।' वे दोनों मेरे कहे वाक्योंपर दृढ़ रह करके वैसा ही
करने लगीं।
(११) कुछ दिनोंके बीतनेपर मेरी वृद्धा माताने मुझसे ( उपहारवर्मासे ) आ करके
कहा-'हे वत्स ! जैसे वासन्तीलताकी दशा नीमके वृक्षपर शोचनीया होती है उसी
प्रकारसे मैंने रानी कल्पसुन्दरीकी शोचनीया दशा कर दी है। अब इसके पश्चात् मुझे
जो आज्ञा हो वैसा कार्य मैं करूँ।' तदनन्तर मैंने अपना चित्र खींच करके उसे दिया
और कहा कि 'यह चित्र उस रानी कल्पसुन्दरीको दे दो। इस चित्रको अवलोकन
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
[Page Header]
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
तृतीयोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २२३
[Page Header Ends]
नीतां चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति । 'नन्वस्ति कश्चिदीदृशाकारः
पुमान्' इति । प्रतिब्रूह्येनाम्—'यदि स्यात्ततः किम्' इति । तस्य यदुत्तरं
सा दास्यति 'तदहमस्मि प्रतिबोधनीय' इति ।
(१२) सा 'तथा' इति राजकुलमुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते
न्यवेदयत्—'वत्स, दर्शितोऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै । चित्रीय-
माणा चासौ भुवनमिदं सनाथीकृतं यद्देवेऽपि कुसुमधन्वनि नेदृशी वपुः-
श्रीः संनिधत्ते । चित्रमेतत्किञ्चित्रतरम् । न च तमवैमि य ईदृशमिदमिह्त्यो
निर्मिमीते । केनेदमालिखितम्' इत्याहृतवती व्याहृतवती च । मया च
सा कल्पसुन्दरी । नियतम् अवश्यम् । एवं वक्ष्यमाणम् । ईदृशाकारः ईदृश
एवम्भूत आकार आकृतिर्यस्य सः । प्रतिब्रूहि-प्रत्युत्तरय । यदि स्यात्-ईदृशाकारः
पुरुषो यदि लभ्येत । ततस्तर्हि । किम् भविष्यतीति शेषः । तस्य वचनस्य । उत्तरं
प्रतिवचनम् । सा राजपत्नी । तत् प्रतिवचनम् । प्रतिबोधनीयः विज्ञापनीयः
त्वयेति शेषः ।
(१२) सा वृद्धा तापसी । तथा-तथास्तु इति प्रतिज्ञाय । राजकुलं नृपति-
मन्दिरम् । उपसंक्रम्य गत्वा । प्रतिनिवृत्ता प्रत्यागता राजकुलादिति शेषः । मा-
मुपहारवर्माणमित्यर्थः । चित्रपटः प्रतिकृतिः । मत्तकाशिन्यै वराङ्गनायै । चित्री-
यमाणा-आश्चर्यम्मन्यमाना । असौ राजपत्नी । सनाधीकृतं नाथवद् विहितम् ।
कुसुमधन्वनि-कामे । वपुः श्रीः-शरीरकान्तिः । न संनिधत्ते-न समीपमायाति
नास्तीत्यर्थः । चित्रं चित्रपटः । तं तादृशं पुरुषम् । अवैमि जानामि पश्यामीत्यर्थः ।
ईदृशं अतिसुन्दरमित्यर्थः । इदं चित्रम् । इह्त्यः एतद्देशस्थः । निर्मिमीते चित्र-
करके वह रानी अवश्य कहेगी कि क्या इस प्रकारके रूपवाला कोई पुरुष है ?' तब तुम
उस रानीको प्रत्युत्तर देना कि 'यदि हो तो, क्या करनेकी आज्ञा है?' इस प्रत्युत्तरका
जो उत्तर हो वह तुम मुझसे आ करके कहना ।
(१२) उस वृद्धा माताने 'तथा' ठीक है ऐसा स्वीकार किया और राजमन्दिर में चली
गई। और वहांसे लौटनेपर उस वृद्धाने मुझसे एकान्तमें निवेदन किया—'हे वत्स !
मैंने यह चित्रपट उस सुन्दर अङ्गोवाली रानीको दिखाया। आश्चर्यमन्यमाना उस रानी
कल्पसुन्दरीने कहा—'इस लोकको इस पुरुषने सनाथ कर दिया है तन्न इसके मुका-
बिले सौन्दर्य कामदेवके शरीरमें भी सन्निहित नहीं है। अथवा चित्रपट देख करके
रानीने अपने मनमें उस चित्रगत पुरुषको पतिके समान मान लिया। यह चित्र अत्यन्त
आश्चर्यकारी है। मुझको मालूम नहीं होता कि ऐसे चित्रका रचयिता कोई पुरुष इस