दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
पृष्ठ 86, कुल 474 में से
संदर्भ में पढ़ें८६ दशकुमारचरितम् । [ पूर्वपीठिकायां
चापयष्टिश्रिया भ्रूलते, प्रथमसुहृदः सुधाकरस्यापनीतकलङ्कया कान्त्या
वदनम् , ( लीलामयूरबर्हभङ्गया केशपाशं ) च विधाय समस्तमकरन्द-
कस्तूरिकासम्मितेन मलयजरसेन प्रक्षाल्य कर्पूरपरागेण सम्मृज्य निर्मि-
तेव रराज ।
( ६) सा मूर्त्तिमतीव लक्ष्मीर्मालवेशकन्यका स्वेनैवाराध्यमानं सङ्क-
ल्पितवरप्रदानायाविर्भूतं मूर्त्तिमन्तं मन्मथमिव तमालोक्य मन्दमारुता-
न्दोलिता लतेव मदनावेशवती चकम्पे । तदनु क्रीडाविश्रम्भात्निवृत्ता
जयध्वजस्तथाभूतो यो मीनो मत्स्यस्तस्य दर्पेणाहङ्कारेण । मीनाकारं नयनयुगमिति
भावः । चापयष्टिर्धनुर्लता तस्याः श्रिया कान्त्या । वक्रे भ्रूलते इत्यर्थः । प्रथमसुहृदः
प्रधानमित्रस्य कामस्येति शेषः । अपनीतो दूरीकृतः कलङ्को लाञ्छनं यस्यास्तया ।
निष्कलङ्कसुधाकरसदृशं वदनमिति भावः । लीलार्थो मयूरः लीलामयूरः क्रीडामयूरः
कामस्येति शेषः । तस्य बर्हं पिच्छं तस्य भङ्गया रचनया-तत्सदृशमिति भावः ।
केशपाशं केशकलापम् । विधाय कृत्वा । समस्ताभ्यामेकीकृताभ्यां मकरन्द-कस्तूरि-
काभ्यां पुष्परसमृगमदाभ्यां संमितेन युक्तेन मिलितेनेत्यर्थः । मलयजरसेन चन्दन-
द्रवेण । प्रक्षाल्य आर्दीकृत्य । कर्पूरपरागेण कर्पूरचूर्णेन । संमृज्य सर्वतः समीकृत्य ।
निर्मितेव रचितेव कामेनेति शेषः ।
(६) मूर्त्तिमतीव शरीरिणीव, साक्षादित्यर्थः । स्वेनैव स्वयमेव । आराध्यमान-
मुपास्यमानम्, अत एव सङ्कल्पितवरप्रदानाय सङ्कल्पितस्य अभिलषितस्य अवन्ति-
सुन्दर्येति शेषः । वरस्य प्रदानाय प्रदानार्थमाविर्भूतमुपस्थितम् । तं राजवाहनम् ।
मन्दमारुतेन धीरसमीरेणान्दोलिता कम्पिता । मदनस्य कामस्यावेश आविर्भाज-
स्तद्वती । चकम्पे यथा समीरसम्पर्केण लता कम्पिता भवति तथा सापि कामावेश-
वशात् कम्पिताऽभवत् । एतेन तस्या राजवाहने रतिरुत्पन्नेति ज्ञायते, सात्त्विकभा-
वस्य कम्पनस्यानुभावरूपत्वात् । तदनु एतदवस्थाप्राप्त्यनन्तरम् । क्रीडायां विश्रम्भो
उसकी दोनों आँखें निर्मित कीं । उसकी भृकुटियाँ अपने धनुषके समान तिरछी तथा अपने
मित्र चन्द्रमाकी निष्कलंक छविके समान उसका सुन्दर मुख और क्रीड़ा करनेवाले अपने
मयूरके समान उसके केशपाश रचकर एवं सभी तरहकी सुगन्धियोंसे-कस्तूरी-कर्पूर-चन्दन
आदिसे मिश्रित जलसे उसे नहला-धुलाकर पुनः कर्पूरके चूर्णसे ( सुगन्धित पाउडर से )
उसकी देह सजा दी-ऐसी सुन्दरी वह, उस समय दीख रही थी ।
( ६ ) मानो साक्षात् मूर्त्तिमती लक्ष्मी, सुन्दरीके समान मालवनाथकी पुत्री अपने
ही द्वारा उपास्यमान तथा पूर्वसंकल्पित वरप्रदानार्थ आए हुए साक्षात् मूर्त्तिमान कामदेव
के समान सुन्दर राजवाहनको देखकर कामवशीभूता होकर मन्द-मन्द बहती हवासे काँपती
Nepal Sanskrit University, Balmeeki Campus, Kathmandu