दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
Dashakumaracharitam (with Commentary – Purvapithika and Main Story)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
२६० दशकुमारचरितम् । [ उत्तरपीठिकायां
२६० दशकुमारचरितम् । [ उत्तरपीठिकायां
पूराध्मातगभीरगह्वरायामस्यां महाटव्यामेककस्य मे प्रसुप्तस्य' इत्युप-
धाय वामभुजमशयिषि ।
(२) ततः क्षणादेवावनिदुर्लभेन स्पर्शेनामुखायिषत किमपि गात्रा-
णि, आह्लादयिषतेन्द्रियाणि, अभ्यमनायिष्ट चान्तरात्मा, विशेषतश्च हृषि-
तास्तनूरुहाः, पर्यस्फुरन्मे दक्षिणभुजः । 'कथं न्विदम्' इति मन्दमन्दमु-
न्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्पं शुक्लांशुकवितानमैक्षिषि ।
(३) वामतश्चलितदृष्टिः समया सौधभित्ति चित्रास्तरणशायिनमति-
मध्यप्रदेशा यस्यास्तथाभूतायाम् । एककस्यैकाकिनः । इति एवं ब्रवन् । वामभुजं
सव्यबाहुम् उपधाय-उपधानीकृत्य वामहस्तोपरि मस्तकं न्यस्येत्यर्थः । अशयिषि-
शयितोऽभवम् अहमिति शेषः ।
(२) क्षणात्-तस्मिन्नेव मुहूर्त्ते । असुखायिषत-सुखितानि जातानि ।
किमपि-अनिर्वचनीयम् आह्लादयिषत-आह्लादितानि जातानि । इन्द्रियाणि-
चक्षुरादीनि । अभ्यमनायिष्ट-अतिशयेन मुमुदे । विशेषतः-आधिक्येन । हृषिताः
उद्गब्भिताः । तनूरुहाः-लोमानि । पर्यस्फुरत् स्पन्दितोऽभवत् । इदं-भुजकम्पनम् ।
कथं-केन प्रकारेण सम्भाव्यते । वामेतरभुजस्पन्दो वरस्त्रीलाभसूचक इत्युक्तेः ।
मन्दमन्दं-स्वल्पम् । उन्मिषन्-चक्षुषी उन्मीलयन् । उपरि मदूर्ध्वप्रदेशे । अच्छे-
ति-अच्छो-निर्मलश्चन्द्रस्यातप आलोकस्तस्य खण्डस्तत्सदृशम् । शुक्लांशुक-
वितान-शुभ्रवस्त्रनिर्मितोल्लोचम् ऐक्षिषि ईक्षितवान् ।
(३) वामतो वामभागे । चलितदृष्टिः दत्तचक्षुः । समया-समीपे । सौध-
भित्तिमित्यत्र समया योगे षष्ठ्यर्थे द्वितीया । चित्रास्तरणशायिनं-विचित्रशय्या-
शिवजीके नीले कण्ठके सदृश रात्रिसे परिव्याप्त घोर अन्धकारमय विशाल गुफाओंवाला
है तथा घातक जन्तुओंके गमनागमनसे यह अति भयावना भी है।' उपर्युक्त प्रार्थनाके
पश्चात् मैं बायें हाथको तकियाके स्थानपर बनाकरके उसोपर अपना शिर धरकर सो गया ।
(२) शिरके रखनेके पश्चात् ही उसी क्षणमें पृथिवीपर सोनेके अपूर्व आनन्दको
प्राप्त करके मेरे सभी अङ्ग सुखी हो गये, सभी इन्द्रियां आह्लादित हो गयीं, अन्तरात्मा
पुलकित हो गयी, रोम-प्रतिलोम विशेषरूपेण हर्षान्वित हो गये उसी समय मेरी दाहिनी
भुजा फड़कने लगी । यह भुजाकी फड़कन क्यों हुई ? ऐसा सोचते हुए मैंने धीरे-धीरे
आंखोंको खोलकर ऊपरकी ओर दृष्टि फेंकी तो, चन्द्रमाके समान स्वच्छ वस्त्रवाला वितान
दिखलायी पड़ा ।
(३) तदनन्तर बाँयीं ओर दृष्टि डाली तो, अङ्गनाजनको देखा, जो चूनेसे पुती
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF
पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६१
विश्रब्धप्रसुप्तमङ्गनाजनमलक्षयम् । दक्षिणतोदत्तचक्षुरागलितस्तनांशुकाम्
अमृतफेनपटलपाण्डुरशयनशायिनीम्, आदिवराहदंष्ट्रांशुजाललग्नाम्
अंसात्स्रस्तदुग्धसागरदुकूलोत्तरीयाम् भयसाध्वसमूर्च्छितामिव धरणिम्,
अरुणाधरकिरणबालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वाहिभि-
र्निःश्वासमातरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषमनङ्गमिव संधुक्षय-
न्तीम्, अन्तःसुप्तषट्पदमम्बुजमिव जातनिद्रमामीलितलोचनेन्दीवरमाननं
विन्यस्तदेहम् । अतिविश्रब्धप्रसुप्तं-अतिविश्वासेन निद्रितम् । अलक्षयम्-अप-
श्यम् । दक्षिणतः-दक्षिणभागे । दत्तचक्षुः-प्रहितनयनः । आगलितेति-आगलितम्
ईषदभ्रष्टं स्तनांशुकं स्तनावरणं यस्यास्ताम् । अमृतेति-अमृतस्य सुधायाः फेन-
पटलं डिण्डीरसमूहस्तद्वत् पाण्डुरे शुभ्रे शयने शय्यायां शायिनीं शयिताम् ।
अतएव आदिवराहस्य वराहरूपेणावतीर्णस्य विष्णोर्दंष्ट्राया दशनस्यांशुजाले मयू-
खमण्डले लग्नां सम्बद्धाम्-अंसात् स्कन्धदेशात् स्रस्त गलितं दुग्धसागरः क्षीर-
समुद्र एव दुकूलं पट्टवस्त्रं तस्योत्तरीयं यस्यास्ताम् भयेन यत् साध्वसं सम्भ्रम-
स्तेन मूर्च्छितां सञ्जातमूर्च्छां धरणीं पृथिवीमिवेत्युत्प्रेक्षा । अरुणेति-अरुणस्य ता-
म्रवर्णस्याधरस्य किरणा मयूखा एव किसलयानि पल्लवानि तेषां लास्यस्य नृत्यस्य
हेतुभिः कारणभूतैः अधरकम्पनकारणैरित्यर्थः । आननेति-आननमेवारविन्दं
कमलं तस्य यः परिमलः सौगन्ध्यं तस्य वाहिभिर्वहनशीलैर्निःश्वासमातरिश्वभि-
र्निःश्वासवायुभिः कारणभूतैरित्यर्थः । ईश्वरेक्षणदहनदग्धं धूर्जटिनयनानलाभस्मी-
कृतम् । स्फुलिङ्गशेषं-अग्निकणमात्रावशेषम् । अनङ्गं कामम् । सन्धुक्षयन्तीम्-
प्रज्वालयन्तीं वर्धयन्तीमिव । अन्तःसुप्ता अभ्यन्तरलीनाः षट्पदाः भ्रमरा
यस्मिंस्तत् । अम्बुजं कमलमिव-जातनिद्रं निद्रितमत एवामीलिते ईषत्सङ्कुचिते
हुई दीवालके समीप विचित्र एवं उज्ज्वल बिछौनेके ऊपर अत्यन्त विश्वासपूर्वक सोयी
हुई थी । दक्षिणकी ओर दृष्टि डाली तो देखा कि उस अङ्गनाके स्तनों (कुचों) परसे
वस्त्र खिसके हुए हैं । और वह अमृत के फेनके टुकड़ों के समान अत्यन्त विमल (सफेद)
पलङ्गपर सोयी हुई है । वह अंगना आदिवराह भगवान् (विष्णु) के दांतोंकी किरण-
प्रभासे परिव्याप्त अपने स्कन्धसे खिसकी हुई साड़ी (वस्त्र) को ऐसे धारण किये हुए
है मानो, क्षीर-सागर शुभ्ररूपमें उसके स्कन्धप्रदेशमेंसे खिसक रहा हो । अर्थात् उसकी
साड़ी दुग्धसमुद्रके सदृश स्वच्छ थी । भयके सम्भ्रमसे मूर्च्छित पृथिवीके समान तथा
लाल अधर-किरणोंरूप रक्त किसलयोंको कंपानेवाली, अपने मुखकमलकी सुगन्धको
लेकर उड़नेवाली निःश्वासोंके पवनसे परिव्याप्त भगवान् शङ्करके तृतीय नयनकी
Nepal Sanskrit University, Balmeeki Campus, Kathmandu