सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)

Dashakumaracharitam (with Commentary – Purvapithika and Main Story)

महाकवि दण्डी द्वारा

स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)

DevanagariHindipublished474 पृष्ठ

२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां

२६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
दधानाम् , ऐरावतमदावलेपदूनापविद्धामिव नन्दनवनकल्पवृक्षरत्नमञ्जरीं
कामपि तरुणीमालोकयम् ।
( ४ ) अतर्कयं च—'क्व गता सा महाटवी, कुत इदमूर्ध्वाण्डसम्पुटो-
ल्लेखि शक्तिध्वजशिखरशूलोत्सेधं सौधमागतम्, क्व च तदरण्यस्थलीस-
लोचने नयने इन्दीवरे नीलोत्पले इव यत्र तथाभूतमाननं दधानां धारयन्तीम् ।
ऐरावतस्येन्द्रवाहनस्य मदेन योऽवलेपो गर्वस्तेनादौ लूना छिन्ना पश्चात् अपविद्धा
निःक्षिप्ता त्यक्तेति यावत्-तथाभूताम् । नन्दनवने देवराजोद्याने यः कल्पवृक्षः पारि-
जातस्तरुस्तस्य रत्नमयी या वल्लरी मञ्जरी तामिव । कामपि-अनिर्वचनीयां
तरुणीं-युवतीम् ।
( ४ ) अतर्कयं-मनस्यचिन्तयम् । महाटवी-महारण्यम् । कुतः-कस्मात् स्था-
नात् । इदं-पुरोदृश्यमानम् । ऊर्ध्वाण्डेति-नखैर्हिरण्यगर्भः स तदण्डं विभिदे
समम् । ताभ्यां च सकलाभ्यां स दिवं भूमिञ्च निर्ममे इति मनूक्तेः ऊर्ध्वाण्ड
मूर्ध्वकपालं ब्रह्माण्डस्योध्वंर्ध्वदेश इति यावत्-तस्य यः सम्पुट आवरणं तदुल्लिखति
स्पृशतीत्येवं शीलम् । गगनस्पर्शि इत्यर्थः । शक्तिध्वजेति-शक्तिध्वजः कार्त्तिकेयः ।
सेनानीः क्रौञ्चशत्रुश्च कुमारः शक्तिकेतन इति कोषात् । तस्य यच्छूलमस्त्रविशे-
षस्तस्य शिखरमग्रभागस्तद्वत् उत्सेध औन्नत्यं यस्य तत् अत्युच्चतमित्यर्थः । सौ-
धस्य विशेषणद्वयम् । शिखरशूलमित्यत्र शूलस्य शिखरमित्यर्थे राजदन्तादिव-
त्पूर्वनिपातः । सौधं-राजसदनम् । आगतमुपस्थितम् । क्व गतमिति शेषः । तद-
रण्येति-तस्यां पूर्वोक्तायामरण्यस्थल्यां काननभूमौ समास्तीर्णं रचितम् । पल्लव-
शयनं किसलयतल्पम् । कुतस्त्यं-कुत आगतम् । इन्दुगभस्तीति-इन्दोश्चन्द्रस्य
ज्वालासे जले हुए कामदेवके कणमात्र अवशिष्ट भागको वर्द्धन करनेवाली अंगनाको देखा ।
जिस कमलकोशके भीतर भौंरा सोता हो ऐसे कमलके समान और निद्रासे परिव्याप्त
होनेसे संपुटित नयनरूप नीले कमलवाले मुखको धारण करनेवाली तथा इन्द्रके ऐरावत
हाथीकेद्वारा मदान्धमें तोड़कर त्यागी हुई नन्दनवनके कल्पवृक्षकी रत्नमञ्जरीके समान
आभावाली उस युवती ( अंगना ) को मैने देखा ।
(४) मनमें चिन्तन करने लगा—वह गहन वन कहां चला गया ? कहांसे यह
अत्यन्त विशाल राजप्रासाद आ गया जो ब्रह्माण्डके ऊपरवाले भागको स्पर्शित करनेवाला
है तथा कुमार कार्तिकेयके पर्वतकी चोटियोंके तुल्य अति उन्नत भागवाला है अर्थात्
गगनस्पर्शी है । वह वनस्थली कहां गयी जहांपर मैंने पल्लवोंकी शय्या रची थी ? कहांसे
यह चन्द्रमाकी किरणसमूहके सदृश उज्ज्वल तथा हंसतूलके समान शुभ्र वस्त्रवाली,

CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF

पञ्चमोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । २६३

मास्तीर्णं पल्लवशयनम् , कुतस्त्यं चेदमिन्दुगभस्तिसम्भारभासुरं हंसतू-
लदुकूलशयनम् , एष च को नु शीतरश्मिकिरणरज्जुदोलापरिभ्रष्टमूर्च्छित
इवाप्सरोगणः स्वैरसुप्तः सुन्दरीजनः, का चेयं देवीवारविन्दहस्ता शारद-
शशाङ्कमण्डलामलदुकूलोत्तरच्छदमधिशेते शयनतलम् ।
( ५ ) न तावदेषा देवयोषा, यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना
कमलिनीव सङ्कुचति । भग्नवृन्तच्युतरसविन्दुशवलितं पाकपाण्डु चूतफल-
मिवोद्भिन्नस्वेदरेखं गण्डस्थलमालक्ष्यते, अभिनवयौवनविदाहनिर्भरो-

गभस्तीनां किरणानां सम्भारः समूहस्तद्वद्भासुरं देदीप्यमानम् । हंसतूलदुकूल-
शयनं-हंसतूलवच्छुभ्रं यद्दुकूलं वस्त्रं तेन रचितं शयनं शय्या । एष इति सुन्दरी-
जन इत्यनेन सम्बध्यते । शीतरश्मीति-शीतरश्मेः चन्द्रस्य किरणा एव रज्जव-
स्तासां या दोला हिन्दोलिका तस्याः परिभ्रष्टः पतितः अतएव मूर्च्छितः सञ्जात-
मोहस्तादृशः अप्सरोगणो दिव्यवाराङ्गनासमूह इव । स्वैरसुप्तः-स्वच्छन्दनिद्रितः ।
सुन्दरीजनः स्त्रीसमुदायः । अरविन्दहस्ता देवी-लक्ष्मीः सेव । शारदेति-शारदं
शरदि भवं यत् शशाङ्कमण्डलं चन्द्रबिम्बं तद्वदमलं स्वच्छं दुकूलं वस्त्रं तदेवोत्तर-
च्छदः आस्तरणं यस्य तत् । शयनतलस्य विशेषणम् ।
( ५ ) एषा-शयाना स्त्री । देवयोषा-देवाङ्गना । न तावत्-नैव । यतो
यस्मात् । संवाह्यमाना-मर्द्यमाना। सेव्यमानेति यावत् । सङ्कुचति-यथा इन्दु-
किरणैः स्पृश्यमाना कमलिनी सङ्कोचं प्राप्नोति तथा इयमपि निद्रया नेत्रसङ्कोचम-
धिगच्छतीति निद्रातीति भावः । अतो न देवी देवीनां स्वप्नाभावात् । भग्नवृन्ते-
ति-भग्नवृन्तात् त्रुटितप्रसवबन्धनात् च्युतः क्षरितो यो रसस्तस्य विन्दुभिः कणैः
शवलितं कर्बुरितम् । तथा पाकपाण्डु-पाकेन परिणामेन पाण्डुवर्णं तादृशं चूत-
फलमाम्रमिव । उद्भिन्नेति-उद्भिन्ना निर्गता स्वेदरेखा घर्मधारा यत्र तादृशं गण्ड-

शय्या आ गयी ? चन्द्रमाकी किरणरूपी रस्सियों द्वारा निर्मित हिंडोले ( पालने ) के
ऊपर से गिरकर अचेतनावस्थाको प्राप्त ( मूर्छित ) अप्सराओंके समान सुखपूर्वक शयन
करनेवाली ये सुन्दरियाँ कौन हैं ? क्या यह कमलको हाथमें रखनेवाली लक्ष्मीके समान
लक्ष्मी है ? अथवा कौन इस रीतिसे शरत्कालिक चन्द्रमण्डलके समान सफेद वस्त्रकी
ओढ़नी ( चादर ) ओढ़े हुए इस पलङ्गपर सोया है ?
( ५ ) यह सोयी हुई अंगना देवस्त्री नहीं है क्योंकि शनैः शनैः चन्द्रकिरणोंसे
संसेव्यमान कमलिनीके सदृश संकुचित होकर सोती हुई दीख रही है, परन्तु देवगण
सोते नहीं हैं । इसके कपोलोंपर पसीनेकी बूँदें इस तरह मालूम होती हैं जिस तरह

Nepal Sanskrit University, Balmeeki Campus, Kathmandu